Mahabharata

Adi Parva, Adhyaya 116

Containing 31 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Adi Parva, Adhyaya 116, Verse 1

दर्शनीयांस्ततः पुत्रान्पाण्डुः पञ्च महावने

तान्पश्यन्पर्वते रेमे स्वबाहुबलपालितान्

Mahabharata

Adi Parva, Adhyaya 116, Verse 2

सुपुष्पितवने काले कदाचिन्मधुमाधवे

भूतसंमोहने राजा सभार्यो व्यचरद्वनम्

Mahabharata

Adi Parva, Adhyaya 116, Verse 3

पलाशैस्तिलकैश्चूतैश्चम्पकैः पारिभद्रकैः

अन्यैश्च बहुभिर्वृक्षैः फलपुष्पसमृद्धिभिः

Mahabharata

Adi Parva, Adhyaya 116, Verse 4

जलस्थानैश्च विविधैः पद्मिनीभिश्च शोभितम्

पाण्डोर्वनं तु संप्रेक्ष्य प्रजज्ञे हृदि मन्मथः

Mahabharata

Adi Parva, Adhyaya 116, Verse 5

प्रहृष्टमनसं तत्र विहरन्तं यथामरम्

तं माद्र्यनुजगामैका वसनं बिभ्रती शुभम्

Mahabharata

Adi Parva, Adhyaya 116, Verse 6

समीक्षमाणः स तु तां वयःस्थां तनुवाससम्

तस्य कामः प्रववृधे गहनेऽग्निरिवोत्थितः

Mahabharata

Adi Parva, Adhyaya 116, Verse 7

रहस्यात्मसमां दृष्ट्वा राजा राजीवलोचनाम्

न शशाक नियन्तुं तं कामं कामबलात्कृतः

Mahabharata

Adi Parva, Adhyaya 116, Verse 8

तत एनां बलाद्राजा निजग्राह रहोगताम्

वार्यमाणस्तया देव्या विस्फुरन्त्या यथाबलम्

Mahabharata

Adi Parva, Adhyaya 116, Verse 9

स तु कामपरीतात्मा तं शापं नान्वबुध्यत

माद्रीं मैथुनधर्मेण गच्छमानो बलादिव

Mahabharata

Adi Parva, Adhyaya 116, Verse 10

जीवितान्ताय कौरव्यो मन्मथस्य वशं गतः

शापजं भयमुत्सृज्य जगामैव बलात्प्रियाम्

Mahabharata

Adi Parva, Adhyaya 116, Verse 11

तस्य कामात्मनो बुद्धिः साक्षात्कालेन मोहिता

संप्रमथ्येन्द्रियग्रामं प्रनष्टा सह चेतसा

Mahabharata

Adi Parva, Adhyaya 116, Verse 12

स तया सह संगम्य भार्यया कुरुनन्दन

पाण्डुः परमधर्मात्मा युयुजे कालधर्मणा

Mahabharata

Adi Parva, Adhyaya 116, Verse 13

ततो माद्री समालिङ्ग्य राजानं गतचेतसम्

मुमोच दुःखजं शब्दं पुनः पुनरतीव ह

Mahabharata

Adi Parva, Adhyaya 116, Verse 14

सह पुत्रैस्ततः कुन्ती माद्रीपुत्रौ च पाण्डवौ

आजग्मुः सहितास्तत्र यत्र राजा तथागतः

Mahabharata

Adi Parva, Adhyaya 116, Verse 15

ततो माद्र्यब्रवीद्राजन्नार्ता कुन्तीमिदं वचः

एकैव त्वमिहागच्छ तिष्ठन्त्वत्रैव दारकाः

Mahabharata

Adi Parva, Adhyaya 116, Verse 16

तच्छ्रुत्वा वचनं तस्यास्तत्रैवावार्य दारकान्

हताहमिति विक्रुश्य सहसोपजगाम ह

Mahabharata

Adi Parva, Adhyaya 116, Verse 17

दृष्ट्वा पाण्डुं च माद्रीं च शयानौ धरणीतले

कुन्ती शोकपरीताङ्गी विललाप सुदुःखिता

Mahabharata

Adi Parva, Adhyaya 116, Verse 18

रक्ष्यमाणो मया नित्यं वीरः सततमात्मवान्

कथं त्वमभ्यतिक्रान्तः शापं जानन्वनौकसः

Mahabharata

Adi Parva, Adhyaya 116, Verse 19

ननु नाम त्वया माद्रि रक्षितव्यो जनाधिपः

सा कथं लोभितवती विजने त्वं नराधिपम्

Mahabharata

Adi Parva, Adhyaya 116, Verse 20

कथं दीनस्य सततं त्वामासाद्य रहोगताम्

तं विचिन्तयतः शापं प्रहर्षः समजायत

Mahabharata

Adi Parva, Adhyaya 116, Verse 21

धन्या त्वमसि बाह्लीकि मत्तो भाग्यतरा तथा

दृष्टवत्यसि यद्वक्त्रं प्रहृष्टस्य महीपतेः

Mahabharata

Adi Parva, Adhyaya 116, Verse 22

विलोभ्यमानेन मया वार्यमाणेन चासकृत्

आत्मा न वारितोऽनेन सत्यं दिष्टं चिकीर्षुणा

Mahabharata

Adi Parva, Adhyaya 116, Verse 23

अहं ज्येष्ठा धर्मपत्नी ज्येष्ठं धर्मफलं मम

अवश्यं भाविनो भावान्मा मां माद्रि निवर्तय

Mahabharata

Adi Parva, Adhyaya 116, Verse 24

अन्वेष्यामीह भर्तारमहं प्रेतवशं गतम्

उत्तिष्ठ त्वं विसृज्यैनमिमान्रक्षस्व दारकान्

Mahabharata

Adi Parva, Adhyaya 116, Verse 25

अहमेवानुयास्यामि भर्तारमपलायिनम्

न हि तृप्तास्मि कामानां तज्ज्येष्ठा अनुमन्यताम्

Mahabharata

Adi Parva, Adhyaya 116, Verse 26

मां चाभिगम्य क्षीणोऽयं कामाद्भरतसत्तमः

तमुच्छिन्द्यामस्य कामं कथं नु यमसादने

Mahabharata

Adi Parva, Adhyaya 116, Verse 27

न चाप्यहं वर्तयन्ती निर्विशेषं सुतेषु ते

वृत्तिमार्ये चरिष्यामि स्पृशेदेनस्तथा हि माम्

Mahabharata

Adi Parva, Adhyaya 116, Verse 28

तस्मान्मे सुतयोः कुन्ति वर्तितव्यं स्वपुत्रवत्

मां हि कामयमानोऽयं राजा प्रेतवशं गतः

Mahabharata

Adi Parva, Adhyaya 116, Verse 29

राज्ञः शरीरेण सह ममापीदं कलेवरम्

दग्धव्यं सुप्रतिच्छन्नमेतदार्ये प्रियं कुरु

Mahabharata

Adi Parva, Adhyaya 116, Verse 30

दारकेष्वप्रमत्ता च भवेथाश्च हिता मम

अतोऽन्यन्न प्रपश्यामि संदेष्टव्यं हि किंचन