Adi Parva, Adhyaya 140, Verse 1
तां विदित्वा चिरगतां हिडिम्बो राक्षसेश्वरः
अवतीर्य द्रुमात्तस्मादाजगामाथ पाण्डवान्
Containing 21 sacred Sanskrit shlokas with multi-author commentaries and translations.
तां विदित्वा चिरगतां हिडिम्बो राक्षसेश्वरः
अवतीर्य द्रुमात्तस्मादाजगामाथ पाण्डवान्
लोहिताक्षो महाबाहुरूर्ध्वकेशो महाबलः
मेघसंघातवर्ष्मा च तीक्ष्णदंष्ट्रोज्ज्वलाननः
तमापतन्तं दृष्ट्वैव तथा विकृतदर्शनम्
हिडिम्बोवाच वित्रस्ता भीमसेनमिदं वचः
आपतत्येष दुष्टात्मा संक्रुद्धः पुरुषादकः
त्वामहं भ्रातृभिः सार्धं यद्ब्रवीमि तथा कुरु
अहं कामगमा वीर रक्षोबलसमन्विता
आरुहेमां मम श्रोणीं नेष्यामि त्वां विहायसा
प्रबोधयैनान्संसुप्तान्मातरं च परंतप
सर्वानेव गमिष्यामि गृहीत्वा वो विहायसा
मा भैस्त्वं विपुलश्रोणि नैष कश्चिन्मयि स्थिते
अहमेनं हनिष्यामि प्रेक्षन्त्यास्ते सुमध्यमे
नायं प्रतिबलो भीरु राक्षसापसदो मम
सोढुं युधि परिस्पन्दमथ वा सर्वराक्षसाः
पश्य बाहू सुवृत्तौ मे हस्तिहस्तनिभाविमौ
ऊरू परिघसंकाशौ संहतं चाप्युरो मम
विक्रमं मे यथेन्द्रस्य साद्य द्रक्ष्यसि शोभने
मावमंस्थाः पृथुश्रोणि मत्वा मामिह मानुषम्
नावमन्ये नरव्याघ्र त्वामहं देवरूपिणम्
दृष्टापदानस्तु मया मानुषेष्वेव राक्षसः
तथा संजल्पतस्तस्य भीमसेनस्य भारत
वाचः शुश्राव ताः क्रुद्धो राक्षसः पुरुषादकः
अवेक्षमाणस्तस्याश्च हिडिम्बो मानुषं वपुः
स्रग्दामपूरितशिखं समग्रेन्दुनिभाननम्
सुभ्रूनासाक्षिकेशान्तं सुकुमारनखत्वचम्
सर्वाभरणसंयुक्तं सुसूक्ष्माम्बरवाससम्
तां तथा मानुषं रूपं बिभ्रतीं सुमनोहरम्
पुंस्कामां शङ्कमानश्च चुक्रोध पुरुषादकः
संक्रुद्धो राक्षसस्तस्या भगिन्याः कुरुसत्तम
उत्फाल्य विपुले नेत्रे ततस्तामिदमब्रवीत्
को हि मे भोक्तुकामस्य विघ्नं चरति दुर्मतिः
न बिभेषि हिडिम्बे किं मत्कोपाद्विप्रमोहिता
धिक्त्वामसति पुंस्कामे मम विप्रियकारिणि
पूर्वेषां राक्षसेन्द्राणां सर्वेषामयशस्करि
यानिमानाश्रिताकार्षीरप्रियं सुमहन्मम
एष तानद्य वै सर्वान्हनिष्यामि त्वया सह
एवमुक्त्वा हिडिम्बां स हिडिम्बो लोहितेक्षणः
वधायाभिपपातैनां दन्तैर्दन्तानुपस्पृशन्
तमापतन्तं संप्रेक्ष्य भीमः प्रहरतां वरः
भर्त्सयामास तेजस्वी तिष्ठ तिष्ठेति चाब्रवीत्