Adi Parva, Adhyaya 158, Verse 1
ते प्रतस्थुः पुरस्कृत्य मातरं पुरुषर्षभाः
समैरुदङ्मुखैर्मार्गैर्यथोद्दिष्टं परंतपाः
Containing 55 sacred Sanskrit shlokas with multi-author commentaries and translations.
ते प्रतस्थुः पुरस्कृत्य मातरं पुरुषर्षभाः
समैरुदङ्मुखैर्मार्गैर्यथोद्दिष्टं परंतपाः
ते गच्छन्तस्त्वहोरात्रं तीर्थं सोमश्रवायणम्
आसेदुः पुरुषव्याघ्रा गङ्गायां पाण्डुनन्दनाः
उल्मुकं तु समुद्यम्य तेषामग्रे धनंजयः
प्रकाशार्थं ययौ तत्र रक्षार्थं च महायशाः
तत्र गङ्गाजले रम्ये विविक्ते क्रीडयन्स्त्रियः
ईर्ष्युर्गन्धर्वराजः स्म जलक्रीडामुपागतः
शब्दं तेषां स शुश्राव नदीं समुपसर्पताम्
तेन शब्देन चाविष्टश्चुक्रोध बलवद्बली
स दृष्ट्वा पाण्डवांस्तत्र सह मात्रा परंतपान्
विस्फारयन्धनुर्घोरमिदं वचनमब्रवीत्
संध्या संरज्यते घोरा पूर्वरात्रागमेषु या
अशीतिभिस्त्रुटैर्हीनं तं मुहूर्तं प्रचक्षते
विहितं कामचाराणां यक्षगन्धर्वरक्षसाम्
शेषमन्यन्मनुष्याणां कामचारमिह स्मृतम्
लोभात्प्रचारं चरतस्तासु वेलासु वै नरान्
उपक्रान्ता निगृह्णीमो राक्षसैः सह बालिशान्
ततो रात्रौ प्राप्नुवतो जलं ब्रह्मविदो जनाः
गर्हयन्ति नरान्सर्वान्बलस्थान्नृपतीनपि
आरात्तिष्ठत मा मह्यं समीपमुपसर्पत
कस्मान्मां नाभिजानीत प्राप्तं भागीरथीजलम्
अङ्गारपर्णं गन्धर्वं वित्त मां स्वबलाश्रयम्
अहं हि मानी चेर्ष्युश्च कुबेरस्य प्रियः सखा
अङ्गारपर्णमिति च ख्यातं वनमिदं मम
अनु गङ्गां च वाकां च चित्रं यत्र वसाम्यहम्
न कुणपाः शृङ्गिणो वा न देवा न च मानुषाः
इदं समुपसर्पन्ति तत्किं समुपसर्पथ
समुद्रे हिमवत्पार्श्वे नद्यामस्यां च दुर्मते
रात्रावहनि संधौ च कस्य कॢप्तः परिग्रहः
वयं च शक्तिसंपन्ना अकाले त्वामधृष्णुमः
अशक्ता हि क्षणे क्रूरे युष्मानर्चन्ति मानवाः
पुरा हिमवतश्चैषा हेमशृङ्गाद्विनिःसृता
गङ्गा गत्वा समुद्राम्भः सप्तधा प्रतिपद्यते
इयं भूत्वा चैकवप्रा शुचिराकाशगा पुनः
देवेषु गङ्गा गन्धर्व प्राप्नोत्यलकनन्दताम्
तथा पितॄन्वैतरणी दुस्तरा पापकर्मभिः
गङ्गा भवति गन्धर्व यथा द्वैपायनोऽब्रवीत्
असंबाधा देवनदी स्वर्गसंपादनी शुभा
कथमिच्छसि तां रोद्धुं नैष धर्मः सनातनः
अनिवार्यमसंबाधं तव वाचा कथं वयम्
न स्पृशेम यथाकामं पुण्यं भागीरथीजलम्
अङ्गारपर्णस्तच्छ्रुत्वा क्रुद्ध आनम्य कार्मुकम्
मुमोच सायकान्दीप्तानहीनाशीविषानिव
उल्मुकं भ्रामयंस्तूर्णं पाण्डवश्चर्म चोत्तमम्
व्यपोवाह शरांस्तस्य सर्वानेव धनंजयः
बिभीषिकैषा गन्धर्व नास्त्रज्ञेषु प्रयुज्यते
अस्त्रज्ञेषु प्रयुक्तैषा फेनवत्प्रविलीयते
मानुषानति गन्धर्वान्सर्वान्गन्धर्व लक्षये
तस्मादस्त्रेण दिव्येन योत्स्येऽहं न तु मायया
पुरास्त्रमिदमाग्नेयं प्रादात्किल बृहस्पतिः
भरद्वाजस्य गन्धर्व गुरुपुत्रः शतक्रतोः
भरद्वाजादग्निवेश्यो अग्निवेश्याद्गुरुर्मम
स त्विदं मह्यमददाद्द्रोणो ब्राह्मणसत्तमः
इत्युक्त्वा पाण्डवः क्रुद्धो गन्धर्वाय मुमोच ह
प्रदीप्तमस्त्रमाग्नेयं ददाहास्य रथं तु तत्
विरथं विप्लुतं तं तु स गन्धर्वं महाबलम्
अस्त्रतेजःप्रमूढं च प्रपतन्तमवाङ्मुखम्
शिरोरुहेषु जग्राह माल्यवत्सु धनंजयः
भ्रातॄन्प्रति चकर्षाथ सोऽस्त्रपातादचेतसम्