Adi Parva, Adhyaya 133, Verse 1
पाण्डवास्तु रथान्युक्त्वा सदश्वैरनिलोपमैः
आरोहमाणा भीष्मस्य पादौ जगृहुरार्तवत्
Containing 30 sacred Sanskrit shlokas with multi-author commentaries and translations.
पाण्डवास्तु रथान्युक्त्वा सदश्वैरनिलोपमैः
आरोहमाणा भीष्मस्य पादौ जगृहुरार्तवत्
राज्ञश्च धृतराष्ट्रस्य द्रोणस्य च महात्मनः
अन्येषां चैव वृद्धानां विदुरस्य कृपस्य च
एवं सर्वान्कुरून्वृद्धानभिवाद्य यतव्रताः
समालिङ्ग्य समानांश्च बालैश्चाप्यभिवादिताः
सर्वा मातॄस्तथापृष्ट्वा कृत्वा चैव प्रदक्षिणम्
सर्वाः प्रकृतयश्चैव प्रययुर्वारणावतम्
विदुरश्च महाप्राज्ञस्तथान्ये कुरुपुंगवाः
पौराश्च पुरुषव्याघ्रानन्वयुः शोककर्शिताः
तत्र केचिद्ब्रुवन्ति स्म ब्राह्मणा निर्भयास्तदा
शोचमानाः पाण्डुपुत्रानतीव भरतर्षभ
विषमं पश्यते राजा सर्वथा तमसावृतः
धृतराष्ट्रः सुदुर्बुद्धिर्न च धर्मं प्रपश्यति
न हि पापमपापात्मा रोचयिष्यति पाण्डवः
भीमो वा बलिनां श्रेष्ठः कौन्तेयो वा धनंजयः
कुत एव महाप्राज्ञौ माद्रीपुत्रौ करिष्यतः
तद्राज्यं पितृतः प्राप्तं धृतराष्ट्रो न मृष्यते
अधर्ममखिलं किं नु भीष्मोऽयमनुमन्यते
विवास्यमानानस्थाने कौन्तेयान्भरतर्षभान्
पितेव हि नृपोऽस्माकमभूच्छांतनवः पुरा
विचित्रवीर्यो राजर्षिः पाण्डुश्च कुरुनन्दनः
स तस्मिन्पुरुषव्याघ्रे दिष्टभावं गते सति
राजपुत्रानिमान्बालान्धृतराष्ट्रो न मृष्यते
वयमेतदमृष्यन्तः सर्व एव पुरोत्तमात्
गृहान्विहाय गच्छामो यत्र याति युधिष्ठिरः
तांस्तथावादिनः पौरान्दुःखितान्दुःखकर्शितः
उवाच परमप्रीतो धर्मराजो युधिष्ठिरः
पिता मान्यो गुरुः श्रेष्ठो यदाह पृथिवीपतिः
अशङ्कमानैस्तत्कार्यमस्माभिरिति नो व्रतम्
भवन्तः सुहृदोऽस्माकमस्मान्कृत्वा प्रदक्षिणम्
आशीर्भिरभिनन्द्यास्मान्निवर्तध्वं यथागृहम्
यदा तु कार्यमस्माकं भवद्भिरुपपत्स्यते
तदा करिष्यथ मम प्रियाणि च हितानि च
ते तथेति प्रतिज्ञाय कृत्वा चैतान्प्रदक्षिणम्
आशीर्भिरभिनन्द्यैनाञ्जग्मुर्नगरमेव हि
पौरेषु तु निवृत्तेषु विदुरः सर्वधर्मवित्
बोधयन्पाण्डवश्रेष्ठमिदं वचनमब्रवीत्
प्राज्ञः प्राज्ञं प्रलापज्ञः सम्यग्धर्मार्थदर्शिवान्
विज्ञायेदं तथा कुर्यादापदं निस्तरेद्यथा
अलोहं निशितं शस्त्रं शरीरपरिकर्तनम्
यो वेत्ति न तमाघ्नन्ति प्रतिघातविदं द्विषः
कक्षघ्नः शिशिरघ्नश्च महाकक्षे बिलौकसः
न दहेदिति चात्मानं यो रक्षति स जीवति
नाचक्षुर्वेत्ति पन्थानं नाचक्षुर्विन्दते दिशः
नाधृतिर्भूतिमाप्नोति बुध्यस्वैवं प्रबोधितः
अनाप्तैर्दत्तमादत्ते नरः शस्त्रमलोहजम्
श्वाविच्छरणमासाद्य प्रमुच्येत हुताशनात्
चरन्मार्गान्विजानाति नक्षत्रैर्विन्दते दिशः
आत्मना चात्मनः पञ्च पीडयन्नानुपीड्यते
अनुशिष्ट्वानुगत्वा च कृत्वा चैनान्प्रदक्षिणम्
पाण्डवानभ्यनुज्ञाय विदुरः प्रययौ गृहान्
निवृत्ते विदुरे चैव भीष्मे पौरजने तथा
अजातशत्रुमामन्त्र्य कुन्ती वचनमब्रवीत्
क्षत्ता यदब्रवीद्वाक्यं जनमध्येऽब्रुवन्निव
त्वया च तत्तथेत्युक्तो जानीमो न च तद्वयम्
यदि तच्छक्यमस्माभिः श्रोतुं न च सदोषवत्
श्रोतुमिच्छामि तत्सर्वं संवादं तव तस्य च
विषादग्नेश्च बोद्धव्यमिति मां विदुरोऽब्रवीत्
पन्थाश्च वो नाविदितः कश्चित्स्यादिति चाब्रवीत्
जितेन्द्रियश्च वसुधां प्राप्स्यसीति च माब्रवीत्
विज्ञातमिति तत्सर्वमित्युक्तो विदुरो मया
अष्टमेऽहनि रोहिण्यां प्रयाताः फल्गुनस्य ते
वारणावतमासाद्य ददृशुर्नागरं जनम्