Adi Parva, Adhyaya 144, Verse 1
ते वनेन वनं वीरा घ्नन्तो मृगगणान्बहून्
अपक्रम्य ययू राजंस्त्वरमाणा महारथाः
Containing 20 sacred Sanskrit shlokas with multi-author commentaries and translations.
ते वनेन वनं वीरा घ्नन्तो मृगगणान्बहून्
अपक्रम्य ययू राजंस्त्वरमाणा महारथाः
मत्स्यांस्त्रिगर्तान्पाञ्चालान्कीचकानन्तरेण च
रमणीयान्वनोद्देशान्प्रेक्षमाणाः सरांसि च
जटाः कृत्वात्मनः सर्वे वल्कलाजिनवाससः
सह कुन्त्या महात्मानो बिभ्रतस्तापसं वपुः
क्वचिद्वहन्तो जननीं त्वरमाणा महारथाः
क्वचिच्छन्देन गच्छन्तस्ते जग्मुः प्रसभं पुनः
ब्राह्मं वेदमधीयाना वेदाङ्गानि च सर्वशः
नीतिशास्त्रं च धर्मज्ञा ददृशुस्ते पितामहम्
तेऽभिवाद्य महात्मानं कृष्णद्वैपायनं तदा
तस्थुः प्राञ्जलयः सर्वे सह मात्रा परंतपाः
मयेदं मनसा पूर्वं विदितं भरतर्षभाः
यथा स्थितैरधर्मेण धार्तराष्ट्रैर्विवासिताः
तद्विदित्वास्मि संप्राप्तश्चिकीर्षुः परमं हितम्
न विषादोऽत्र कर्तव्यः सर्वमेतत्सुखाय वः
समास्ते चैव मे सर्वे यूयं चैव न संशयः
दीनतो बालतश्चैव स्नेहं कुर्वन्ति बान्धवाः
तस्मादभ्यधिकः स्नेहो युष्मासु मम सांप्रतम्
स्नेहपूर्वं चिकीर्षामि हितं वस्तन्निबोधत
इदं नगरमभ्याशे रमणीयं निरामयम्
वसतेह प्रतिच्छन्ना ममागमनकाङ्क्षिणः
एवं स तान्समाश्वास्य व्यासः पार्थानरिंदमान्
एकचक्रामभिगतः कुन्तीमाश्वासयत्प्रभुः
जीवपुत्रि सुतस्तेऽयं धर्मपुत्रो युधिष्ठिरः
पृथिव्यां पार्थिवान्सर्वान्प्रशासिष्यति धर्मराट्
धर्मेण जित्वा पृथिवीमखिलां धर्मविद्वशी
भीमसेनार्जुनबलाद्भोक्ष्यत्ययमसंशयः
पुत्रास्तव च माद्र्याश्च सर्व एव महारथाः
स्वराष्ट्रे विहरिष्यन्ति सुखं सुमनसस्तदा
यक्ष्यन्ति च नरव्याघ्रा विजित्य पृथिवीमिमाम्
राजसूयाश्वमेधाद्यैः क्रतुभिर्भूरिदक्षिणैः
अनुगृह्य सुहृद्वर्गं धनेन च सुखेन च
पितृपैतामहं राज्यमिह भोक्ष्यन्ति ते सुताः
एवमुक्त्वा निवेश्यैनान्ब्राह्मणस्य निवेशने
अब्रवीत्पार्थिवश्रेष्ठमृषिर्द्वैपायनस्तदा
इह मां संप्रतीक्षध्वमागमिष्याम्यहं पुनः
देशकालौ विदित्वैव वेत्स्यध्वं परमां मुदम्
स तैः प्राञ्जलिभिः सर्वैस्तथेत्युक्तो नराधिप
जगाम भगवान्व्यासो यथाकाममृषिः प्रभुः