Adi Parva, Adhyaya 122, Verse 1
ततो द्रुपदमासाद्य भारद्वाजः प्रतापवान्
अब्रवीत्पार्षतं राजन्सखायं विद्धि मामिति
Containing 47 sacred Sanskrit shlokas with multi-author commentaries and translations.
ततो द्रुपदमासाद्य भारद्वाजः प्रतापवान्
अब्रवीत्पार्षतं राजन्सखायं विद्धि मामिति
अकृतेयं तव प्रज्ञा ब्रह्मन्नातिसमञ्जसी
यन्मां ब्रवीषि प्रसभं सखा तेऽहमिति द्विज
न हि राज्ञामुदीर्णानामेवंभूतैर्नरैः क्वचित्
सख्यं भवति मन्दात्मञ्श्रिया हीनैर्धनच्युतैः
सौहृदान्यपि जीर्यन्ते कालेन परिजीर्यताम्
सौहृदं मे त्वया ह्यासीत्पूर्वं सामर्थ्यबन्धनम्
न सख्यमजरं लोके जातु दृश्येत कर्हिचित्
कामो वैनं विहरति क्रोधश्चैनं प्रवृश्चति
मैवं जीर्णमुपासिष्ठाः सख्यं नवमुपाकुरु
आसीत्सख्यं द्विजश्रेष्ठ त्वया मेऽर्थनिबन्धनम्
न दरिद्रो वसुमतो नाविद्वान्विदुषः सखा
शूरस्य न सखा क्लीबः सखिपूर्वं किमिष्यते
ययोरेव समं वित्तं ययोरेव समं कुलम्
तयोः सख्यं विवाहश्च न तु पुष्टविपुष्टयोः
नाश्रोत्रियः श्रोत्रियस्य नारथी रथिनः सखा
नाराज्ञा संगतं राज्ञः सखिपूर्वं किमिष्यते
द्रुपदेनैवमुक्तस्तु भारद्वाजः प्रतापवान्
मुहूर्तं चिन्तयामास मन्युनाभिपरिप्लुतः
स विनिश्चित्य मनसा पाञ्चालं प्रति बुद्धिमान्
जगाम कुरुमुख्यानां नगरं नागसाह्वयम्
कुमारास्त्वथ निष्क्रम्य समेता गजसाह्वयात्
क्रीडन्तो वीटया तत्र वीराः पर्यचरन्मुदा
पपात कूपे सा वीटा तेषां वै क्रीडतां तदा
न च ते प्रत्यपद्यन्त कर्म वीटोपलब्धये
अथ द्रोणः कुमारांस्तान्दृष्ट्वा कृत्यवतस्तदा
प्रहस्य मन्दं पैशल्यादभ्यभाषत वीर्यवान्
अहो नु धिग्बलं क्षात्रं धिगेतां वः कृतास्त्रताम्
भरतस्यान्वये जाता ये वीटां नाधिगच्छत
एष मुष्टिरिषीकाणां मयास्त्रेणाभिमन्त्रितः
अस्य वीर्यं निरीक्षध्वं यदन्यस्य न विद्यते
वेत्स्यामीषीकया वीटां तामिषीकामथान्यया
तामन्यया समायोगो वीटाया ग्रहणे मम
तदपश्यन्कुमारास्ते विस्मयोत्फुल्ललोचनाः
अवेष्क्य चोद्धृतां वीटां वीटावेद्धारमब्रुवन्
अभिवादयामहे ब्रह्मन्नैतदन्येषु विद्यते
कोऽसि कं त्वाभिजानीमो वयं किं करवामहे
आचक्षध्वं च भीष्माय रूपेण च गुणैश्च माम्
स एव सुमहाबुद्धिः सांप्रतं प्रतिपत्स्यते
तथेत्युक्त्वा तु ते सर्वे भीष्ममूचुः पितामहम्
ब्राह्मणस्य वचस्तथ्यं तच्च कर्मविशेषवत्
भीष्मः श्रुत्वा कुमाराणां द्रोणं तं प्रत्यजानत
युक्तरूपः स हि गुरुरित्येवमनुचिन्त्य च
अथैनमानीय तदा स्वयमेव सुसत्कृतम्
परिपप्रच्छ निपुणं भीष्मः शस्त्रभृतां वरः
हेतुमागमने तस्य द्रोणः सर्वं न्यवेदयत्
महर्षेरग्निवेश्यस्य सकाशमहमच्युत
अस्त्रार्थमगमं पूर्वं धनुर्वेदजिघृक्षया
ब्रह्मचारी विनीतात्मा जटिलो बहुलाः समाः
अवसं तत्र सुचिरं धनुर्वेदचिकीर्षया
पाञ्चालराजपुत्रस्तु यज्ञसेनो महाबलः
मया सहाकरोद्विद्यां गुरोः श्राम्यन्समाहितः
स मे तत्र सखा चासीदुपकारी प्रियश्च मे
तेनाहं सह संगम्य रतवान्सुचिरं बत
बाल्यात्प्रभृति कौरव्य सहाध्ययनमेव च
स समासाद्य मां तत्र प्रियकारी प्रियंवदः
अब्रवीदिति मां भीष्म वचनं प्रीतिवर्धनम्
अहं प्रियतमः पुत्रः पितुर्द्रोण महात्मनः
अभिषेक्ष्यति मां राज्ये स पाञ्चाल्यो यदा तदा
त्वद्भोज्यं भविता राज्यं सखे सत्येन ते शपे
मम भोगाश्च वित्तं च त्वदधीनं सुखानि च