Adi Parva, Adhyaya 143, Verse 1
स्मरन्ति वैरं रक्षांसि मायामाश्रित्य मोहिनीम्
हिडिम्बे व्रज पन्थानं त्वं वै भ्रातृनिषेवितम्
Containing 38 sacred Sanskrit shlokas with multi-author commentaries and translations.
स्मरन्ति वैरं रक्षांसि मायामाश्रित्य मोहिनीम्
हिडिम्बे व्रज पन्थानं त्वं वै भ्रातृनिषेवितम्
क्रुद्धोऽपि पुरुषव्याघ्र भीम मा स्म स्त्रियं वधीः
शरीरगुप्त्याभ्यधिकं धर्मं गोपय पाण्डव
वधाभिप्रायमायान्तमवधीस्त्वं महाबलम्
रक्षसस्तस्य भगिनी किं नः क्रुद्धा करिष्यति
हिडिम्बा तु ततः कुन्तीमभिवाद्य कृताञ्जलिः
युधिष्ठिरं च कौन्तेयमिदं वचनमब्रवीत्
आर्ये जानासि यद्दुःखमिह स्त्रीणामनङ्गजम्
तदिदं मामनुप्राप्तं भीमसेनकृतं शुभे
सोढं तत्परमं दुःखं मया कालप्रतीक्षया
सोऽयमभ्यागतः कालो भविता मे सुखाय वै
मया ह्युत्सृज्य सुहृदः स्वधर्मं स्वजनं तथा
वृतोऽयं पुरुषव्याघ्रस्तव पुत्रः पतिः शुभे
वरेणापि तथानेन त्वया चापि यशस्विनि
तथा ब्रुवन्ती हि तदा प्रत्याख्याता क्रियां प्रति
त्वं मां मूढेति वा मत्वा भक्ता वानुगतेति वा
भर्त्रानेन महाभागे संयोजय सुतेन ते
तमुपादाय गच्छेयं यथेष्टं देवरूपिणम्
पुनश्चैवागमिष्यामि विश्रम्भं कुरु मे शुभे
अहं हि मनसा ध्याता सर्वान्नेष्यामि वः सदा
वृजिने तारयिष्यामि दुर्गेषु च नरर्षभान्
पृष्ठेन वो वहिष्यामि शीघ्रां गतिमभीप्सतः
यूयं प्रसादं कुरुत भीमसेनो भजेत माम्
आपदस्तरणे प्राणान्धारयेद्येन येन हि
सर्वमादृत्य कर्तव्यं तद्धर्ममनुवर्तता
आपत्सु यो धारयति धर्मं धर्मविदुत्तमः
व्यसनं ह्येव धर्मस्य धर्मिणामापदुच्यते
पुण्यं प्राणान्धारयति पुण्यं प्राणदमुच्यते
येन येनाचरेद्धर्मं तस्मिन्गर्हा न विद्यते
एवमेतद्यथात्थ त्वं हिडिम्बे नात्र संशयः
स्थातव्यं तु त्वया धर्मे यथा ब्रूयां सुमध्यमे
स्नातं कृताह्निकं भद्रे कृतकौतुकमङ्गलम्
भीमसेनं भजेथास्त्वं प्रागस्तगमनाद्रवेः
अहःसु विहरानेन यथाकामं मनोजवा
अयं त्वानयितव्यस्ते भीमसेनः सदा निशि
तथेति तत्प्रतिज्ञाय हिडिम्बा राक्षसी तदा
भीमसेनमुपादाय ऊर्ध्वमाचक्रमे ततः
शैलशृङ्गेषु रम्येषु देवतायतनेषु च
मृगपक्षिविघुष्टेषु रमणीयेषु सर्वदा
कृत्वा च परमं रूपं सर्वाभरणभूषिता
संजल्पन्ती सुमधुरं रमयामास पाण्डवम्
तथैव वनदुर्गेषु पुष्पितद्रुमसानुषु
सरःसु रमणीयेषु पद्मोत्पलयुतेषु च
नदीद्वीपप्रदेशेषु वैडूर्यसिकतासु च
सुतीर्थवनतोयासु तथा गिरिनदीषु च
सगरस्य प्रदेशेषु मणिहेमचितेषु च
पत्तनेषु च रम्येषु महाशालवनेषु च
देवारण्येषु पुण्येषु तथा पर्वतसानुषु
गुह्यकानां निवासेषु तापसायतनेषु च
सर्वर्तुफलपुष्पेषु मानसेषु सरःसु च
बिभ्रती परमं रूपं रमयामास पाण्डवम्
रमयन्ती तथा भीमं तत्र तत्र मनोजवा
प्रजज्ञे राक्षसी पुत्रं भीमसेनान्महाबलम्
विरूपाक्षं महावक्त्रं शङ्कुकर्णं विभीषणम्
भीमरूपं सुताम्रोष्ठं तीक्ष्णदंष्ट्रं महाबलम्
महेष्वासं महावीर्यं महासत्त्वं महाभुजम्
महाजवं महाकायं महामायमरिंदमम्
अमानुषं मानुषजं भीमवेगं महाबलम्
यः पिशाचानतीवान्यान्बभूवाति स मानुषान्