Adi Parva, Adhyaya 129, Verse 1
प्राणाधिकं भीमसेनं कृतविद्यं धनंजयम्
दुर्योधनो लक्षयित्व पर्यतप्यत दुर्मतिः
Containing 18 sacred Sanskrit shlokas with multi-author commentaries and translations.
प्राणाधिकं भीमसेनं कृतविद्यं धनंजयम्
दुर्योधनो लक्षयित्व पर्यतप्यत दुर्मतिः
ततो वैकर्तनः कर्णः शकुनिश्चापि सौबलः
अनेकैरभ्युपायैस्ताञ्जिघांसन्ति स्म पाण्डवान्
पाण्डवाश्चापि तत्सर्वं प्रत्यजानन्नरिंदमाः
उद्भावनमकुर्वन्तो विदुरस्य मते स्थिताः
गुणैः समुदितान्दृष्ट्वा पौराः पाण्डुसुतांस्तदा
कथयन्ति स्म संभूय चत्वरेषु सभासु च
प्रज्ञाचक्षुरचक्षुष्ट्वाद्धृतराष्ट्रो जनेश्वरः
राज्यमप्राप्तवान्पूर्वं स कथं नृपतिर्भवेत्
तथा भीष्मः शांतनवः सत्यसंधो महाव्रतः
प्रत्याख्याय पुरा राज्यं नाद्य जातु ग्रहीष्यति
ते वयं पाण्डवं ज्येष्ठं तरुणं वृद्धशीलिनम्
अभिषिञ्चाम साध्वद्य सत्यं करुणवेदिनम्
स हि भीष्मं शांतनवं धृतराष्ट्रं च धर्मवित्
सपुत्रं विविधैर्भोगैर्योजयिष्यति पूजयन्
तेषां दुर्योधनः श्रुत्वा तानि वाक्यानि भाषताम्
युधिष्ठिरानुरक्तानां पर्यतप्यत दुर्मतिः
स तप्यमानो दुष्टात्मा तेषां वाचो न चक्षमे
ईर्ष्यया चाभिसंतप्तो धृतराष्ट्रमुपागमत्
ततो विरहितं दृष्ट्वा पितरं प्रतिपूज्य सः
पौरानुरागसंतप्तः पश्चादिदमभाषत
श्रुता मे जल्पतां तात पौराणामशिवा गिरः
त्वामनादृत्य भीष्मं च पतिमिच्छन्ति पाण्डवम्
मतमेतच्च भीष्मस्य न स राज्यं बुभूषति
अस्माकं तु परां पीडां चिकीर्षन्ति पुरे जनाः
पितृतः प्राप्तवान्राज्यं पाण्डुरात्मगुणैः पुरा
त्वमप्यगुणसंयोगात्प्राप्तं राज्यं न लब्धवान्
स एष पाण्डोर्दायाद्यं यदि प्राप्नोति पाण्डवः
तस्य पुत्रो ध्रुवं प्राप्तस्तस्य तस्येति चापरः
ते वयं राजवंशेन हीनाः सह सुतैरपि
अवज्ञाता भविष्यामो लोकस्य जगतीपते
सततं निरयं प्राप्ताः परपिण्डोपजीविनः
न भवेम यथा राजंस्तथा शीघ्रं विधीयताम्
अभविष्यः स्थिरो राज्ये यदि हि त्वं पुरा नृप
ध्रुवं प्राप्स्याम च वयं राज्यमप्यवशे जने