Mahabharata

Adi Parva, Adhyaya 135

Containing 21 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Adi Parva, Adhyaya 135, Verse 1

विदुरस्य सुहृत्कश्चित्खनकः कुशलः क्वचित्

विविक्ते पाण्डवान्राजन्निदं वचनमब्रवीत्

Mahabharata

Adi Parva, Adhyaya 135, Verse 2

प्रहितो विदुरेणास्मि खनकः कुशलो भृशम्

पाण्डवानां प्रियं कार्यमिति किं करवाणि वः

Mahabharata

Adi Parva, Adhyaya 135, Verse 3

प्रच्छन्नं विदुरेणोक्तः श्रेयस्त्वमिह पाण्डवान्

प्रतिपादय विश्वासादिति किं करवाणि वः

Mahabharata

Adi Parva, Adhyaya 135, Verse 4

कृष्णपक्षे चतुर्दश्यां रात्रावस्य पुरोचनः

भवनस्य तव द्वारि प्रदास्यति हुताशनम्

Mahabharata

Adi Parva, Adhyaya 135, Verse 5

मात्रा सह प्रदग्धव्याः पाण्डवाः पुरुषर्षभाः

इति व्यवसितं पार्थ धार्तराष्ट्रस्य मे श्रुतम्

Mahabharata

Adi Parva, Adhyaya 135, Verse 6

किंचिच्च विदुरेणोक्तो म्लेच्छवाचासि पाण्डव

त्वया च तत्तथेत्युक्तमेतद्विश्वासकारणम्

Mahabharata

Adi Parva, Adhyaya 135, Verse 7

उवाच तं सत्यधृतिः कुन्तीपुत्रो युधिष्ठिरः

अभिजानामि सौम्य त्वां सुहृदं विदुरस्य वै

Mahabharata

Adi Parva, Adhyaya 135, Verse 8

शुचिमाप्तं प्रियं चैव सदा च दृढभक्तिकम्

न विद्यते कवेः किंचिदभिज्ञानप्रयोजनम्

Mahabharata

Adi Parva, Adhyaya 135, Verse 9

यथा नः स तथा नस्त्वं निर्विशेषा वयं त्वयि

भवतः स्म यथा तस्य पालयास्मान्यथा कविः

Mahabharata

Adi Parva, Adhyaya 135, Verse 10

इदं शरणमाग्नेयं मदर्थमिति मे मतिः

पुरोचनेन विहितं धार्तराष्ट्रस्य शासनात्

Mahabharata

Adi Parva, Adhyaya 135, Verse 11

स पापः कोशवांश्चैव ससहायश्च दुर्मतिः

अस्मानपि च दुष्टात्मा नित्यकालं प्रबाधते

Mahabharata

Adi Parva, Adhyaya 135, Verse 12

स भवान्मोक्षयत्वस्मान्यत्नेनास्माद्धुताशनात्

अस्मास्विह हि दग्धेषु सकामः स्यात्सुयोधनः

Mahabharata

Adi Parva, Adhyaya 135, Verse 13

समृद्धमायुधागारमिदं तस्य दुरात्मनः

वप्रान्ते निष्प्रतीकारमाश्लिष्येदं कृतं महत्

Mahabharata

Adi Parva, Adhyaya 135, Verse 14

इदं तदशुभं नूनं तस्य कर्म चिकीर्षितम्

प्रागेव विदुरो वेद तेनास्मानन्वबोधयत्

Mahabharata

Adi Parva, Adhyaya 135, Verse 15

सेयमापदनुप्राप्ता क्षत्ता यां दृष्टवान्पुरा

पुरोचनस्याविदितानस्मांस्त्वं विप्रमोचय

Mahabharata

Adi Parva, Adhyaya 135, Verse 16

स तथेति प्रतिश्रुत्य खनको यत्नमास्थितः

परिखामुत्किरन्नाम चकार सुमहद्बिलम्

Mahabharata

Adi Parva, Adhyaya 135, Verse 17

चक्रे च वेश्मनस्तस्य मध्ये नातिमहन्मुखम्

कपाटयुक्तमज्ञातं समं भूम्या च भारत

Mahabharata

Adi Parva, Adhyaya 135, Verse 18

पुरोचनभयाच्चैव व्यदधात्संवृतं मुखम्

स तत्र च गृहद्वारि वसत्यशुभधीः सदा

Mahabharata

Adi Parva, Adhyaya 135, Verse 19

तत्र ते सायुधाः सर्वे वसन्ति स्म क्षपां नृप

दिवा चरन्ति मृगयां पाण्डवेया वनाद्वनम्

Mahabharata

Adi Parva, Adhyaya 135, Verse 20

विश्वस्तवदविश्वस्ता वञ्चयन्तः पुरोचनम्

अतुष्टास्तुष्टवद्राजन्नूषुः परमदुःखिताः

Mahabharata

Adi Parva, Adhyaya 135, Verse 21

न चैनानन्वबुध्यन्त नरा नगरवासिनः

अन्यत्र विदुरामात्यात्तस्मात्खनकसत्तमात्