Mahabharata

Adi Parva, Adhyaya 123

Containing 78 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Adi Parva, Adhyaya 123, Verse 1

अर्जुनस्तु परं यत्नमातस्थे गुरुपूजने

अस्त्रे च परमं योगं प्रियो द्रोणस्य चाभवत्

Mahabharata

Adi Parva, Adhyaya 123, Verse 2

द्रोणेन तु तदाहूय रहस्युक्तोऽन्नसाधकः

अन्धकारेऽर्जुनायान्नं न देयं ते कथंचन

Mahabharata

Adi Parva, Adhyaya 123, Verse 3

ततः कदाचिद्भुञ्जाने प्रववौ वायुरर्जुने

तेन तत्र प्रदीपः स दीप्यमानो निवापितः

Mahabharata

Adi Parva, Adhyaya 123, Verse 4

भुङ्क्त एवार्जुनो भक्तं न चास्यास्याद्व्यमुह्यत

हस्तस्तेजस्विनो नित्यमन्नग्रहणकारणात्

तदभ्यासकृतं मत्वा रात्रावभ्यस्त पाण्डवः

Mahabharata

Adi Parva, Adhyaya 123, Verse 5

तस्य ज्यातलनिर्घोषं द्रोणः शुश्राव भारत

उपेत्य चैनमुत्थाय परिष्वज्येदमब्रवीत्

Mahabharata

Adi Parva, Adhyaya 123, Verse 6

प्रयतिष्ये तथा कर्तुं यथा नान्यो धनुर्धरः

त्वत्समो भविता लोके सत्यमेतद्ब्रवीमि ते

Mahabharata

Adi Parva, Adhyaya 123, Verse 7

ततो द्रोणोऽर्जुनं भूयो रथेषु च गजेषु च

अश्वेषु भूमावपि च रणशिक्षामशिक्षयत्

Mahabharata

Adi Parva, Adhyaya 123, Verse 8

गदायुद्धेऽसिचर्यायां तोमरप्रासशक्तिषु

द्रोणः संकीर्णयुद्धेषु शिक्षयामास पाण्डवम्

Mahabharata

Adi Parva, Adhyaya 123, Verse 9

तस्य तत्कौशलं दृष्ट्वा धनुर्वेदजिघृक्षवः

राजानो राजपुत्राश्च समाजग्मुः सहस्रशः

Mahabharata

Adi Parva, Adhyaya 123, Verse 10

ततो निषादराजस्य हिरण्यधनुषः सुतः

एकलव्यो महाराज द्रोणमभ्याजगाम ह

Mahabharata

Adi Parva, Adhyaya 123, Verse 11

न स तं प्रतिजग्राह नैषादिरिति चिन्तयन्

शिष्यं धनुषि धर्मज्ञस्तेषामेवान्ववेक्षया

Mahabharata

Adi Parva, Adhyaya 123, Verse 12

स तु द्रोणस्य शिरसा पादौ गृह्य परंतपः

अरण्यमनुसंप्राप्तः कृत्वा द्रोणं महीमयम्

Mahabharata

Adi Parva, Adhyaya 123, Verse 13

तस्मिन्नाचार्यवृत्तिं च परमामास्थितस्तदा

इष्वस्त्रे योगमातस्थे परं नियममास्थितः

Mahabharata

Adi Parva, Adhyaya 123, Verse 14

परया श्रद्धया युक्तो योगेन परमेण च

विमोक्षादानसंधाने लघुत्वं परमाप सः

Mahabharata

Adi Parva, Adhyaya 123, Verse 15

अथ द्रोणाभ्यनुज्ञाताः कदाचित्कुरुपाण्डवाः

रथैर्विनिर्ययुः सर्वे मृगयामरिमर्दनाः

Mahabharata

Adi Parva, Adhyaya 123, Verse 16

तत्रोपकरणं गृह्य नरः कश्चिद्यदृच्छया

राजन्ननुजगामैकः श्वानमादाय पाण्डवान्

Mahabharata

Adi Parva, Adhyaya 123, Verse 17

तेषां विचरतां तत्र तत्तत्कर्म चिकीर्षताम्

श्वा चरन्स वने मूढो नैषादिं प्रति जग्मिवान्

Mahabharata

Adi Parva, Adhyaya 123, Verse 18

स कृष्णं मलदिग्धाङ्गं कृष्णाजिनधरं वने

नैषादिं श्वा समालक्ष्य भषंस्तस्थौ तदन्तिके

Mahabharata

Adi Parva, Adhyaya 123, Verse 19

तदा तस्याथ भषतः शुनः सप्त शरान्मुखे

लाघवं दर्शयन्नस्त्रे मुमोच युगपद्यथा

Mahabharata

Adi Parva, Adhyaya 123, Verse 20

स तु श्वा शरपूर्णास्यः पाण्डवानाजगाम ह

तं दृष्ट्वा पाण्डवा वीरा विस्मयं परमं ययुः

Mahabharata

Adi Parva, Adhyaya 123, Verse 21

लाघवं शब्दवेधित्वं दृष्ट्वा तत्परमं तदा

प्रेक्ष्य तं व्रीडिताश्चासन्प्रशशंसुश्च सर्वशः

Mahabharata

Adi Parva, Adhyaya 123, Verse 22

तं ततोऽन्वेषमाणास्ते वने वननिवासिनम्

ददृशुः पाण्डवा राजन्नस्यन्तमनिशं शरान्

Mahabharata

Adi Parva, Adhyaya 123, Verse 23

न चैनमभ्यजानंस्ते तदा विकृतदर्शनम्

अथैनं परिपप्रच्छुः को भवान्कस्य वेत्युत

Mahabharata

Adi Parva, Adhyaya 123, Verse 24

निषादाधिपतेर्वीरा हिरण्यधनुषः सुतम्

द्रोणशिष्यं च मां वित्त धनुर्वेदकृतश्रमम्

Mahabharata

Adi Parva, Adhyaya 123, Verse 25

ते तमाज्ञाय तत्त्वेन पुनरागम्य पाण्डवाः

यथावृत्तं च ते सर्वं द्रोणायाचख्युरद्भुतम्

Mahabharata

Adi Parva, Adhyaya 123, Verse 26

कौन्तेयस्त्वर्जुनो राजन्नेकलव्यमनुस्मरन्

रहो द्रोणं समागम्य प्रणयादिदमब्रवीत्

Mahabharata

Adi Parva, Adhyaya 123, Verse 27

नन्वहं परिरभ्यैकः प्रीतिपूर्वमिदं वचः

भवतोक्तो न मे शिष्यस्त्वद्विशिष्टो भविष्यति

Mahabharata

Adi Parva, Adhyaya 123, Verse 28

अथ कस्मान्मद्विशिष्टो लोकादपि च वीर्यवान्

अस्त्यन्यो भवतः शिष्यो निषादाधिपतेः सुतः

Mahabharata

Adi Parva, Adhyaya 123, Verse 29

मुहूर्तमिव तं द्रोणश्चिन्तयित्वा विनिश्चयम्

सव्यसाचिनमादाय नैषादिं प्रति जग्मिवान्

Mahabharata

Adi Parva, Adhyaya 123, Verse 30

ददर्श मलदिग्धाङ्गं जटिलं चीरवाससम्

एकलव्यं धनुष्पाणिमस्यन्तमनिशं शरान्