Mahabharata

Adi Parva, Adhyaya 148

Containing 16 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Adi Parva, Adhyaya 148, Verse 1

कुतोमूलमिदं दुःखं ज्ञातुमिच्छामि तत्त्वतः

विदित्वा अपकर्षेयं शक्यं चेदपकर्षितुम्

Mahabharata

Adi Parva, Adhyaya 148, Verse 2

उपपन्नं सतामेतद्यद्ब्रवीषि तपोधने

न तु दुःखमिदं शक्यं मानुषेण व्यपोहितुम्

Mahabharata

Adi Parva, Adhyaya 148, Verse 3

समीपे नगरस्यास्य बको वसति राक्षसः

ईशो जनपदस्यास्य पुरस्य च महाबलः

Mahabharata

Adi Parva, Adhyaya 148, Verse 4

पुष्टो मानुषमांसेन दुर्बुद्धिः पुरुषादकः

रक्षत्यसुरराण्नित्यमिमं जनपदं बली

Mahabharata

Adi Parva, Adhyaya 148, Verse 5

नगरं चैव देशं च रक्षोबलसमन्वितः

तत्कृते परचक्राच्च भूतेभ्यश्च न नो भयम्

Mahabharata

Adi Parva, Adhyaya 148, Verse 6

वेतनं तस्य विहितं शालिवाहस्य भोजनम्

महिषौ पुरुषश्चैको यस्तदादाय गच्छति

Mahabharata

Adi Parva, Adhyaya 148, Verse 7

एकैकश्चैव पुरुषस्तत्प्रयच्छति भोजनम्

स वारो बहुभिर्वर्षैर्भवत्यसुतरो नरैः

Mahabharata

Adi Parva, Adhyaya 148, Verse 8

तद्विमोक्षाय ये चापि यतन्ते पुरुषाः क्वचित्

सपुत्रदारांस्तान्हत्वा तद्रक्षो भक्षयत्युत

Mahabharata

Adi Parva, Adhyaya 148, Verse 9

वेत्रकीयगृहे राजा नायं नयमिहास्थितः

अनामयं जनस्यास्य येन स्यादद्य शाश्वतम्

Mahabharata

Adi Parva, Adhyaya 148, Verse 10

एतदर्हा वयं नूनं वसामो दुर्बलस्य ये

विषये नित्यमुद्विग्नाः कुराजानमुपाश्रिताः

Mahabharata

Adi Parva, Adhyaya 148, Verse 11

ब्राह्मणाः कस्य वक्तव्याः कस्य वा छन्दचारिणः

गुणैरेते हि वास्यन्ते कामगाः पक्षिणो यथा

Mahabharata

Adi Parva, Adhyaya 148, Verse 12

राजानं प्रथमं विन्देत्ततो भार्यां ततो धनम्

त्रयस्य संचये चास्य ज्ञातीन्पुत्रांश्च धारयेत्

Mahabharata

Adi Parva, Adhyaya 148, Verse 13

विपरीतं मया चेदं त्रयं सर्वमुपार्जितम्

त इमामापदं प्राप्य भृशं तप्स्यामहे वयम्

Mahabharata

Adi Parva, Adhyaya 148, Verse 14

सोऽयमस्माननुप्राप्तो वारः कुलविनाशनः

भोजनं पुरुषश्चैकः प्रदेयं वेतनं मया

Mahabharata

Adi Parva, Adhyaya 148, Verse 15

न च मे विद्यते वित्तं संक्रेतुं पुरुषं क्वचित्

सुहृज्जनं प्रदातुं च न शक्ष्यामि कथंचन

गतिं चापि न पश्यामि तस्मान्मोक्षाय रक्षसः

Mahabharata

Adi Parva, Adhyaya 148, Verse 16

सोऽहं दुःखार्णवे मग्नो महत्यसुतरे भृशम्

सहैवैतैर्गमिष्यामि बान्धवैरद्य राक्षसम्

ततो नः सहितन्क्षुद्रः सर्वानेवोपभोक्ष्यति