Mahabharata

Adi Parva, Adhyaya 156

Containing 11 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Adi Parva, Adhyaya 156, Verse 1

एतच्छ्रुत्वा तु कौन्तेयाः शल्यविद्धा इवाभवन्

सर्वे चास्वस्थमनसो बभूवुस्ते महारथाः

Mahabharata

Adi Parva, Adhyaya 156, Verse 2

ततः कुन्ती सुतान्दृष्ट्वा विभ्रान्तान्गतचेतसः

युधिष्ठिरमुवाचेदं वचनं सत्यवादिनी

Mahabharata

Adi Parva, Adhyaya 156, Verse 3

चिररात्रोषिताः स्मेह ब्राह्मणस्य निवेशने

रममाणाः पुरे रम्ये लब्धभैक्षा युधिष्ठिर

Mahabharata

Adi Parva, Adhyaya 156, Verse 4

यानीह रमणीयानि वनान्युपवनानि च

सर्वाणि तानि दृष्टानि पुनः पुनररिंदम

Mahabharata

Adi Parva, Adhyaya 156, Verse 5

पुनर्दृष्टानि तान्येव प्रीणयन्ति न नस्तथा

भैक्षं च न तथा वीर लभ्यते कुरुनन्दन

Mahabharata

Adi Parva, Adhyaya 156, Verse 6

ते वयं साधु पाञ्चालान्गच्छाम यदि मन्यसे

अपूर्वदर्शनं तात रमणीयं भविष्यति

Mahabharata

Adi Parva, Adhyaya 156, Verse 7

सुभिक्षाश्चैव पाञ्चालाः श्रूयन्ते शत्रुकर्शन

यज्ञसेनश्च राजासौ ब्रह्मण्य इति शुश्रुमः

Mahabharata

Adi Parva, Adhyaya 156, Verse 8

एकत्र चिरवासो हि क्षमो न च मतो मम

ते तत्र साधु गच्छामो यदि त्वं पुत्र मन्यसे

Mahabharata

Adi Parva, Adhyaya 156, Verse 9

भवत्या यन्मतं कार्यं तदस्माकं परं हितम्

अनुजांस्तु न जानामि गच्छेयुर्नेति वा पुनः

Mahabharata

Adi Parva, Adhyaya 156, Verse 10

ततः कुन्ती भीमसेनमर्जुनं यमजौ तथा

उवाच गमनं ते च तथेत्येवाब्रुवंस्तदा

Mahabharata

Adi Parva, Adhyaya 156, Verse 11

तत आमन्त्र्य तं विप्रं कुन्ती राजन्सुतैः सह

प्रतस्थे नगरीं रम्यां द्रुपदस्य महात्मनः