Mahabharata

Adi Parva, Adhyaya 121

Containing 23 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Adi Parva, Adhyaya 121, Verse 1

विशेषार्थी ततो भीष्मः पौत्राणां विनयेप्सया

इष्वस्त्रज्ञान्पर्यपृच्छदाचार्यान्वीर्यसंमतान्

Mahabharata

Adi Parva, Adhyaya 121, Verse 2

नाल्पधीर्नामहाभागस्तथानानास्त्रकोविदः

नादेवसत्त्वो विनयेत्कुरूनस्त्रे महाबलान्

Mahabharata

Adi Parva, Adhyaya 121, Verse 3

महर्षिस्तु भरद्वाजो हविर्धाने चरन्पुरा

ददर्शाप्सरसं साक्षाद्घृताचीमाप्लुतामृषिः

Mahabharata

Adi Parva, Adhyaya 121, Verse 4

तस्या वायुः समुद्धूतो वसनं व्यपकर्षत

ततोऽस्य रेतश्चस्कन्द तदृषिर्द्रोण आदधे

Mahabharata

Adi Parva, Adhyaya 121, Verse 5

तस्मिन्समभवद्द्रोणः कलशे तस्य धीमतः

अध्यगीष्ट स वेदांश्च वेदाङ्गानि च सर्वशः

Mahabharata

Adi Parva, Adhyaya 121, Verse 6

अग्निवेश्यं महाभागं भरद्वाजः प्रतापवान्

प्रत्यपादयदाग्नेयमस्त्रं धर्मभृतां वरः

Mahabharata

Adi Parva, Adhyaya 121, Verse 7

अग्निष्टुज्जातः स मुनिस्ततो भरतसत्तम

भारद्वाजं तदाग्नेयं महास्त्रं प्रत्यपादयत्

Mahabharata

Adi Parva, Adhyaya 121, Verse 8

भरद्वाजसखा चासीत्पृषतो नाम पार्थिवः

तस्यापि द्रुपदो नाम तदा समभवत्सुतः

Mahabharata

Adi Parva, Adhyaya 121, Verse 9

स नित्यमाश्रमं गत्वा द्रोणेन सह पार्षतः

चिक्रीडाध्ययनं चैव चकार क्षत्रियर्षभः

Mahabharata

Adi Parva, Adhyaya 121, Verse 10

ततो व्यतीते पृषते स राजा द्रुपदोऽभवत्

पाञ्चालेषु महाबाहुरुत्तरेषु नरेश्वरः

Mahabharata

Adi Parva, Adhyaya 121, Verse 11

भरद्वाजोऽपि भगवानारुरोह दिवं तदा

ततः पितृनियुक्तात्मा पुत्रलोभान्महायशाः

शारद्वतीं ततो द्रोणः कृपीं भार्यामविन्दत

Mahabharata

Adi Parva, Adhyaya 121, Verse 12

अग्निहोत्रे च धर्मे च दमे च सततं रता

अलभद्गौतमी पुत्रमश्वत्थामानमेव च

Mahabharata

Adi Parva, Adhyaya 121, Verse 13

स जातमात्रो व्यनदद्यथैवोच्चैःश्रवा हयः

तच्छ्रुत्वान्तर्हितं भूतमन्तरिक्षस्थमब्रवीत्

Mahabharata

Adi Parva, Adhyaya 121, Verse 14

अश्वस्येवास्य यत्स्थाम नदतः प्रदिशो गतम्

अश्वत्थामैव बालोऽयं तस्मान्नाम्ना भविष्यति

Mahabharata

Adi Parva, Adhyaya 121, Verse 15

सुतेन तेन सुप्रीतो भारद्वाजस्ततोऽभवत्

तत्रैव च वसन्धीमान्धनुर्वेदपरोऽभवत्

Mahabharata

Adi Parva, Adhyaya 121, Verse 16

स शुश्राव महात्मानं जामदग्न्यं परंतपम्

ब्राह्मणेभ्यस्तदा राजन्दित्सन्तं वसु सर्वशः

Mahabharata

Adi Parva, Adhyaya 121, Verse 17

वनं तु प्रस्थितं रामं भारद्वाजस्तदाब्रवीत्

आगतं वित्तकामं मां विद्धि द्रोणं द्विजर्षभम्

Mahabharata

Adi Parva, Adhyaya 121, Verse 18

हिरण्यं मम यच्चान्यद्वसु किंचन विद्यते

ब्राह्मणेभ्यो मया दत्तं सर्वमेव तपोधन

Mahabharata

Adi Parva, Adhyaya 121, Verse 19

तथैवेयं धरा देवी सागरान्ता सपत्तना

कश्यपाय मया दत्ता कृत्स्ना नगरमालिनी

Mahabharata

Adi Parva, Adhyaya 121, Verse 20

शरीरमात्रमेवाद्य मयेदमवशेषितम्

अस्त्राणि च महार्हाणि शस्त्राणि विविधानि च

वृणीष्व किं प्रयच्छामि तुभ्यं द्रोण वदाशु तत्

Mahabharata

Adi Parva, Adhyaya 121, Verse 21

अस्त्राणि मे समग्राणि ससंहाराणि भार्गव

सप्रयोगरहस्यानि दातुमर्हस्यशेषतः

Mahabharata

Adi Parva, Adhyaya 121, Verse 22

तथेत्युक्त्वा ततस्तस्मै प्रादादस्त्राणि भार्गवः

सरहस्यव्रतं चैव धनुर्वेदमशेषतः

Mahabharata

Adi Parva, Adhyaya 121, Verse 23

प्रतिगृह्य तु तत्सर्वं कृतास्त्रो द्विजसत्तमः

प्रियं सखायं सुप्रीतो जगाम द्रुपदं प्रति