Mahabharata

Adi Parva, Adhyaya 117

Containing 33 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Adi Parva, Adhyaya 117, Verse 1

पाण्डोरवभृथं कृत्वा देवकल्पा महर्षयः

ततो मन्त्रमकुर्वन्त ते समेत्य तपस्विनः

Mahabharata

Adi Parva, Adhyaya 117, Verse 2

हित्वा राज्यं च राष्ट्रं च स महात्मा महातपाः

अस्मिन्स्थाने तपस्तप्तुं तापसाञ्शरणं गतः

Mahabharata

Adi Parva, Adhyaya 117, Verse 3

स जातमात्रान्पुत्रांश्च दारांश्च भवतामिह

प्रदायोपनिधिं राजा पाण्डुः स्वर्गमितो गतः

Mahabharata

Adi Parva, Adhyaya 117, Verse 4

ते परस्परमामन्त्र्य सर्वभूतहिते रताः

पाण्डोः पुत्रान्पुरस्कृत्य नगरं नागसाह्वयम्

Mahabharata

Adi Parva, Adhyaya 117, Verse 5

उदारमनसः सिद्धा गमने चक्रिरे मनः

भीष्माय पाण्डवान्दातुं धृतराष्ट्राय चैव हि

Mahabharata

Adi Parva, Adhyaya 117, Verse 6

तस्मिन्नेव क्षणे सर्वे तानादाय प्रतस्थिरे

पाण्डोर्दारांश्च पुत्रांश्च शरीरं चैव तापसाः

Mahabharata

Adi Parva, Adhyaya 117, Verse 7

सुखिनी सा पुरा भूत्वा सततं पुत्रवत्सला

प्रपन्ना दीर्घमध्वानं संक्षिप्तं तदमन्यत

Mahabharata

Adi Parva, Adhyaya 117, Verse 8

सा नदीर्घेण कालेन संप्राप्ता कुरुजाङ्गलम्

वर्धमानपुरद्वारमाससाद यशस्विनी

Mahabharata

Adi Parva, Adhyaya 117, Verse 9

तं चारणसहस्राणां मुनीनामागमं तदा

श्रुत्वा नागपुरे नॄणां विस्मयः समजायत

Mahabharata

Adi Parva, Adhyaya 117, Verse 10

मुहूर्तोदित आदित्ये सर्वे धर्मपुरस्कृताः

सदारास्तापसान्द्रष्टुं निर्ययुः पुरवासिनः

Mahabharata

Adi Parva, Adhyaya 117, Verse 11

स्त्रीसंघाः क्षत्रसंघाश्च यानसंघान्समास्थिताः

ब्राह्मणैः सह निर्जग्मुर्ब्राह्मणानां च योषितः

Mahabharata

Adi Parva, Adhyaya 117, Verse 12

तथा विट्शूद्रसंघानां महान्व्यतिकरोऽभवत्

न कश्चिदकरोदीर्ष्यामभवन्धर्मबुद्धयः

Mahabharata

Adi Parva, Adhyaya 117, Verse 13

तथा भीष्मः शांतनवः सोमदत्तोऽथ बाह्लिकः

प्रज्ञाचक्षुश्च राजर्षिः क्षत्ता च विदुरः स्वयम्

Mahabharata

Adi Parva, Adhyaya 117, Verse 14

सा च सत्यवती देवी कौसल्या च यशस्विनी

राजदारैः परिवृता गान्धारी च विनिर्ययौ

Mahabharata

Adi Parva, Adhyaya 117, Verse 15

धृतराष्ट्रस्य दायादा दुर्योधनपुरोगमाः

भूषिता भूषणैश्चित्रैः शतसंख्या विनिर्ययुः

Mahabharata

Adi Parva, Adhyaya 117, Verse 16

तान्महर्षिगणान्सर्वाञ्शिरोभिरभिवाद्य च

उपोपविविशुः सर्वे कौरव्याः सपुरोहिताः

Mahabharata

Adi Parva, Adhyaya 117, Verse 17

तथैव शिरसा भूमावभिवाद्य प्रणम्य च

उपोपविविशुः सर्वे पौरजानपदा अपि

Mahabharata

Adi Parva, Adhyaya 117, Verse 18

तमकूजमिवाज्ञाय जनौघं सर्वशस्तदा

भीष्मो राज्यं च राष्ट्रं च महर्षिभ्यो न्यवेदयत्

Mahabharata

Adi Parva, Adhyaya 117, Verse 19

तेषामथो वृद्धतमः प्रत्युत्थाय जटाजिनी

महर्षिमतमाज्ञाय महर्षिरिदमब्रवीत्

Mahabharata

Adi Parva, Adhyaya 117, Verse 20

यः स कौरव्यदायादः पाण्डुर्नाम नराधिपः

कामभोगान्परित्यज्य शतशृङ्गमितो गतः

Mahabharata

Adi Parva, Adhyaya 117, Verse 21

ब्रह्मचर्यव्रतस्थस्य तस्य दिव्येन हेतुना

साक्षाद्धर्मादयं पुत्रस्तस्य जातो युधिष्ठिरः

Mahabharata

Adi Parva, Adhyaya 117, Verse 22

तथेमं बलिनां श्रेष्ठं तस्य राज्ञो महात्मनः

मातरिश्वा ददौ पुत्रं भीमं नाम महाबलम्

Mahabharata

Adi Parva, Adhyaya 117, Verse 23

पुरुहूतादयं जज्ञे कुन्त्यां सत्यपराक्रमः

यस्य कीर्तिर्महेष्वासान्सर्वानभिभविष्यति

Mahabharata

Adi Parva, Adhyaya 117, Verse 24

यौ तु माद्री महेष्वासावसूत कुरुसत्तमौ

अश्विभ्यां मनुजव्याघ्राविमौ तावपि तिष्ठतः

Mahabharata

Adi Parva, Adhyaya 117, Verse 25

चरता धर्मनित्येन वनवासं यशस्विना

एष पैतामहो वंशः पाण्डुना पुनरुद्धृतः

Mahabharata

Adi Parva, Adhyaya 117, Verse 26

पुत्राणां जन्म वृद्धिं च वैदिकाध्ययनानि च

पश्यतः सततं पाण्डोः शश्वत्प्रीतिरवर्धत

Mahabharata

Adi Parva, Adhyaya 117, Verse 27

वर्तमानः सतां वृत्ते पुत्रलाभमवाप्य च

पितृलोकं गतः पाण्डुरितः सप्तदशेऽहनि

Mahabharata

Adi Parva, Adhyaya 117, Verse 28

तं चितागतमाज्ञाय वैश्वानरमुखे हुतम्

प्रविष्टा पावकं माद्री हित्वा जीवितमात्मनः

Mahabharata

Adi Parva, Adhyaya 117, Verse 29

सा गता सह तेनैव पतिलोकमनुव्रता

तस्यास्तस्य च यत्कार्यं क्रियतां तदनन्तरम्

Mahabharata

Adi Parva, Adhyaya 117, Verse 30

इमे तयोः शरीरे द्वे सुताश्चेमे तयोर्वराः

क्रियाभिरनुगृह्यन्तां सह मात्रा परंतपाः