Mahabharata

Adi Parva, Adhyaya 153

Containing 12 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Adi Parva, Adhyaya 153, Verse 1

ते तथा पुरुषव्याघ्रा निहत्य बकराक्षसम्

अत ऊर्ध्वं ततो ब्रह्मन्किमकुर्वत पाण्डवाः

Mahabharata

Adi Parva, Adhyaya 153, Verse 2

तत्रैव न्यवसन्राजन्निहत्य बकराक्षसम्

अधीयानाः परं ब्रह्म ब्राह्मणस्य निवेशने

Mahabharata

Adi Parva, Adhyaya 153, Verse 3

ततः कतिपयाहस्य ब्राह्मणः संशितव्रतः

प्रतिश्रयार्थं तद्वेश्म ब्राह्मणस्याजगाम ह

Mahabharata

Adi Parva, Adhyaya 153, Verse 4

स सम्यक्पूजयित्वा तं विद्वान्विप्रर्षभस्तदा

ददौ प्रतिश्रयं तस्मै सदा सर्वातिथिव्रती

Mahabharata

Adi Parva, Adhyaya 153, Verse 5

ततस्ते पाण्डवाः सर्वे सह कुन्त्या नरर्षभाः

उपासां चक्रिरे विप्रं कथयानं कथास्तदा

Mahabharata

Adi Parva, Adhyaya 153, Verse 6

कथयामास देशान्स तीर्थानि विविधानि च

राज्ञां च विविधाश्चर्याः पुराणि विविधानि च

Mahabharata

Adi Parva, Adhyaya 153, Verse 7

स तत्राकथयद्विप्रः कथान्ते जनमेजय

पाञ्चालेष्वद्भुताकारं याज्ञसेन्याः स्वयंवरम्

Mahabharata

Adi Parva, Adhyaya 153, Verse 8

धृष्टद्युम्नस्य चोत्पत्तिमुत्पत्तिं च शिखण्डिनः

अयोनिजत्वं कृष्णाया द्रुपदस्य महामखे

Mahabharata

Adi Parva, Adhyaya 153, Verse 9

तदद्भुततमं श्रुत्वा लोके तस्य महात्मनः

विस्तरेणैव पप्रच्छुः कथां तां पुरुषर्षभाः

Mahabharata

Adi Parva, Adhyaya 153, Verse 10

कथं द्रुपदपुत्रस्य धृष्टद्युम्नस्य पावकात्

वेदिमध्याच्च कृष्णायाः संभवः कथमद्भुतः

Mahabharata

Adi Parva, Adhyaya 153, Verse 11

कथं द्रोणान्महेष्वासात्सर्वाण्यस्त्राण्यशिक्षत

कथं प्रियसखायौ तौ भिन्नौ कस्य कृतेन च

Mahabharata

Adi Parva, Adhyaya 153, Verse 12

एवं तैश्चोदितो राजन्स विप्रः पुरुषर्षभैः

कथयामास तत्सर्वं द्रौपदीसंभवं तदा