Mahabharata

Adi Parva, Adhyaya 142

Containing 34 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Adi Parva, Adhyaya 142, Verse 1

प्रबुद्धास्ते हिडिम्बाया रूपं दृष्ट्वातिमानुषम्

विस्मिताः पुरुषव्याघ्रा बभूवुः पृथया सह

Mahabharata

Adi Parva, Adhyaya 142, Verse 2

ततः कुन्ती समीक्ष्यैनां विस्मिता रूपसंपदा

उवाच मधुरं वाक्यं सान्त्वपूर्वमिदं शनैः

Mahabharata

Adi Parva, Adhyaya 142, Verse 3

कस्य त्वं सुरगर्भाभे का चासि वरवर्णिनि

केन कार्येण सुश्रोणि कुतश्चागमनं तव

Mahabharata

Adi Parva, Adhyaya 142, Verse 4

यदि वास्य वनस्यासि देवता यदि वाप्सराः

आचक्ष्व मम तत्सर्वं किमर्थं चेह तिष्ठसि

Mahabharata

Adi Parva, Adhyaya 142, Verse 5

यदेतत्पश्यसि वनं नीलमेघनिभं महत्

निवासो राक्षसस्यैतद्धिडिम्बस्य ममैव च

Mahabharata

Adi Parva, Adhyaya 142, Verse 6

तस्य मां राक्षसेन्द्रस्य भगिनीं विद्धि भामिनि

भ्रात्रा संप्रेषितामार्ये त्वां सपुत्रां जिघांसता

Mahabharata

Adi Parva, Adhyaya 142, Verse 7

क्रूरबुद्धेरहं तस्य वचनादागता इह

अद्राक्षं हेमवर्णाभं तव पुत्रं महौजसम्

Mahabharata

Adi Parva, Adhyaya 142, Verse 8

ततोऽहं सर्वभूतानां भावे विचरता शुभे

चोदिता तव पुत्रस्य मन्मथेन वशानुगा

Mahabharata

Adi Parva, Adhyaya 142, Verse 9

ततो वृतो मया भर्ता तव पुत्रो महाबलः

अपनेतुं च यतितो न चैव शकितो मया

Mahabharata

Adi Parva, Adhyaya 142, Verse 10

चिरायमाणां मां ज्ञात्वा ततः स पुरुषादकः

स्वयमेवागतो हन्तुमिमान्सर्वांस्तवात्मजान्

Mahabharata

Adi Parva, Adhyaya 142, Verse 11

स तेन मम कान्तेन तव पुत्रेण धीमता

बलादितो विनिष्पिष्य व्यपकृष्टो महात्मना

Mahabharata

Adi Parva, Adhyaya 142, Verse 12

विकर्षन्तौ महावेगौ गर्जमानौ परस्परम्

पश्यध्वं युधि विक्रान्तावेतौ तौ नरराक्षसौ

Mahabharata

Adi Parva, Adhyaya 142, Verse 13

तस्याः श्रुत्वैव वचनमुत्पपात युधिष्ठिरः

अर्जुनो नकुलश्चैव सहदेवश्च वीर्यवान्

Mahabharata

Adi Parva, Adhyaya 142, Verse 14

तौ ते ददृशुरासक्तौ विकर्षन्तौ परस्परम्

काङ्क्षमाणौ जयं चैव सिंहाविव रणोत्कटौ

Mahabharata

Adi Parva, Adhyaya 142, Verse 15

तावन्योन्यं समाश्लिष्य विकर्षन्तौ परस्परम्

दावाग्निधूमसदृशं चक्रतुः पार्थिवं रजः

Mahabharata

Adi Parva, Adhyaya 142, Verse 16

वसुधारेणुसंवीतौ वसुधाधरसंनिभौ

विभ्राजेतां यथा शैलौ नीहारेणाभिसंवृतौ

Mahabharata

Adi Parva, Adhyaya 142, Verse 17

राक्षसेन तथा भीमं क्लिश्यमानं निरीक्ष्य तु

उवाचेदं वचः पार्थः प्रहसञ्शनकैरिव

Mahabharata

Adi Parva, Adhyaya 142, Verse 18

भीम मा भैर्महाबाहो न त्वां बुध्यामहे वयम्

समेतं भीमरूपेण प्रसुप्ताः श्रमकर्शिताः

Mahabharata

Adi Parva, Adhyaya 142, Verse 19

साहाय्येऽस्मि स्थितः पार्थ योधयिष्यामि राक्षसम्

नकुलः सहदेवश्च मातरं गोपयिष्यतः

Mahabharata

Adi Parva, Adhyaya 142, Verse 20

उदासीनो निरीक्षस्व न कार्यः संभ्रमस्त्वया

न जात्वयं पुनर्जीवेन्मद्बाह्वन्तरमागतः

Mahabharata

Adi Parva, Adhyaya 142, Verse 21

किमनेन चिरं भीम जीवता पापरक्षसा

गन्तव्यं न चिरं स्थातुमिह शक्यमरिंदम

Mahabharata

Adi Parva, Adhyaya 142, Verse 22

पुरा संरज्यते प्राची पुरा संध्या प्रवर्तते

रौद्रे मुहूर्ते रक्षांसि प्रबलानि भवन्ति च

Mahabharata

Adi Parva, Adhyaya 142, Verse 23

त्वरस्व भीम मा क्रीड जहि रक्षो विभीषणम्

पुरा विकुरुते मायां भुजयोः सारमर्पय

Mahabharata

Adi Parva, Adhyaya 142, Verse 24

अर्जुनेनैवमुक्तस्तु भीमो भीमस्य रक्षसः

उत्क्षिप्याभ्रामयद्देहं तूर्णं गुणशताधिकम्

Mahabharata

Adi Parva, Adhyaya 142, Verse 25

वृथामांसैर्वृथा पुष्टो वृथा वृद्धो वृथामतिः

वृथामरणमर्हस्त्वं वृथाद्य न भविष्यसि

Mahabharata

Adi Parva, Adhyaya 142, Verse 26

अथ वा मन्यसे भारं त्वमिमं राक्षसं युधि

करोमि तव साहाय्यं शीघ्रमेव निहन्यताम्

Mahabharata

Adi Parva, Adhyaya 142, Verse 27

अथ वाप्यहमेवैनं हनिष्यामि वृकोदर

कृतकर्मा परिश्रान्तः साधु तावदुपारम

Mahabharata

Adi Parva, Adhyaya 142, Verse 28

तस्य तद्वचनं श्रुत्वा भीमसेनोऽत्यमर्षणः

निष्पिष्यैनं बलाद्भूमौ पशुमारममारयत्

Mahabharata

Adi Parva, Adhyaya 142, Verse 29

स मार्यमाणो भीमेन ननाद विपुलं स्वनम्

पूरयंस्तद्वनं सर्वं जलार्द्र इव दुन्दुभिः

Mahabharata

Adi Parva, Adhyaya 142, Verse 30

भुजाभ्यां योक्त्रयित्वा तं बलवान्पाण्डुनन्दनः

मध्ये भङ्क्त्वा स बलवान्हर्षयामास पाण्डवान्