Adi Parva, Adhyaya 126, Verse 1
दत्तेऽवकाशे पुरुषैर्विस्मयोत्फुल्ललोचनैः
विवेश रङ्गं विस्तीर्णं कर्णः परपुरंजयः
Containing 39 sacred Sanskrit shlokas with multi-author commentaries and translations.
दत्तेऽवकाशे पुरुषैर्विस्मयोत्फुल्ललोचनैः
विवेश रङ्गं विस्तीर्णं कर्णः परपुरंजयः
सहजं कवचं बिभ्रत्कुण्डलोद्द्योतिताननः
सधनुर्बद्धनिस्त्रिंशः पादचारीव पर्वतः
कन्यागर्भः पृथुयशाः पृथायाः पृथुलोचनः
तीक्ष्णांशोर्भास्करस्यांशः कर्णोऽरिगणसूदनः
सिंहर्षभगजेन्द्राणां तुल्यवीर्यपराक्रमः
दीप्तिकान्तिद्युतिगुणैः सूर्येन्दुज्वलनोपमः
प्रांशुः कनकतालाभः सिंहसंहननो युवा
असंख्येयगुणः श्रीमान्भास्करस्यात्मसंभवः
स निरीक्ष्य महाबाहुः सर्वतो रङ्गमण्डलम्
प्रणामं द्रोणकृपयोर्नात्यादृतमिवाकरोत्
स सामाजजनः सर्वो निश्चलः स्थिरलोचनः
कोऽयमित्यागतक्षोभः कौतूहलपरोऽभवत्
सोऽब्रवीन्मेघधीरेण स्वरेण वदतां वरः
भ्राता भ्रातरमज्ञातं सावित्रः पाकशासनिम्
पार्थ यत्ते कृतं कर्म विशेषवदहं ततः
करिष्ये पश्यतां नॄणां मात्मना विस्मयं गमः
असमाप्ते ततस्तस्य वचने वदतां वर
यन्त्रोत्क्षिप्त इव क्षिप्रमुत्तस्थौ सर्वतो जनः
प्रीतिश्च पुरुषव्याघ्र दुर्योधनमथास्पृशत्
ह्रीश्च क्रोधश्च बीभत्सुं क्षणेनान्वविशच्च ह
ततो द्रोणाभ्यनुज्ञातः कर्णः प्रियरणः सदा
यत्कृतं तत्र पार्थेन तच्चकार महाबलः
अथ दुर्योधनस्तत्र भ्रातृभिः सह भारत
कर्णं परिष्वज्य मुदा ततो वचनमब्रवीत्
स्वागतं ते महाबाहो दिष्ट्या प्राप्तोऽसि मानद
अहं च कुरुराज्यं च यथेष्टमुपभुज्यताम्
कृतं सर्वेण मेऽन्येन सखित्वं च त्वया वृणे
द्वन्द्वयुद्धं च पार्थेन कर्तुमिच्छामि भारत
भुङ्क्ष्व भोगान्मया सार्धं बन्धूनां प्रियकृद्भव
दुर्हृदां कुरु सर्वेषां मूर्ध्नि पादमरिंदम
ततः क्षिप्तमिवात्मानं मत्वा पार्थोऽभ्यभाषत
कर्णं भ्रातृसमूहस्य मध्येऽचलमिव स्थितम्
अनाहूतोपसृप्तानामनाहूतोपजल्पिनाम्
ये लोकास्तान्हतः कर्ण मया त्वं प्रतिपत्स्यसे
रङ्गोऽयं सर्वसामान्यः किमत्र तव फल्गुन
वीर्यश्रेष्ठाश्च राजन्या बलं धर्मोऽनुवर्तते
किं क्षेपैर्दुर्बलाश्वासैः शरैः कथय भारत
गुरोः समक्षं यावत्ते हराम्यद्य शिरः शरैः
ततो द्रोणाभ्यनुज्ञातः पार्थः परपुरंजयः
भ्रातृभिस्त्वरयाश्लिष्टो रणायोपजगाम तम्
ततो दुर्योधनेनापि सभ्रात्रा समरोद्यतः
परिष्वक्तः स्थितः कर्णः प्रगृह्य सशरं धनुः
ततः सविद्युत्स्तनितैः सेन्द्रायुधपुरोजवैः
आवृतं गगनं मेघैर्बलाकापङ्क्तिहासिभिः
ततः स्नेहाद्धरिहयं दृष्ट्वा रङ्गावलोकिनम्
भास्करोऽप्यनयन्नाशं समीपोपगतान्घनान्
मेघच्छायोपगूढस्तु ततोऽदृश्यत पाण्डवः
सूर्यातपपरिक्षिप्तः कर्णोऽपि समदृश्यत
धार्तराष्ट्रा यतः कर्णस्तस्मिन्देशे व्यवस्थिताः
भारद्वाजः कृपो भीष्मो यतः पार्थस्ततोऽभवन्
द्विधा रङ्गः समभवत्स्त्रीणां द्वैधमजायत
कुन्तिभोजसुता मोहं विज्ञातार्था जगाम ह
तां तथा मोहसंपन्नां विदुरः सर्वधर्मवित्
कुन्तीमाश्वासयामास प्रोक्ष्याद्भिश्चन्दनोक्षितैः
ततः प्रत्यागतप्राणा तावुभावपि दंशितौ
पुत्रौ दृष्ट्वा सुसंतप्ता नान्वपद्यत किंचन
तावुद्यतमहाचापौ कृपः शारद्वतोऽब्रवीत्
द्वन्द्वयुद्धसमाचारे कुशलः सर्वधर्मवित्