Mahabharata

Adi Parva, Adhyaya 139

Containing 32 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Adi Parva, Adhyaya 139, Verse 1

तत्र तेषु शयानेषु हिडिम्बो नाम राक्षसः

अविदूरे वनात्तस्माच्छालवृक्षमुपाश्रितः

Mahabharata

Adi Parva, Adhyaya 139, Verse 2

क्रूरो मानुषमांसादो महावीर्यो महाबलः

विरूपरूपः पिङ्गाक्षः करालो घोरदर्शनः

पिशितेप्सुः क्षुधार्तस्तानपश्यत यदृच्छया

Mahabharata

Adi Parva, Adhyaya 139, Verse 3

ऊर्ध्वाङ्गुलिः स कण्डूयन्धुन्वन्रूक्षाञ्शिरोरुहान्

जृम्भमाणो महावक्त्रः पुनः पुनरवेक्ष्य च

Mahabharata

Adi Parva, Adhyaya 139, Verse 4

दुष्टो मानुषमांसादो महाकायो महाबलः

आघ्राय मानुषं गन्धं भगिनीमिदमब्रवीत्

Mahabharata

Adi Parva, Adhyaya 139, Verse 5

उपपन्नश्चिरस्याद्य भक्षो मम मनःप्रियः

स्नेहस्रवान्प्रस्रवति जिह्वा पर्येति मे मुखम्

Mahabharata

Adi Parva, Adhyaya 139, Verse 6

अष्टौ दंष्ट्राः सुतीक्ष्णाग्राश्चिरस्यापातदुःसहाः

देहेषु मज्जयिष्यामि स्निग्धेषु पिशितेषु च

Mahabharata

Adi Parva, Adhyaya 139, Verse 7

आक्रम्य मानुषं कण्ठमाच्छिद्य धमनीमपि

उष्णं नवं प्रपास्यामि फेनिलं रुधिरं बहु

Mahabharata

Adi Parva, Adhyaya 139, Verse 8

गच्छ जानीहि के त्वेते शेरते वनमाश्रिताः

मानुषो बलवान्गन्धो घ्राणं तर्पयतीव मे

Mahabharata

Adi Parva, Adhyaya 139, Verse 9

हत्वैतान्मानुषान्सर्वानानयस्व ममान्तिकम्

अस्मद्विषयसुप्तेभ्यो नैतेभ्यो भयमस्ति ते

Mahabharata

Adi Parva, Adhyaya 139, Verse 10

एषां मांसानि संस्कृत्य मानुषाणां यथेष्टतः

भक्षयिष्याव सहितौ कुरु तूर्णं वचो मम

Mahabharata

Adi Parva, Adhyaya 139, Verse 11

भ्रातुर्वचनमाज्ञाय त्वरमाणेव राक्षसी

जगाम तत्र यत्र स्म पाण्डवा भरतर्षभ

Mahabharata

Adi Parva, Adhyaya 139, Verse 12

ददर्श तत्र गत्वा सा पाण्डवान्पृथया सह

शयानान्भीमसेनं च जाग्रतं त्वपराजितम्

Mahabharata

Adi Parva, Adhyaya 139, Verse 13

दृष्ट्वैव भीमसेनं सा शालस्कन्धमिवोद्गतम्

राक्षसी कामयामास रूपेणाप्रतिमं भुवि

Mahabharata

Adi Parva, Adhyaya 139, Verse 14

अयं श्यामो महाबाहुः सिंहस्कन्धो महाद्युतिः

कम्बुग्रीवः पुष्कराक्षो भर्ता युक्तो भवेन्मम

Mahabharata

Adi Parva, Adhyaya 139, Verse 15

नाहं भ्रातृवचो जातु कुर्यां क्रूरोपसंहितम्

पतिस्नेहोऽतिबलवान्न तथा भ्रातृसौहृदम्

Mahabharata

Adi Parva, Adhyaya 139, Verse 16

मुहूर्तमिव तृप्तिश्च भवेद्भ्रातुर्ममैव च

हतैरेतैरहत्वा तु मोदिष्ये शाश्वतीः समाः

Mahabharata

Adi Parva, Adhyaya 139, Verse 17

सा कामरूपिणी रूपं कृत्वा मानुषमुत्तमम्

उपतस्थे महाबाहुं भीमसेनं शनैः शनैः

Mahabharata

Adi Parva, Adhyaya 139, Verse 18

विलज्जमानेव लता दिव्याभरणभूषिता

स्मितपूर्वमिदं वाक्यं भीमसेनमथाब्रवीत्

Mahabharata

Adi Parva, Adhyaya 139, Verse 19

कुतस्त्वमसि संप्राप्तः कश्चासि पुरुषर्षभ

क इमे शेरते चेह पुरुषा देवरूपिणः

Mahabharata

Adi Parva, Adhyaya 139, Verse 20

केयं च बृहती श्यामा सुकुमारी तवानघ

शेते वनमिदं प्राप्य विश्वस्ता स्वगृहे यथा

Mahabharata

Adi Parva, Adhyaya 139, Verse 21

नेदं जानाति गहनं वनं राक्षससेवितम्

वसति ह्यत्र पापात्मा हिडिम्बो नाम राक्षसः

Mahabharata

Adi Parva, Adhyaya 139, Verse 22

तेनाहं प्रेषिता भ्रात्रा दुष्टभावेन रक्षसा

बिभक्षयिषता मांसं युष्माकममरोपम

Mahabharata

Adi Parva, Adhyaya 139, Verse 23

साहं त्वामभिसंप्रेक्ष्य देवगर्भसमप्रभम्

नान्यं भर्तारमिच्छामि सत्यमेतद्ब्रवीमि ते

Mahabharata

Adi Parva, Adhyaya 139, Verse 24

एतद्विज्ञाय धर्मज्ञ युक्तं मयि समाचर

कामोपहतचित्ताङ्गीं भजमानां भजस्व माम्

Mahabharata

Adi Parva, Adhyaya 139, Verse 25

त्रास्येऽहं त्वां महाबाहो राक्षसात्पुरुषादकात्

वत्स्यावो गिरिदुर्गेषु भर्ता भव ममानघ

Mahabharata

Adi Parva, Adhyaya 139, Verse 26

अन्तरिक्षचरा ह्यस्मि कामतो विचरामि च

अतुलामाप्नुहि प्रीतिं तत्र तत्र मया सह

Mahabharata

Adi Parva, Adhyaya 139, Verse 27

मातरं भ्रातरं ज्येष्ठं कनिष्ठानपरानिमान्

परित्यजेत को न्वद्य प्रभवन्निव राक्षसि

Mahabharata

Adi Parva, Adhyaya 139, Verse 28

को हि सुप्तानिमान्भ्रातॄन्दत्त्वा राक्षसभोजनम्

मातरं च नरो गच्छेत्कामार्त इव मद्विधः

Mahabharata

Adi Parva, Adhyaya 139, Verse 29

यत्ते प्रियं तत्करिष्ये सर्वानेतान्प्रबोधय

मोक्षयिष्यामि वः कामं राक्षसात्पुरुषादकात्

Mahabharata

Adi Parva, Adhyaya 139, Verse 30

सुखसुप्तान्वने भ्रातॄन्मातरं चैव राक्षसि

न भयाद्बोधयिष्यामि भ्रातुस्तव दुरात्मनः