Mahabharata

Adi Parva, Adhyaya 125

Containing 32 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Adi Parva, Adhyaya 125, Verse 1

कुरुराजे च रङ्गस्थे भीमे च बलिनां वरे

पक्षपातकृतस्नेहः स द्विधेवाभवज्जनः

Mahabharata

Adi Parva, Adhyaya 125, Verse 2

हा वीर कुरुराजेति हा भीमेति च नर्दताम्

पुरुषाणां सुविपुलाः प्रणादाः सहसोत्थिताः

Mahabharata

Adi Parva, Adhyaya 125, Verse 3

ततः क्षुब्धार्णवनिभं रङ्गमालोक्य बुद्धिमान्

भारद्वाजः प्रियं पुत्रमश्वत्थामानमब्रवीत्

Mahabharata

Adi Parva, Adhyaya 125, Verse 4

वारयैतौ महावीर्यौ कृतयोग्यावुभावपि

मा भूद्रङ्गप्रकोपोऽयं भीमदुर्योधनोद्भवः

Mahabharata

Adi Parva, Adhyaya 125, Verse 5

ततस्तावुद्यतगदौ गुरुपुत्रेण वारितौ

युगान्तानिलसंक्षुब्धौ महावेगाविवार्णवौ

Mahabharata

Adi Parva, Adhyaya 125, Verse 6

ततो रङ्गाङ्गणगतो द्रोणो वचनमब्रवीत्

निवार्य वादित्रगणं महामेघनिभस्वनम्

Mahabharata

Adi Parva, Adhyaya 125, Verse 7

यो मे पुत्रात्प्रियतरः सर्वास्त्रविदुषां वरः

ऐन्द्रिरिन्द्रानुजसमः स पार्थो दृश्यतामिति

Mahabharata

Adi Parva, Adhyaya 125, Verse 8

आचार्यवचनेनाथ कृतस्वस्त्ययनो युवा

बद्धगोधाङ्गुलित्राणः पूर्णतूणः सकार्मुकः

Mahabharata

Adi Parva, Adhyaya 125, Verse 9

काञ्चनं कवचं बिभ्रत्प्रत्यदृश्यत फल्गुनः

सार्कः सेन्द्रायुधतडित्ससंध्य इव तोयदः

Mahabharata

Adi Parva, Adhyaya 125, Verse 10

ततः सर्वस्य रङ्गस्य समुत्पिञ्जोऽभवन्महान्

प्रावाद्यन्त च वाद्यानि सशङ्खानि समन्ततः

Mahabharata

Adi Parva, Adhyaya 125, Verse 11

एष कुन्तीसुतः श्रीमानेष पाण्डवमध्यमः

एष पुत्रो महेन्द्रस्य कुरूणामेष रक्षिता

Mahabharata

Adi Parva, Adhyaya 125, Verse 12

एषोऽस्त्रविदुषां श्रेष्ठ एष धर्मभृतां वरः

एष शीलवतां चापि शीलज्ञाननिधिः परः

Mahabharata

Adi Parva, Adhyaya 125, Verse 13

इत्येवमतुला वाचः शृण्वन्त्याः प्रेक्षकेरिताः

कुन्त्याः प्रस्नवसंमिश्रैरस्रैः क्लिन्नमुरोऽभवत्

Mahabharata

Adi Parva, Adhyaya 125, Verse 14

तेन शब्देन महता पूर्णश्रुतिरथाब्रवीत्

धृतराष्ट्रो नरश्रेष्ठो विदुरं हृष्टमानसः

Mahabharata

Adi Parva, Adhyaya 125, Verse 15

क्षत्तः क्षुब्धार्णवनिभः किमेष सुमहास्वनः

सहसैवोत्थितो रङ्गे भिन्दन्निव नभस्तलम्

Mahabharata

Adi Parva, Adhyaya 125, Verse 16

एष पार्थो महाराज फल्गुनः पाण्डुनन्दनः

अवतीर्णः सकवचस्तत्रैष सुमहास्वनः

Mahabharata

Adi Parva, Adhyaya 125, Verse 17

धन्योऽस्म्यनुगृहीतोऽस्मि रक्षितोऽस्मि महामते

पृथारणिसमुद्भूतैस्त्रिभिः पाण्डववह्निभिः

Mahabharata

Adi Parva, Adhyaya 125, Verse 18

तस्मिन्समुदिते रङ्गे कथंचित्पर्यवस्थिते

दर्शयामास बीभत्सुराचार्यादस्त्रलाघवम्

Mahabharata

Adi Parva, Adhyaya 125, Verse 19

आग्नेयेनासृजद्वह्निं वारुणेनासृजत्पयः

वायव्येनासृजद्वायुं पार्जन्येनासृजद्घनान्

Mahabharata

Adi Parva, Adhyaya 125, Verse 20

भौमेन प्राविशद्भूमिं पार्वतेनासृजद्गिरीन्

अन्तर्धानेन चास्त्रेण पुनरन्तर्हितोऽभवत्

Mahabharata

Adi Parva, Adhyaya 125, Verse 21

क्षणात्प्रांशुः क्षणाद्ध्रस्वः क्षणाच्च रथधूर्गतः

क्षणेन रथमध्यस्थः क्षणेनावापतन्महीम्

Mahabharata

Adi Parva, Adhyaya 125, Verse 22

सुकुमारं च सूक्ष्मं च गुरुं चापि गुरुप्रियः

सौष्ठवेनाभिसंयुक्तः सोऽविध्यद्विविधैः शरैः

Mahabharata

Adi Parva, Adhyaya 125, Verse 23

भ्रमतश्च वराहस्य लोहस्य प्रमुखे समम्

पञ्च बाणानसंसक्तान्स मुमोचैकबाणवत्

Mahabharata

Adi Parva, Adhyaya 125, Verse 24

गव्ये विषाणकोशे च चले रज्ज्ववलम्बिते

निचखान महावीर्यः सायकानेकविंशतिम्

Mahabharata

Adi Parva, Adhyaya 125, Verse 25

इत्येवमादि सुमहत्खड्गे धनुषि चाभवत्

गदायां शस्त्रकुशलो दर्शनानि व्यदर्शयत्

Mahabharata

Adi Parva, Adhyaya 125, Verse 26

ततः समाप्तभूयिष्ठे तस्मिन्कर्मणि भारत

मन्दीभूते समाजे च वादित्रस्य च निस्वने

Mahabharata

Adi Parva, Adhyaya 125, Verse 27

द्वारदेशात्समुद्भूतो माहात्म्य बलसूचकः

वज्रनिष्पेषसदृशः शुश्रुवे भुजनिस्वनः

Mahabharata

Adi Parva, Adhyaya 125, Verse 28

दीर्यन्ते किं नु गिरयः किं स्विद्भूमिर्विदीर्यते

किं स्विदापूर्यते व्योम जलभारघनैर्घनैः

Mahabharata

Adi Parva, Adhyaya 125, Verse 29

रङ्गस्यैवं मतिरभूत्क्षणेन वसुधाधिप

द्वारं चाभिमुखाः सर्वे बभूवुः प्रेक्षकास्तदा

Mahabharata

Adi Parva, Adhyaya 125, Verse 30

पञ्चभिर्भ्रातृभिः पार्थैर्द्रोणः परिवृतो बभौ

पञ्चतारेण संयुक्तः सावित्रेणेव चन्द्रमाः