Adi Parva, Adhyaya 150, Verse 1
करिष्य इति भीमेन प्रतिज्ञाते तु भारत
आजग्मुस्ते ततः सर्वे भैक्षमादाय पाण्डवाः
Containing 27 sacred Sanskrit shlokas with multi-author commentaries and translations.
करिष्य इति भीमेन प्रतिज्ञाते तु भारत
आजग्मुस्ते ततः सर्वे भैक्षमादाय पाण्डवाः
आकारेणैव तं ज्ञात्वा पाण्डुपुत्रो युधिष्ठिरः
रहः समुपविश्यैकस्ततः पप्रच्छ मातरम्
किं चिकीर्षत्ययं कर्म भीमो भीमपराक्रमः
भवत्यनुमते कच्चिदयं कर्तुमिहेच्छति
ममैव वचनादेष करिष्यति परंतपः
ब्राह्मणार्थे महत्कृत्यं मोष्काय नगरस्य च
किमिदं साहसं तीक्ष्णं भवत्या दुष्कृतं कृतम्
परित्यागं हि पुत्रस्य न प्रशंसन्ति साधवः
कथं परसुतस्यार्थे स्वसुतं त्यक्तुमिच्छसि
लोकवृत्तिविरुद्धं वै पुत्रत्यागात्कृतं त्वया
यस्य बाहू समाश्रित्य सुखं सर्वे स्वपामहे
राज्यं चापहृतं क्षुद्रैराजिहीर्षामहे पुनः
यस्य दुर्योधनो वीर्यं चिन्तयन्नमितौजसः
न शेते वसतीः सर्वा दुःखाच्छकुनिना सह
यस्य वीरस्य वीर्येण मुक्ता जतुगृहाद्वयम्
अन्येभ्यश्चैव पापेभ्यो निहतश्च पुरोचनः
यस्य वीर्यं समाश्रित्य वसुपूर्णां वसुंधराम्
इमां मन्यामहे प्राप्तां निहत्य धृतराष्ट्रजान्
तस्य व्यवसितस्त्यागो बुद्धिमास्थाय कां त्वया
कच्चिन्न दुःखैर्बुद्धिस्ते विप्लुता गतचेतसः
युधिष्ठिर न संतापः कार्यः प्रति वृकोदरम्
न चायं बुद्धिदौर्बल्याद्व्यवसायः कृतो मया
इह विप्रस्य भवने वयं पुत्र सुखोषिताः
तस्य प्रतिक्रिया तात मयेयं प्रसमीक्षिता
एतावानेव पुरुषः कृतं यस्मिन्न नश्यति
दृष्ट्वा भीमस्य विक्रान्तं तदा जतुगृहे महत्
हिडिम्बस्य वधाच्चैव विश्वासो मे वृकोदरे
बाह्वोर्बलं हि भीमस्य नागायुतसमं महत्
येन यूयं गजप्रख्या निर्व्यूढा वारणावतात्
वृकोदरबलो नान्यो न भूतो न भविष्यति
योऽभ्युदीयाद्युधि श्रेष्ठमपि वज्रधरं स्वयम्
जातमात्रः पुरा चैष ममाङ्कात्पतितो गिरौ
शरीरगौरवात्तस्य शिला गात्रैर्विचूर्णिता
तदहं प्रज्ञया स्मृत्वा बलं भीमस्य पाण्डव
प्रतीकारं च विप्रस्य ततः कृतवती मतिम्
नेदं लोभान्न चाज्ञानान्न च मोहाद्विनिश्चितम्
बुद्धिपूर्वं तु धर्मस्य व्यवसायः कृतो मया
अर्थौ द्वावपि निष्पन्नौ युधिष्ठिर भविष्यतः
प्रतीकारश्च वासस्य धर्मश्च चरितो महान्
यो ब्राह्मणस्य साहाय्यं कुर्यादर्थेषु कर्हिचित्
क्षत्रियः स शुभाँल्लोकान्प्राप्नुयादिति मे श्रुतम्
क्षत्रियः क्षत्रियस्यैव कुर्वाणो वधमोक्षणम्
विपुलां कीर्तिमाप्नोति लोकेऽस्मिंश्च परत्र च
वैश्यस्यैव तु साहाय्यं कुर्वाणः क्षत्रियो युधि
स सर्वेष्वपि लोकेषु प्रजा रञ्जयते ध्रुवम्
शूद्रं तु मोक्षयन्राजा शरणार्थिनमागतम्
प्राप्नोतीह कुले जन्म सद्रव्ये राजसत्कृते
एवं स भगवान्व्यासः पुरा कौरवनन्दन
प्रोवाच सुतरां प्राज्ञस्तस्मादेतच्चिकीर्षितम्
उपपन्नमिदं मातस्त्वया यद्बुद्धिपूर्वकम्
आर्तस्य ब्राह्मणस्यैवमनुक्रोशादिदं कृतम्
ध्रुवमेष्यति भीमोऽयं निहत्य पुरुषादकम्
यथा त्विदं न विन्देयुर्नरा नगरवासिनः
तथायं ब्राह्मणो वाच्यः परिग्राह्यश्च यत्नतः