Adi Parva, Adhyaya 137, Verse 1
अथ रात्र्यां व्यतीतायामशेषो नागरो जनः
तत्राजगाम त्वरितो दिदृक्षुः पाण्डुनन्दनान्
Containing 23 sacred Sanskrit shlokas with multi-author commentaries and translations.
अथ रात्र्यां व्यतीतायामशेषो नागरो जनः
तत्राजगाम त्वरितो दिदृक्षुः पाण्डुनन्दनान्
निर्वापयन्तो ज्वलनं ते जना ददृशुस्ततः
जातुषं तद्गृहं दग्धममात्यं च पुरोचनम्
नूनं दुर्योधनेनेदं विहितं पापकर्मणा
पाण्डवानां विनाशाय इत्येवं चुक्रुषुर्जनाः
विदिते धृतराष्ट्रस्य धार्तराष्ट्रो न संशयः
दग्धवान्पाण्डुदायादान्न ह्येनं प्रतिषिद्धवान्
नूनं शांतनवो भीष्मो न धर्ममनुवर्तते
द्रोणश्च विदुरश्चैव कृपश्चान्ये च कौरवाः
ते वयं धृतराष्ट्रस्य प्रेषयामो दुरात्मनः
संवृत्तस्ते परः कामः पाण्डवान्दग्धवानसि
ततो व्यपोहमानास्ते पाण्डवार्थे हुताशनम्
निषादीं ददृशुर्दग्धां पञ्चपुत्रामनागसम्
खनकेन तु तेनैव वेश्म शोधयता बिलम्
पांसुभिः प्रत्यपिहितं पुरुषैस्तैरलक्षितम्
ततस्ते प्रेषयामासुर्धृतराष्ट्रस्य नागराः
पाण्डवानग्निना दग्धानमात्यं च पुरोचनम्
श्रुत्वा तु धृतराष्ट्रस्तद्राजा सुमहदप्रियम्
विनाशं पाण्डुपुत्राणां विललाप सुदुःखितः
अद्य पाण्डुर्मृतो राजा भ्राता मम सुदुर्लभः
तेषु वीरेषु दग्धेषु मात्रा सह विशेषतः
गच्छन्तु पुरुषाः शीघ्रं नगरं वारणावतम्
सत्कारयन्तु तान्वीरान्कुन्तिराजसुतां च ताम्
कारयन्तु च कुल्यानि शुभ्राणि च महान्ति च
ये च तत्र मृतास्तेषां सुहृदोऽर्चन्तु तानपि
एवंगते मया शक्यं यद्यत्कारयितुं हितम्
पाण्डवानां च कुन्त्याश्च तत्सर्वं क्रियतां धनैः
एवमुक्त्वा ततश्चक्रे ज्ञातिभिः परिवारितः
उदकं पाण्डुपुत्राणां धृतराष्ट्रोऽम्बिकासुतः
चुक्रुशुः कौरवाः सर्वे भृशं शोकपरायणाः
विदुरस्त्वल्पशश्चक्रे शोकं वेद परं हि सः
पाण्डवाश्चापि निर्गत्य नगराद्वारणावतात्
जवेन प्रययू राजन्दक्षिणां दिशमाश्रिताः
विज्ञाय निशि पन्थानं नक्षत्रैर्दक्षिणामुखाः
यतमाना वनं राजन्गहनं प्रतिपेदिरे
ततः श्रान्ताः पिपासार्ता निद्रान्धाः पाण्डुनन्दनाः
पुनरूचुर्महावीर्यं भीमसेनमिदं वचः
इतः कष्टतरं किं नु यद्वयं गहने वने
दिशश्च न प्रजानीमो गन्तुं चैव न शक्नुमः
तं च पापं न जानीमो यदि दग्धः पुरोचनः
कथं नु विप्रमुच्येम भयादस्मादलक्षिताः
पुनरस्मानुपादाय तथैव व्रज भारत
त्वं हि नो बलवानेको यथा सततगस्तथा
इत्युक्तो धर्मराजेन भीमसेनो महाबलः
आदाय कुन्तीं भ्रातॄंश्च जगामाशु महाबलः