Adi Parva, Adhyaya 132, Verse 1
एवमुक्तेषु राज्ञा तु पाण्डवेषु महात्मसु
दुर्योधनः परं हर्षमाजगाम दुरात्मवान्
Containing 19 sacred Sanskrit shlokas with multi-author commentaries and translations.
एवमुक्तेषु राज्ञा तु पाण्डवेषु महात्मसु
दुर्योधनः परं हर्षमाजगाम दुरात्मवान्
स पुरोचनमेकान्तमानीय भरतर्षभ
गृहीत्वा दक्षिणे पाणौ सचिवं वाक्यमब्रवीत्
ममेयं वसुसंपूर्णा पुरोचन वसुंधरा
यथेयं मम तद्वत्ते स तां रक्षितुमर्हसि
न हि मे कश्चिदन्योऽस्ति वैश्वासिकतरस्त्वया
सहायो येन संधाय मन्त्रयेयं यथा त्वया
संरक्ष तात मन्त्रं च सपत्नांश्च ममोद्धर
निपुणेनाभ्युपायेन यद्ब्रवीमि तथा कुरु
पाण्डवा धृतराष्ट्रेण प्रेषिता वारणावतम्
उत्सवे विहरिष्यन्ति धृतराष्ट्रस्य शासनात्
स त्वं रासभयुक्तेन स्यन्दनेनाशुगामिना
वारणावतमद्यैव यथा यासि तथा कुरु
तत्र गत्वा चतुःशालं गृहं परमसंवृतम्
आयुधागारमाश्रित्य कारयेथा महाधनम्
शणसर्जरसादीनि यानि द्रव्याणि कानिचित्
आग्नेयान्युत सन्तीह तानि सर्वाणि दापय
सर्पिषा च सतैलेन लाक्षया चाप्यनल्पया
मृत्तिकां मिश्रयित्वा त्वं लेपं कुड्येषु दापयेः
शणान्वंशं घृतं दारु यन्त्राणि विविधानि च
तस्मिन्वेश्मनि सर्वाणि निक्षिपेथाः समन्ततः
यथा च त्वां न शङ्केरन्परीक्षन्तोऽपि पाण्डवाः
आग्नेयमिति तत्कार्यमिति चान्ये च मानवाः
वेश्मन्येवं कृते तत्र कृत्वा तान्परमार्चितान्
वासयेः पाण्डवेयांश्च कुन्तीं च ससुहृज्जनाम्
तत्रासनानि मुख्यानि यानानि शयनानि च
विधातव्यानि पाण्डूनां यथा तुष्येत मे पिता
यथा रमेरन्विश्रब्धा नगरे वारणावते
तथा सर्वं विधातव्यं यावत्कालस्य पर्ययः
ज्ञात्वा तु तान्सुविश्वस्ताञ्शयानानकुतोभयान्
अग्निस्ततस्त्वया देयो द्वारतस्तस्य वेश्मनः
दग्धानेवं स्वके गेहे दग्धा इति ततो जनाः
ज्ञातयो वा वदिष्यन्ति पाण्डवार्थाय कर्हिचित्
तत्तथेति प्रतिज्ञाय कौरवाय पुरोचनः
प्रायाद्रासभयुक्तेन नगरं वारणावतम्
स गत्वा त्वरितो राजन्दुर्योधनमते स्थितः
यथोक्तं राजपुत्रेण सर्वं चक्रे पुरोचनः