Adi Parva, Adhyaya 134, Verse 1
ततः सर्वाः प्रकृतयो नगराद्वारणावतात्
सर्वमङ्गलसंयुक्ता यथाशास्त्रमतन्द्रिताः
Containing 28 sacred Sanskrit shlokas with multi-author commentaries and translations.
ततः सर्वाः प्रकृतयो नगराद्वारणावतात्
सर्वमङ्गलसंयुक्ता यथाशास्त्रमतन्द्रिताः
श्रुत्वागतान्पाण्डुपुत्रान्नानायानैः सहस्रशः
अभिजग्मुर्नरश्रेष्ठाञ्श्रुत्वैव परया मुदा
ते समासाद्य कौन्तेयान्वारणावतका जनाः
कृत्वा जयाशिषः सर्वे परिवार्योपतस्थिरे
तैर्वृतः पुरुषव्याघ्रो धर्मराजो युधिष्ठिरः
विबभौ देवसंकाशो वज्रपाणिरिवामरैः
सत्कृतास्ते तु पौरैश्च पौरान्सत्कृत्य चानघाः
अलंकृतं जनाकीर्णं विविशुर्वारणावतम्
ते प्रविश्य पुरं वीरास्तूर्णं जग्मुरथो गृहान्
ब्राह्मणानां महीपाल रतानां स्वेषु कर्मसु
नगराधिकृतानां च गृहाणि रथिनां तथा
उपतस्थुर्नरश्रेष्ठा वैश्यशूद्रगृहानपि
अर्चिताश्च नरैः पौरैः पाण्डवा भरतर्षभाः
जग्मुरावसथं पश्चात्पुरोचनपुरस्कृताः
तेभ्यो भक्ष्यान्नपानानि शयनानि शुभानि च
आसनानि च मुख्यानि प्रददौ स पुरोचनः
तत्र ते सत्कृतास्तेन सुमहार्हपरिच्छदाः
उपास्यमानाः पुरुषैरूषुः पुरनिवासिभिः
दशरात्रोषितानां तु तत्र तेषां पुरोचनः
निवेदयामास गृहं शिवाख्यमशिवं तदा
तत्र ते पुरुषव्याघ्रा विविशुः सपरिच्छदाः
पुरोचनस्य वचनात्कैलासमिव गुह्यकाः
तत्त्वगारमभिप्रेक्ष्य सर्वधर्मविशारदः
उवाचाग्नेयमित्येवं भीमसेनं युधिष्ठिरः
जिघ्रन्सोम्य वसागन्धं सर्पिर्जतुविमिश्रितम्
कृतं हि व्यक्तमाग्नेयमिदं वेश्म परंतप
शणसर्जरसं व्यक्तमानीतं गृहकर्मणि
मुञ्जबल्वजवंशादि द्रव्यं सर्वं घृतोक्षितम्
शिल्पिभिः सुकृतं ह्याप्तैर्विनीतैर्वेश्मकर्मणि
विश्वस्तं मामयं पापो दग्धुकामः पुरोचनः
इमां तु तां महाबुद्धिर्विदुरो दृष्टवांस्तदा
आपदं तेन मां पार्थ स संबोधितवान्पुरा
ते वयं बोधितास्तेन बुद्धवन्तोऽशिवं गृहम्
आचार्यैः सुकृतं गूढैर्दुर्योधनवशानुगैः
यदिदं गृहमाग्नेयं विहितं मन्यते भवान्
तत्रैव साधु गच्छामो यत्र पूर्वोषिता वयम्
इह यत्तैर्निराकारैर्वस्तव्यमिति रोचये
नष्टैरिव विचिन्वद्भिर्गतिमिष्टां ध्रुवामितः
यदि विन्देत चाकारमस्माकं हि पुरोचनः
शीघ्रकारी ततो भूत्वा प्रसह्यापि दहेत नः
नायं बिभेत्युपक्रोशादधर्माद्वा पुरोचनः
तथा हि वर्तते मन्दः सुयोधनमते स्थितः
अपि चेह प्रदग्धेषु भीष्मोऽस्मासु पितामहः
कोपं कुर्यात्किमर्थं वा कौरवान्कोपयेत सः
धर्म इत्येव कुप्येत तथान्ये कुरुपुंगवाः
वयं तु यदि दाहस्य बिभ्यतः प्रद्रवेम हि
स्पशैर्नो घातयेत्सार्वान्राज्यलुब्धः सुयोधनः
अपदस्थान्पदे तिष्ठन्नपक्षान्पक्षसंस्थितः
हीनकोशान्महाकोशः प्रयोगैर्घातयेद्ध्रुवम्
तदस्माभिरिमं पापं तं च पापं सुयोधनम्
वञ्चयद्भिर्निवस्तव्यं छन्नवासं क्वचित्क्वचित्
ते वयं मृगयाशीलाश्चराम वसुधामिमाम्
तथा नो विदिता मार्गा भविष्यन्ति पलायताम्
भौमं च बिलमद्यैव करवाम सुसंवृतम्
गूढोच्छ्वसान्न नस्तत्र हुताशः संप्रधक्ष्यति
वसतोऽत्र यथा चास्मान्न बुध्येत पुरोचनः
पौरो वापि जनः कश्चित्तथा कार्यमतन्द्रितैः