Mahabharata

Adi Parva, Adhyaya 155

Containing 52 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Adi Parva, Adhyaya 155, Verse 1

अमर्षी द्रुपदो राजा कर्मसिद्धान्द्विजर्षभान्

अन्विच्छन्परिचक्राम ब्राह्मणावसथान्बहून्

Mahabharata

Adi Parva, Adhyaya 155, Verse 2

पुत्रजन्म परीप्सन्वै शोकोपहतचेतनः

नास्ति श्रेष्ठं ममापत्यमिति नित्यमचिन्तयत्

Mahabharata

Adi Parva, Adhyaya 155, Verse 3

जातान्पुत्रान्स निर्वेदाद्धिग्बन्धूनिति चाब्रवीत्

निःश्वासपरमश्चासीद्द्रोणं प्रतिचिकीर्षया

Mahabharata

Adi Parva, Adhyaya 155, Verse 4

प्रभावं विनयं शिक्षां द्रोणस्य चरितानि च

क्षात्रेण च बलेनास्य चिन्तयन्नान्वपद्यत

प्रतिकर्तुं नृपश्रेष्ठो यतमानोऽपि भारत

Mahabharata

Adi Parva, Adhyaya 155, Verse 5

अभितः सोऽथ कल्माषीं गङ्गाकूले परिभ्रमन्

ब्राह्मणावसथं पुण्यमाससाद महीपतिः

Mahabharata

Adi Parva, Adhyaya 155, Verse 6

तत्र नास्नातकः कश्चिन्न चासीदव्रती द्विजः

तथैव नामहाभागः सोऽपश्यत्संशितव्रतौ

Mahabharata

Adi Parva, Adhyaya 155, Verse 7

याजोपयाजौ ब्रह्मर्षी शाम्यन्तौ पृषतात्मजः

संहिताध्ययने युक्तौ गोत्रतश्चापि काश्यपौ

Mahabharata

Adi Parva, Adhyaya 155, Verse 8

तारणे युक्तरूपौ तौ ब्राह्मणावृषिसत्तमौ

स तावामन्त्रयामास सर्वकामैरतन्द्रितः

Mahabharata

Adi Parva, Adhyaya 155, Verse 9

बुद्ध्वा तयोर्बलं बुद्धिं कनीयांसमुपह्वरे

प्रपेदे छन्दयन्कामैरुपयाजं धृतव्रतम्

Mahabharata

Adi Parva, Adhyaya 155, Verse 10

पादशुश्रूषणे युक्तः प्रियवाक्सर्वकामदः

अर्हयित्वा यथान्यायमुपयाजमुवाच सः

Mahabharata

Adi Parva, Adhyaya 155, Verse 11

येन मे कर्मणा ब्रह्मन्पुत्रः स्याद्द्रोणमृत्यवे

उपयाज कृते तस्मिन्गवां दातास्मि तेऽर्बुदम्

Mahabharata

Adi Parva, Adhyaya 155, Verse 12

यद्वा तेऽन्यद्द्विजश्रेष्ठ मनसः सुप्रियं भवेत्

सर्वं तत्ते प्रदाताहं न हि मेऽस्त्यत्र संशयः

Mahabharata

Adi Parva, Adhyaya 155, Verse 13

इत्युक्तो नाहमित्येवं तमृषिः प्रत्युवाच ह

आराधयिष्यन्द्रुपदः स तं पर्यचरत्पुनः

Mahabharata

Adi Parva, Adhyaya 155, Verse 14

ततः संवत्सरस्यान्ते द्रुपदं स द्विजोत्तमः

उपयाजोऽब्रवीद्राजन्काले मधुरया गिरा

Mahabharata

Adi Parva, Adhyaya 155, Verse 15

ज्येष्ठो भ्राता ममागृह्णाद्विचरन्वननिर्झरे

अपरिज्ञातशौचायां भूमौ निपतितं फलम्

Mahabharata

