Adi Parva, Adhyaya 141, Verse 1
भीमसेनस्तु तं दृष्ट्वा राक्षसं प्रहसन्निव
भगिनीं प्रति संक्रुद्धमिदं वचनमब्रवीत्
Containing 24 sacred Sanskrit shlokas with multi-author commentaries and translations.
भीमसेनस्तु तं दृष्ट्वा राक्षसं प्रहसन्निव
भगिनीं प्रति संक्रुद्धमिदं वचनमब्रवीत्
किं ते हिडिम्ब एतैर्वा सुखसुप्तैः प्रबोधितैः
मामासादय दुर्बुद्धे तरसा त्वं नराशन
मय्येव प्रहरैहि त्वं न स्त्रियं हन्तुमर्हसि
विशेषतोऽनपकृते परेणापकृते सति
न हीयं स्ववशा बाला कामयत्यद्य मामिह
चोदितैषा ह्यनङ्गेन शरीरान्तरचारिणा
भगिनी तव दुर्बुद्धे राक्षसानां यशोहर
त्वन्नियोगेन चैवेयं रूपं मम समीक्ष्य च
कामयत्यद्य मां भीरुर्नैषा दूषयते कुलम्
अनङ्गेन कृते दोषे नेमां त्वमिह राक्षस
मयि तिष्ठति दुष्टात्मन्न स्त्रियं हन्तुमर्हसि
समागच्छ मया सार्धमेकेनैको नराशन
अहमेव नयिष्यामि त्वामद्य यमसादनम्
अद्य ते तलनिष्पिष्टं शिरो राक्षस दीर्यताम्
कुञ्जरस्येव पादेन विनिष्पिष्टं बलीयसः
अद्य गात्राणि क्रव्यादाः श्येना गोमायवश्च ते
कर्षन्तु भुवि संहृष्टा निहतस्य मया मृधे
क्षणेनाद्य करिष्येऽहमिदं वनमकण्टकम्
पुरस्ताद्दूषितं नित्यं त्वया भक्षयता नरान्
अद्य त्वां भगिनी पाप कृष्यमाणं मया भुवि
द्रक्षत्यद्रिप्रतीकाशं सिंहेनेव महाद्विपम्
निराबाधास्त्वयि हते मया राक्षसपांसन
वनमेतच्चरिष्यन्ति पुरुषा वनचारिणः
गर्जितेन वृथा किं ते कत्थितेन च मानुष
कृत्वैतत्कर्मणा सर्वं कत्थेथा मा चिरं कृथाः
बलिनं मन्यसे यच्च आत्मानमपराक्रमम्
ज्ञास्यस्यद्य समागम्य मयात्मानं बलाधिकम्
न तावदेतान्हिंसिष्ये स्वपन्त्वेते यथासुखम्
एष त्वामेव दुर्बुद्धे निहन्म्यद्याप्रियंवदम्
पीत्वा तवासृग्गात्रेभ्यस्ततः पश्चादिमानपि
हनिष्यामि ततः पश्चादिमां विप्रियकारिणीम्
एवमुक्त्वा ततो बाहुं प्रगृह्य पुरुषादकः
अभ्यधावत संक्रुद्धो भीमसेनमरिंदमम्
तस्याभिपततस्तूर्णं भीमो भीमपराक्रमः
वेगेन प्रहृतं बाहुं निजग्राह हसन्निव
निगृह्य तं बलाद्भीमो विस्फुरन्तं चकर्ष ह
तस्माद्देशाद्धनूंष्यष्टौ सिंहः क्षुद्रमृगं यथा
ततः स राक्षसः क्रुद्धः पाण्डवेन बलाद्धृतः
भीमसेनं समालिङ्ग्य व्यनदद्भैरवं रवम्
पुनर्भीमो बलादेनं विचकर्ष महाबलः
मा शब्दः सुखसुप्तानां भ्रातॄणां मे भवेदिति
अन्योन्यं तौ समासाद्य विचकर्षतुरोजसा
राक्षसो भीमसेनश्च विक्रमं चक्रतुः परम्
बभञ्जतुर्महावृक्षाँल्लताश्चाकर्षतुस्ततः
मत्ताविव सुसंरब्धौ वारणौ षष्टिहायनौ
तयोः शब्देन महता विबुद्धास्ते नरर्षभाः
सह मात्रा तु ददृशुर्हिडिम्बामग्रतः स्थिताम्