Adi Parva, Adhyaya 160, Verse 1
तापत्य इति यद्वाक्यमुक्तवानसि मामिह
तदहं ज्ञातुमिच्छामि तापत्यार्थविनिश्चयम्
Containing 41 sacred Sanskrit shlokas with multi-author commentaries and translations.
तापत्य इति यद्वाक्यमुक्तवानसि मामिह
तदहं ज्ञातुमिच्छामि तापत्यार्थविनिश्चयम्
तपती नाम का चैषा तापत्या यत्कृते वयम्
कौन्तेया हि वयं साधो तत्त्वमिच्छामि वेदितुम्
एवमुक्तः स गन्धर्वः कुन्तीपुत्रं धनंजयम्
विश्रुतां त्रिषु लोकेषु श्रावयामास वै कथाम्
हन्त ते कथयिष्यामि कथामेतां मनोरमाम्
यथावदखिलां पार्थ धर्म्यां धर्मभृतां वर
उक्तवानस्मि येन त्वां तापत्य इति यद्वचः
तत्तेऽहं कथयिष्यामि शृणुष्वैकमना मम
य एष दिवि धिष्ण्येन नाकं व्याप्नोति तेजसा
एतस्य तपती नाम बभूवासदृशी सुता
विवस्वतो वै कौन्तेय सावित्र्यवरजा विभो
विश्रुता त्रिषु लोकेषु तपती तपसा युता
न देवी नासुरी चैव न यक्षी न च राक्षसी
नाप्सरा न च गन्धर्वी तथारूपेण काचन
सुविभक्तानवद्याङ्गी स्वसितायतलोचना
स्वाचारा चैव साध्वी च सुवेषा चैव भामिनी
न तस्याः सदृशं कंचित्त्रिषु लोकेषु भारत
भर्तारं सविता मेने रूपशीलकुलश्रुतैः
संप्राप्तयौवनां पश्यन्देयां दुहितरं तु ताम्
नोपलेभे ततः शान्तिं संप्रदानं विचिन्तयन्
अर्थर्क्षपुत्रः कौन्तेय कुरूणामृषभो बली
सूर्यमाराधयामास नृपः संवरणः सदा
अर्घ्यमाल्योपहारैश्च शश्वच्च नृपतिर्यतः
नियमैरुपवासैश्च तपोभिर्विविधैरपि
शुश्रूषुरनहंवादी शुचिः पौरवनन्दनः
अंशुमन्तं समुद्यन्तं पूजयामास भक्तिमान्
ततः कृतज्ञं धर्मज्ञं रूपेणासदृशं भुवि
तपत्याः सदृशं मेने सूर्यः संवरणं पतिम्
दातुमैच्छत्ततः कन्यां तस्मै संवरणाय ताम्
नृपोत्तमाय कौरव्य विश्रुताभिजनाय वै
यथा हि दिवि दीप्तांशुः प्रभासयति तेजसा
तथा भुवि महीपालो दीप्त्या संवरणोऽभवत्
यथार्चयन्ति चादित्यमुद्यन्तं ब्रह्मवादिनः
तथा संवरणं पार्थ ब्राह्मणावरजाः प्रजाः
स सोममति कान्तत्वादादित्यमति तेजसा
बभूव नृपतिः श्रीमान्सुहृदां दुर्हृदामपि
एवंगुणस्य नृपतेस्तथावृत्तस्य कौरव
तस्मै दातुं मनश्चक्रे तपतीं तपनः स्वयम्
स कदाचिदथो राजा श्रीमानुरुयशा भुवि
चचार मृगयां पार्थ पर्वतोपवने किल
चरतो मृगयां तस्य क्षुत्पिपासाश्रमान्वितः
ममार राज्ञः कौन्तेय गिरावप्रतिमो हयः
स मृताश्वश्चरन्पार्थ पद्भ्यामेव गिरौ नृपः
ददर्शासदृशीं लोके कन्यामायतलोचनाम्
स एक एकामासाद्य कन्यां तामरिमर्दनः
तस्थौ नृपतिशार्दूलः पश्यन्नविचलेक्षणः
स हि तां तर्कयामास रूपतो नृपतिः श्रियम्
पुनः संतर्कयामास रवेर्भ्रष्टामिव प्रभाम्
गिरिप्रस्थे तु सा यस्मिन्स्थिता स्वसितलोचना
स सवृक्षक्षुपलतो हिरण्मय इवाभवत्
अवमेने च तां दृष्ट्वा सर्वप्राणभृतां वपुः
अवाप्तं चात्मनो मेने स राजा चक्षुषः फलम्
जन्मप्रभृति यत्किंचिद्दृष्टवान्स महीपतिः
रूपं न सदृशं तस्यास्तर्कयामास किंचन
तया बद्धमनश्चक्षुः पाशैर्गुणमयैस्तदा
न चचाल ततो देशाद्बुबुधे न च किंचन
अस्या नूनं विशालाक्ष्याः सदेवासुरमानुषम्
लोकं निर्मथ्य धात्रेदं रूपमाविष्कृतं कृतम्