Adi Parva, Adhyaya 155, Verse 16

तदपश्यमहं भ्रातुरसांप्रतमनुव्रजन्

विमर्शं संकरादाने नायं कुर्यात्कथंचन

Mahabharata

Adi Parva, Adhyaya 155, Verse 17

दृष्ट्वा फलस्य नापश्यद्दोषा येऽस्यानुबन्धिकाः

विविनक्ति न शौचं यः सोऽन्यत्रापि कथं भवेत्

Mahabharata

Adi Parva, Adhyaya 155, Verse 18

संहिताध्ययनं कुर्वन्वसन्गुरुकुले च यः

भैक्षमुच्छिष्टमन्येषां भुङ्क्ते चापि सदा सदा

कीर्तयन्गुणमन्नानामघृणी च पुनः पुनः

Mahabharata

Adi Parva, Adhyaya 155, Verse 19

तमहं फलार्थिनं मन्ये भ्रातरं तर्कचक्षुषा

तं वै गच्छस्व नृपते स त्वां संयाजयिष्यति

Mahabharata

Adi Parva, Adhyaya 155, Verse 20

जुगुप्समानो नृपतिर्मनसेदं विचिन्तयन्

उपयाजवचः श्रुत्वा नृपतिः सर्वधर्मवित्

अभिसंपूज्य पूजार्हमृषिं याजमुवाच ह

Mahabharata

Adi Parva, Adhyaya 155, Verse 21

अयुतानि ददान्यष्टौ गवां याजय मां विभो

द्रोणवैराभिसंतप्तं त्वं ह्लादयितुमर्हसि

Mahabharata

Adi Parva, Adhyaya 155, Verse 22

स हि ब्रह्मविदां श्रेष्ठो ब्रह्मास्त्रे चाप्यनुत्तमः

तस्माद्द्रोणः पराजैषीन्मां वै स सखिविग्रहे

Mahabharata

Adi Parva, Adhyaya 155, Verse 23

क्षत्रियो नास्ति तुल्योऽस्य पृथिव्यां कश्चिदग्रणीः

कौरवाचार्यमुख्यस्य भारद्वाजस्य धीमतः

Mahabharata

Adi Parva, Adhyaya 155, Verse 24

द्रोणस्य शरजालानि प्राणिदेहहराणि च

षडरत्नि धनुश्चास्य दृश्यतेऽप्रतिमं महत्

Mahabharata

Adi Parva, Adhyaya 155, Verse 25

स हि ब्राह्मणवेगेन क्षात्रं वेगमसंशयम्

प्रतिहन्ति महेष्वासो भारद्वाजो महामनाः

Mahabharata

Adi Parva, Adhyaya 155, Verse 26

क्षत्रोच्छेदाय विहितो जामदग्न्य इवास्थितः

तस्य ह्यस्त्रबलं घोरमप्रसह्यं नरैर्भुवि

Mahabharata

Adi Parva, Adhyaya 155, Verse 27

ब्राह्ममुच्चारयंस्तेजो हुताहुतिरिवानलः

समेत्य स दहत्याजौ क्षत्रं ब्रह्मपुरःसरः

ब्रह्मक्षत्रे च विहिते ब्रह्मतेजो विशिष्यते

Mahabharata

Adi Parva, Adhyaya 155, Verse 28

सोऽहं क्षत्रबलाद्धीनो ब्रह्मतेजः प्रपेदिवान्

द्रोणाद्विशिष्टमासाद्य भवन्तं ब्रह्मवित्तमम्

Mahabharata

Adi Parva, Adhyaya 155, Verse 29

द्रोणान्तकमहं पुत्रं लभेयं युधि दुर्जयम्

तत्कर्म कुरु मे याज निर्वपाम्यर्बुदं गवाम्

Mahabharata

Adi Parva, Adhyaya 155, Verse 30

तथेत्युक्त्वा तु तं याजो याज्यार्थमुपकल्पयत्

गुर्वर्थ इति चाकाममुपयाजमचोदयत्

याजो द्रोणविनाशाय प्रतिजज्ञे तथा च सः