Mahabharata

Adi Parva, Adhyaya 147

Containing 24 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Adi Parva, Adhyaya 147, Verse 1

तयोर्दुःखितयोर्वाक्यमतिमात्रं निशम्य तत्

भृशं दुःखपरीताङ्गी कन्या तावभ्यभाषत

Mahabharata

Adi Parva, Adhyaya 147, Verse 2

किमिदं भृशदुःखार्तौ रोरवीथो अनाथवत्

ममापि श्रूयतां किंचिच्छ्रुत्वा च क्रियतां क्षमम्

Mahabharata

Adi Parva, Adhyaya 147, Verse 3

धर्मतोऽहं परित्याज्या युवयोर्नात्र संशयः

त्यक्तव्यां मां परित्यज्य त्रातं सर्वं मयैकया

Mahabharata

Adi Parva, Adhyaya 147, Verse 4

इत्यर्थमिष्यतेऽपत्यं तारयिष्यति मामिति

तस्मिन्नुपस्थिते काले तरतं प्लववन्मया

Mahabharata

Adi Parva, Adhyaya 147, Verse 5

इह वा तारयेद्दुर्गादुत वा प्रेत्य तारयेत्

सर्वथा तारयेत्पुत्रः पुत्र इत्युच्यते बुधैः

Mahabharata

Adi Parva, Adhyaya 147, Verse 6

आकाङ्क्षन्ते च दौहित्रानपि नित्यं पितामहाः

तान्स्वयं वै परित्रास्ये रक्षन्ती जीवितं पितुः

Mahabharata

Adi Parva, Adhyaya 147, Verse 7

भ्राता च मम बालोऽयं गते लोकममुं त्वयि

अचिरेणैव कालेन विनश्येत न संशयः

Mahabharata

Adi Parva, Adhyaya 147, Verse 8

तातेऽपि हि गते स्वर्गं विनष्टे च ममानुजे

पिण्डः पितॄणां व्युच्छिद्येत्तत्तेषामप्रियं भवेत्

Mahabharata

Adi Parva, Adhyaya 147, Verse 9

पित्रा त्यक्ता तथा मात्रा भ्रात्रा चाहमसंशयम्

दुःखाद्दुःखतरं प्राप्य म्रियेयमतथोचिता

Mahabharata

Adi Parva, Adhyaya 147, Verse 10

त्वयि त्वरोगे निर्मुक्ते माता भ्राता च मे शिशुः

संतानश्चैव पिण्डश्च प्रतिष्ठास्यत्यसंशयम्

Mahabharata

Adi Parva, Adhyaya 147, Verse 11

आत्मा पुत्रः सखा भार्या कृच्छ्रं तु दुहिता किल

स कृच्छ्रान्मोचयात्मानं मां च धर्मेण योजय

Mahabharata

Adi Parva, Adhyaya 147, Verse 12

अनाथा कृपणा बाला यत्रक्वचनगामिनी

भविष्यामि त्वया तात विहीना कृपणा बत

Mahabharata

Adi Parva, Adhyaya 147, Verse 13

अथ वाहं करिष्यामि कुलस्यास्य विमोक्षणम्

फलसंस्था भविष्यामि कृत्वा कर्म सुदुष्करम्

Mahabharata

Adi Parva, Adhyaya 147, Verse 14

अथ वा यास्यसे तत्र त्यक्त्वा मां द्विजसत्तम

पीडिताहं भविष्यामि तदवेक्षस्व मामपि

Mahabharata

Adi Parva, Adhyaya 147, Verse 15

तदस्मदर्थं धर्मार्थं प्रसवार्थं च सत्तम

आत्मानं परिरक्षस्व त्यक्तव्यां मां च संत्यज

Mahabharata

Adi Parva, Adhyaya 147, Verse 16

अवश्यकरणीयेऽर्थे मा त्वां कालोऽत्यगादयम्

त्वया दत्तेन तोयेन भविष्यति हितं च मे

Mahabharata

Adi Parva, Adhyaya 147, Verse 17

किं न्वतः परमं दुःखं यद्वयं स्वर्गते त्वयि

याचमानाः परादन्नं परिधावेमहि श्ववत्

Mahabharata

Adi Parva, Adhyaya 147, Verse 18

त्वयि त्वरोगे निर्मुक्ते क्लेशादस्मात्सबान्धवे

अमृते वसती लोके भविष्यामि सुखान्विता

Mahabharata

Adi Parva, Adhyaya 147, Verse 19

एवं बहुविधं तस्या निशम्य परिदेवितम्

पिता माता च सा चैव कन्या प्ररुरुदुस्त्रयः

Mahabharata

Adi Parva, Adhyaya 147, Verse 20

ततः प्ररुदितान्सर्वान्निशम्याथ सुतस्तयोः

उत्फुल्लनयनो बालः कलमव्यक्तमब्रवीत्

Mahabharata

Adi Parva, Adhyaya 147, Verse 21

मा रोदीस्तात मा मातर्मा स्वसस्त्वमिति ब्रुवन्

प्रहसन्निव सर्वांस्तानेकैकं सोऽपसर्पति

Mahabharata

Adi Parva, Adhyaya 147, Verse 22

ततः स तृणमादाय प्रहृष्टः पुनरब्रवीत्

अनेन तं हनिष्यामि राक्षसं पुरुषादकम्

Mahabharata

Adi Parva, Adhyaya 147, Verse 23

तथापि तेषां दुःखेन परीतानां निशम्य तत्

बालस्य वाक्यमव्यक्तं हर्षः समभवन्महान्

Mahabharata

Adi Parva, Adhyaya 147, Verse 24

अयं काल इति ज्ञात्वा कुन्ती समुपसृत्य तान्

गतासूनमृतेनेव जीवयन्तीदमब्रवीत्