Adi Parva, Adhyaya 136, Verse 1
तांस्तु दृष्ट्वा सुमनसः परिसंवत्सरोषितान्
विश्वस्तानिव संलक्ष्य हर्षं चक्रे पुरोचनः
Containing 19 sacred Sanskrit shlokas with multi-author commentaries and translations.
तांस्तु दृष्ट्वा सुमनसः परिसंवत्सरोषितान्
विश्वस्तानिव संलक्ष्य हर्षं चक्रे पुरोचनः
पुरोचने तथा हृष्टे कौन्तेयोऽथ युधिष्ठिरः
भीमसेनार्जुनौ चैव यमौ चोवाच धर्मवित्
अस्मानयं सुविश्वस्तान्वेत्ति पापः पुरोचनः
वञ्चितोऽयं नृशंसात्मा कालं मन्ये पलायने
आयुधागारमादीप्य दग्ध्वा चैव पुरोचनम्
षट्प्राणिनो निधायेह द्रवामोऽनभिलक्षिताः
अथ दानापदेशेन कुन्ती ब्राह्मणभोजनम्
चक्रे निशि महद्राजन्नाजग्मुस्तत्र योषितः
ता विहृत्य यथाकामं भुक्त्वा पीत्वा च भारत
जग्मुर्निशि गृहानेव समनुज्ञाप्य माधवीम्
निषादी पञ्चपुत्रा तु तस्मिन्भोज्ये यदृच्छया
अन्नार्थिनी समभ्यागात्सपुत्रा कालचोदिता
सा पीत्वा मदिरां मत्ता सपुत्रा मदविह्वला
सह सर्वैः सुतै राजंस्तस्मिन्नेव निवेशने
सुष्वाप विगतज्ञाना मृतकल्पा नराधिप
अथ प्रवाते तुमुले निशि सुप्ते जने विभो
तदुपादीपयद्भीमः शेते यत्र पुरोचनः
ततः प्रतापः सुमहाञ्शब्दश्चैव विभावसोः
प्रादुरासीत्तदा तेन बुबुधे स जनव्रजः
दुर्योधनप्रयुक्तेन पापेनाकृतबुद्धिना
गृहमात्मविनाशाय कारितं दाहितं च यत्
अहो धिग्धृतराष्ट्रस्य बुद्धिर्नातिसमञ्जसी
यः शुचीन्पाण्डवान्बालान्दाहयामास मन्त्रिणा
दिष्ट्या त्विदानीं पापात्मा दग्धोऽयमतिदुर्मतिः
अनागसः सुविश्वस्तान्यो ददाह नरोत्तमान्
एवं ते विलपन्ति स्म वारणावतका जनाः
परिवार्य गृहं तच्च तस्थू रात्रौ समन्ततः
पाण्डवाश्चापि ते राजन्मात्रा सह सुदुःखिताः
बिलेन तेन निर्गत्य जग्मुर्गूढमलक्षिताः
तेन निद्रोपरोधेन साध्वसेन च पाण्डवाः
न शेकुः सहसा गन्तुं सह मात्रा परंतपाः
भीमसेनस्तु राजेन्द्र भीमवेगपराक्रमः
जगाम भ्रातॄनादाय सर्वान्मातरमेव च
स्कन्धमारोप्य जननीं यमावङ्केन वीर्यवान्
पार्थौ गृहीत्वा पाणिभ्यां भ्रातरौ सुमहाबलौ
तरसा पादपान्भञ्जन्महीं पद्भ्यां विदारयन्
स जगामाशु तेजस्वी वातरंहा वृकोदरः