Mahabharata

Adi Parva, Adhyaya 118

Containing 30 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Adi Parva, Adhyaya 118, Verse 1

पाण्डोर्विदुर सर्वाणि प्रेतकार्याणि कारय

राजवद्राजसिंहस्य माद्र्याश्चैव विशेषतः

Mahabharata

Adi Parva, Adhyaya 118, Verse 2

पशून्वासांसि रत्नानि धनानि विविधानि च

पाण्डोः प्रयच्छ माद्र्याश्च येभ्यो यावच्च वाञ्छितम्

Mahabharata

Adi Parva, Adhyaya 118, Verse 3

यथा च कुन्ती सत्कारं कुर्यान्माद्र्यास्तथा कुरु

यथा न वायुर्नादित्यः पश्येतां तां सुसंवृताम्

Mahabharata

Adi Parva, Adhyaya 118, Verse 4

न शोच्यः पाण्डुरनघः प्रशस्यः स नराधिपः

यस्य पञ्च सुता वीरा जाताः सुरसुतोपमाः

Mahabharata

Adi Parva, Adhyaya 118, Verse 5

विदुरस्तं तथेत्युक्त्वा भीष्मेण सह भारत

पाण्डुं संस्कारयामास देशे परमसंवृते

Mahabharata

Adi Parva, Adhyaya 118, Verse 6

ततस्तु नगरात्तूर्णमाज्यहोमपुरस्कृताः

निर्हृताः पावका दीप्ताः पाण्डो राजपुरोहितैः

Mahabharata

Adi Parva, Adhyaya 118, Verse 7

अथैनमार्तवैर्गन्धैर्माल्यैश्च विविधैर्वरैः

शिबिकां समलंचक्रुर्वाससाच्छाद्य सर्वशः

Mahabharata

Adi Parva, Adhyaya 118, Verse 8

तां तथा शोभितां माल्यैर्वासोभिश्च महाधनैः

अमात्या ज्ञातयश्चैव सुहृदश्चोपतस्थिरे

Mahabharata

Adi Parva, Adhyaya 118, Verse 9

नृसिंहं नरयुक्तेन परमालंकृतेन तम्

अवहन्यानमुख्येन सह माद्र्या सुसंवृतम्

Mahabharata

Adi Parva, Adhyaya 118, Verse 10

पाण्डुरेणातपत्रेण चामरव्यजनेन च

सर्ववादित्रनादैश्च समलंचक्रिरे ततः

Mahabharata

Adi Parva, Adhyaya 118, Verse 11

रत्नानि चाप्युपादाय बहूनि शतशो नराः

प्रददुः काङ्क्षमाणेभ्यः पाण्डोस्तत्रौर्ध्वदेहिकम्

Mahabharata

Adi Parva, Adhyaya 118, Verse 12

अथ छत्राणि शुभ्राणि पाण्डुराणि बृहन्ति च

आजह्रुः कौरवस्यार्थे वासांसि रुचिराणि च

Mahabharata

Adi Parva, Adhyaya 118, Verse 13

याजकैः शुक्लवासोभिर्हूयमाना हुताशनाः

अगच्छन्नग्रतस्तस्य दीप्यमानाः स्वलंकृताः

Mahabharata

Adi Parva, Adhyaya 118, Verse 14

ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चैव सहस्रशः

रुदन्तः शोकसंतप्ता अनुजग्मुर्नराधिपम्

Mahabharata

Adi Parva, Adhyaya 118, Verse 15

अयमस्मानपाहाय दुःखे चाधाय शाश्वते

कृत्वानाथान्परो नाथः क्व यास्यति नराधिपः

Mahabharata

Adi Parva, Adhyaya 118, Verse 16

क्रोशन्तः पाण्डवाः सर्वे भीष्मो विदुर एव च

रमणीये वनोद्देशे गङ्गातीरे समे शुभे

Mahabharata

Adi Parva, Adhyaya 118, Verse 17

न्यासयामासुरथ तां शिबिकां सत्यवादिनः

सभार्यस्य नृसिंहस्य पाण्डोरक्लिष्टकर्मणः

Mahabharata

Adi Parva, Adhyaya 118, Verse 18

ततस्तस्य शरीरं तत्सर्वगन्धनिषेवितम्

शुचिकालीयकादिग्धं मुख्यस्नानाधिवासितम्

पर्यषिञ्चज्जलेनाशु शातकुम्भमयैर्घटैः

Mahabharata

Adi Parva, Adhyaya 118, Verse 19

चन्दनेन च मुख्येन शुक्लेन समलेपयन्

कालागुरुविमिश्रेण तथा तुङ्गरसेन च

Mahabharata

Adi Parva, Adhyaya 118, Verse 20

अथैनं देशजैः शुक्लैर्वासोभिः समयोजयन्

आच्छन्नः स तु वासोभिर्जीवन्निव नरर्षभः

शुशुभे पुरुषव्याघ्रो महार्हशयनोचितः

Mahabharata

Adi Parva, Adhyaya 118, Verse 21

याजकैरभ्यनुज्ञातं प्रेतकर्मणि निष्ठितैः

घृतावसिक्तं राजानं सह माद्र्या स्वलंकृतम्

Mahabharata

Adi Parva, Adhyaya 118, Verse 22

तुङ्गपद्मकमिश्रेण चन्दनेन सुगन्धिना

अन्यैश्च विविधैर्गन्धैरनल्पैः समदाहयन्

Mahabharata

Adi Parva, Adhyaya 118, Verse 23

ततस्तयोः शरीरे ते दृष्ट्वा मोहवशं गता

हाहा पुत्रेति कौसल्या पपात सहसा भुवि

Mahabharata

Adi Parva, Adhyaya 118, Verse 24

तां प्रेक्ष्य पतितामार्तां पौरजानपदो जनः

रुरोद सस्वनं सर्वो राजभक्त्या कृपान्वितः

Mahabharata

Adi Parva, Adhyaya 118, Verse 25

क्लान्तानीवार्तनादेन सर्वाणि च विचुक्रुशुः

मानुषैः सह भूतानि तिर्यग्योनिगतान्यपि

Mahabharata

Adi Parva, Adhyaya 118, Verse 26

तथा भीष्मः शांतनवो विदुरश्च महामतिः

सर्वशः कौरवाश्चैव प्राणदन्भृशदुःखिताः

Mahabharata

Adi Parva, Adhyaya 118, Verse 27

ततो भीष्मोऽथ विदुरो राजा च सह बन्धुभिः

उदकं चक्रिरे तस्य सर्वाश्च कुरुयोषितः

Mahabharata

Adi Parva, Adhyaya 118, Verse 28

कृतोदकांस्तानादाय पाण्डवाञ्शोककर्शितान्

सर्वाः प्रकृतयो राजञ्शोचन्त्यः पर्यवारयन्

Mahabharata

Adi Parva, Adhyaya 118, Verse 29

यथैव पाण्डवा भूमौ सुषुपुः सह बान्धवैः

तथैव नागरा राजञ्शिश्यिरे ब्राह्मणादयः

Mahabharata

Adi Parva, Adhyaya 118, Verse 30

तदनानन्दमस्वस्थमाकुमारमहृष्टवत्

बभूव पाण्डवैः सार्धं नगरं द्वादश क्षपाः