Mahabharata

Adi Parva, Adhyaya 120

Containing 21 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Adi Parva, Adhyaya 120, Verse 1

कृपस्यापि महाब्रह्मन्संभवं वक्तुमर्हसि

शरस्तम्भात्कथं जज्ञे कथं चास्त्राण्यवाप्तवान्

Mahabharata

Adi Parva, Adhyaya 120, Verse 2

महर्षेर्गौतमस्यासीच्छरद्वान्नाम नामतः

पुत्रः किल महाराज जातः सह शरैर्विभो

Mahabharata

Adi Parva, Adhyaya 120, Verse 3

न तस्य वेदाध्ययने तथा बुद्धिरजायत

यथास्य बुद्धिरभवद्धनुर्वेदे परंतप

Mahabharata

Adi Parva, Adhyaya 120, Verse 4

अधिजग्मुर्यथा वेदांस्तपसा ब्रह्मवादिनः

तथा स तपसोपेतः सर्वाण्यस्त्राण्यवाप ह

Mahabharata

Adi Parva, Adhyaya 120, Verse 5

धनुर्वेदपरत्वाच्च तपसा विपुलेन च

भृशं संतापयामास देवराजं स गौतमः

Mahabharata

Adi Parva, Adhyaya 120, Verse 6

ततो जालपदीं नाम देवकन्यां सुरेश्वरः

प्राहिणोत्तपसो विघ्नं कुरु तस्येति कौरव

Mahabharata

Adi Parva, Adhyaya 120, Verse 7

साभिगम्याश्रमपदं रमणीयं शरद्वतः

धनुर्बाणधरं बाला लोभयामास गौतमम्

Mahabharata

Adi Parva, Adhyaya 120, Verse 8

तामेकवसनां दृष्ट्वा गौतमोऽप्सरसं वने

लोकेऽप्रतिमसंस्थानामुत्फुल्लनयनोऽभवत्

Mahabharata

Adi Parva, Adhyaya 120, Verse 9

धनुश्च हि शराश्चास्य कराभ्यां प्रापतन्भुवि

वेपथुश्चास्य तां दृष्ट्वा शरीरे समजायत

Mahabharata

Adi Parva, Adhyaya 120, Verse 10

स तु ज्ञानगरीयस्त्वात्तपसश्च समन्वयात्

अवतस्थे महाप्राज्ञो धैर्येण परमेण ह

Mahabharata

Adi Parva, Adhyaya 120, Verse 11

यस्त्वस्य सहसा राजन्विकारः समपद्यत

तेन सुस्राव रेतोऽस्य स च तन्नावबुध्यत

Mahabharata

Adi Parva, Adhyaya 120, Verse 12

स विहायाश्रमं तं च तां चैवाप्सरसं मुनिः

जगाम रेतस्तत्तस्य शरस्तम्बे पपात ह

Mahabharata

Adi Parva, Adhyaya 120, Verse 13

शरस्तम्बे च पतितं द्विधा तदभवन्नृप

तस्याथ मिथुनं जज्ञे गौतमस्य शरद्वतः

Mahabharata

Adi Parva, Adhyaya 120, Verse 14

मृगयां चरतो राज्ञः शंतनोस्तु यदृच्छया

कश्चित्सेनाचरोऽरण्ये मिथुनं तदपश्यत

Mahabharata

Adi Parva, Adhyaya 120, Verse 15

धनुश्च सशरं दृष्ट्वा तथा कृष्णाजिनानि च

व्यवस्य ब्राह्मणापत्यं धनुर्वेदान्तगस्य तत्

स राज्ञे दर्शयामास मिथुनं सशरं तदा

Mahabharata

Adi Parva, Adhyaya 120, Verse 16

स तदादाय मिथुनं राजाथ कृपयान्वितः

आजगाम गृहानेव मम पुत्राविति ब्रुवन्

Mahabharata

Adi Parva, Adhyaya 120, Verse 17

ततः संवर्धयामास संस्कारैश्चाप्ययोजयत्

गौतमोऽपि तदापेत्य धनुर्वेदपरोऽभवत्

Mahabharata

Adi Parva, Adhyaya 120, Verse 18

कृपया यन्मया बालाविमौ संवर्धिताविति

तस्मात्तयोर्नाम चक्रे तदेव स महीपतिः

Mahabharata

Adi Parva, Adhyaya 120, Verse 19

निहितौ गौतमस्तत्र तपसा तावविन्दत

आगम्य चास्मै गोत्रादि सर्वमाख्यातवांस्तदा

Mahabharata

Adi Parva, Adhyaya 120, Verse 20

चतुर्विधं धनुर्वेदमस्त्राणि विविधानि च

निखिलेनास्य तत्सर्वं गुह्यमाख्यातवांस्तदा

सोऽचिरेणैव कालेन परमाचार्यतां गतः

Mahabharata

Adi Parva, Adhyaya 120, Verse 21

ततोऽधिजग्मुः सर्वे ते धनुर्वेदं महारथाः

धृतराष्ट्रात्मजाश्चैव पाण्डवाश्च महाबलाः

वृष्णयश्च नृपाश्चान्ये नानादेशसमागताः