Adi Parva, Adhyaya 146, Verse 1
न संतापस्त्वया कार्यः प्राकृतेनेव कर्हिचित्
न हि संतापकालोऽयं वैद्यस्य तव विद्यते
Containing 36 sacred Sanskrit shlokas with multi-author commentaries and translations.
न संतापस्त्वया कार्यः प्राकृतेनेव कर्हिचित्
न हि संतापकालोऽयं वैद्यस्य तव विद्यते
अवश्यं निधनं सर्वैर्गन्तव्यमिह मानवैः
अवश्यभाविन्यर्थे वै संतापो नेह विद्यते
भार्या पुत्रोऽथ दुहिता सर्वमात्मार्थमिष्यते
व्यथां जहि सुबुद्ध्या त्वं स्वयं यास्यामि तत्र वै
एतद्धि परमं नार्याः कार्यं लोके सनातनम्
प्राणानपि परित्यज्य यद्भर्तृहितमाचरेत्
तच्च तत्र कृतं कर्म तवापीह सुखावहम्
भवत्यमुत्र चाक्षय्यं लोकेऽस्मिंश्च यशस्करम्
एष चैव गुरुर्धर्मो यं प्रवक्षाम्यहं तव
अर्थश्च तव धर्मश्च भूयानत्र प्रदृश्यते
यदर्थमिष्यते भार्या प्राप्तः सोऽर्थस्त्वया मयि
कन्या चैव कुमारश्च कृताहमनृणा त्वया
समर्थः पोषणे चासि सुतयो रक्षणे तथा
न त्वहं सुतयोः शक्ता तथा रक्षणपोषणे
मम हि त्वद्विहीनायाः सर्वकामा न आपदः
कथं स्यातां सुतौ बालौ भवेयं च कथं त्वहम्
कथं हि विधवानाथा बालपुत्रा विना त्वया
मिथुनं जीवयिष्यामि स्थिता साधुगते पथि
अहंकृतावलिप्तैश्च प्रार्थ्यमानामिमां सुताम्
अयुक्तैस्तव संबन्धे कथं शक्ष्यामि रक्षितुम्
उत्सृष्टमामिषं भूमौ प्रार्थयन्ति यथा खगाः
प्रार्थयन्ति जनाः सर्वे वीरहीनां तथा स्त्रियम्
साहं विचाल्यमाना वै प्रार्थ्यमाना दुरात्मभिः
स्थातुं पथि न शक्ष्यामि सज्जनेष्टे द्विजोत्तम
कथं तव कुलस्यैकामिमां बालामसंस्कृताम्
पितृपैतामहे मार्गे नियोक्तुमहमुत्सहे
कथं शक्ष्यामि बालेऽस्मिन्गुणानाधातुमीप्षितान्
अनाथे सर्वतो लुप्ते यथा त्वं धर्मदर्शिवान्
इमामपि च ते बालामनाथां परिभूय माम्
अनर्हाः प्रार्थयिष्यन्ति शूद्रा वेदश्रुतिं यथा
तां चेदहं न दित्सेयं त्वद्गुणैरुपबृंहिताम्
प्रमथ्यैनां हरेयुस्ते हविर्ध्वाङ्क्षा इवाध्वरात्
संप्रेक्षमाणा पुत्रं ते नानुरूपमिवात्मनः
अनर्हवशमापन्नामिमां चापि सुतां तव
अवज्ञाता च लोकस्य तथात्मानमजानती
अवलिप्तैर्नरैर्ब्रह्मन्मरिष्यामि न संशयः
तौ विहीनौ मया बालौ त्वया चैव ममात्मजौ
विनश्येतां न संदेहो मत्स्याविव जलक्षये
त्रितयं सर्वथाप्येवं विनशिष्यत्यसंशयम्
त्वया विहीनं तस्मात्त्वं मां परित्यक्तुमर्हसि
व्युष्टिरेषा परा स्त्रीणां पूर्वं भर्तुः परा गतिः
न तु ब्राह्मण पुत्राणां विषये परिवर्तितुम्
परित्यक्तः सुतश्चायं दुहितेयं तथा मया
बान्धवाश्च परित्यक्तास्त्वदर्थं जीवितं च मे
यज्ञैस्तपोभिर्नियमैर्दानैश्च विविधैस्तथा
विशिष्यते स्त्रिया भर्तुर्नित्यं प्रियहिते स्थितिः
तदिदं यच्चिकीर्षामि धर्म्यं परमसंमतम्
इष्टं चैव हितं चैव तव चैव कुलस्य च
इष्टानि चाप्यपत्यानि द्रव्याणि सुहृदः प्रियाः
आपद्धर्मविमोक्षाय भार्या चापि सतां मतम्
एकतो वा कुलं कृत्स्नमात्मा वा कुलवर्धन
न समं सर्वमेवेति बुधानामेष निश्चयः
स कुरुष्व मया कार्यं तारयात्मानमात्मना
अनुजानीहि मामार्य सुतौ मे परिरक्ष च
अवध्याः स्त्रिय इत्याहुर्धर्मज्ञा धर्मनिश्चये
धर्मज्ञान्राक्षसानाहुर्न हन्यात्स च मामपि
निःसंशयो वधः पुंसां स्त्रीणां संशयितो वधः
अतो मामेव धर्मज्ञ प्रस्थापयितुमर्हसि