Mahabharata

Adi Parva, Adhyaya 113

Containing 43 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Adi Parva, Adhyaya 113, Verse 1

एवमुक्तस्तया राजा तां देवीं पुनरब्रवीत्

धर्मविद्धर्मसंयुक्तमिदं वचनमुत्तमम्

Mahabharata

Adi Parva, Adhyaya 113, Verse 2

एवमेतत्पुरा कुन्ति व्युषिताश्वश्चकार ह

यथा त्वयोक्तं कल्याणि स ह्यासीदमरोपमः

Mahabharata

Adi Parva, Adhyaya 113, Verse 3

अथ त्विमं प्रवक्ष्यामि धर्मं त्वेतं निबोध मे

पुराणमृषिभिर्दृष्टं धर्मविद्भिर्महात्मभिः

Mahabharata

Adi Parva, Adhyaya 113, Verse 4

अनावृताः किल पुरा स्त्रिय आसन्वरानने

कामचारविहारिण्यः स्वतन्त्राश्चारुलोचने

Mahabharata

Adi Parva, Adhyaya 113, Verse 5

तासां व्युच्चरमाणानां कौमारात्सुभगे पतीन्

नाधर्मोऽभूद्वरारोहे स हि धर्मः पुराभवत्

Mahabharata

Adi Parva, Adhyaya 113, Verse 6

तं चैव धर्मं पौराणं तिर्यग्योनिगताः प्रजाः

अद्याप्यनुविधीयन्ते कामद्वेषविवर्जिताः

पुराणदृष्टो धर्मोऽयं पूज्यते च महर्षिभिः

Mahabharata

Adi Parva, Adhyaya 113, Verse 7

उत्तरेषु च रम्भोरु कुरुष्वद्यापि वर्तते

स्त्रीणामनुग्रहकरः स हि धर्मः सनातनः

Mahabharata

Adi Parva, Adhyaya 113, Verse 8

अस्मिंस्तु लोके नचिरान्मर्यादेयं शुचिस्मिते

स्थापिता येन यस्माच्च तन्मे विस्तरतः शृणु

Mahabharata

Adi Parva, Adhyaya 113, Verse 9

बभूवोद्दालको नाम महर्षिरिति नः श्रुतम्

श्वेतकेतुरिति ख्यातः पुत्रस्तस्याभवन्मुनिः

Mahabharata

Adi Parva, Adhyaya 113, Verse 10

मर्यादेयं कृता तेन मानुषेष्विति नः श्रुतम्

कोपात्कमलपत्राक्षि यदर्थं तन्निबोध मे

Mahabharata

Adi Parva, Adhyaya 113, Verse 11

श्वेतकेतोः किल पुरा समक्षं मातरं पितुः

जग्राह ब्राह्मणः पाणौ गच्छाव इति चाब्रवीत्

Mahabharata

Adi Parva, Adhyaya 113, Verse 12

ऋषिपुत्रस्ततः कोपं चकारामर्षितस्तदा

मातरं तां तथा दृष्ट्वा नीयमानां बलादिव

Mahabharata

Adi Parva, Adhyaya 113, Verse 13

क्रुद्धं तं तु पिता दृष्ट्वा श्वेतकेतुमुवाच ह

मा तात कोपं कार्षीस्त्वमेष धर्मः सनातनः

Mahabharata

Adi Parva, Adhyaya 113, Verse 14

अनावृता हि सर्वेषां वर्णानामङ्गना भुवि

यथा गावः स्थितास्तात स्वे स्वे वर्णे तथा प्रजाः

Mahabharata

Adi Parva, Adhyaya 113, Verse 15

ऋषिपुत्रोऽथ तं धर्मं श्वेतकेतुर्न चक्षमे

चकार चैव मर्यादामिमां स्त्रीपुंसयोर्भुवि

Mahabharata

Adi Parva, Adhyaya 113, Verse 16

मानुषेषु महाभागे न त्वेवान्येषु जन्तुषु

तदा प्रभृति मर्यादा स्थितेयमिति नः श्रुतम्

Mahabharata

Adi Parva, Adhyaya 113, Verse 17

व्युच्चरन्त्याः पतिं नार्या अद्य प्रभृति पातकम्

भ्रूणहत्याकृतं पापं भविष्यत्यसुखावहम्

Mahabharata

Adi Parva, Adhyaya 113, Verse 18

भार्यां तथा व्युच्चरतः कौमारीं ब्रह्मचारिणीम्

पतिव्रतामेतदेव भविता पातकं भुवि

Mahabharata

Adi Parva, Adhyaya 113, Verse 19

पत्या नियुक्ता या चैव पत्न्यपत्यार्थमेव च

न करिष्यति तस्याश्च भविष्यत्येतदेव हि

Mahabharata

Adi Parva, Adhyaya 113, Verse 20

इति तेन पुरा भीरु मर्यादा स्थापिता बलात्

उद्दालकस्य पुत्रेण धर्म्या वै श्वेतकेतुना

Mahabharata

Adi Parva, Adhyaya 113, Verse 21

सौदासेन च रम्भोरु नियुक्तापत्यजन्मनि

मदयन्ती जगामर्षिं वसिष्ठमिति नः श्रुतम्

Mahabharata

Adi Parva, Adhyaya 113, Verse 22

तस्माल्लेभे च सा पुत्रमश्मकं नाम भामिनी

भार्या कल्माषपादस्य भर्तुः प्रियचिकीर्षया

Mahabharata

Adi Parva, Adhyaya 113, Verse 23

अस्माकमपि ते जन्म विदितं कमलेक्षणे

कृष्णद्वैपायनाद्भीरु कुरूणां वंशवृद्धये

Mahabharata

Adi Parva, Adhyaya 113, Verse 24

अत एतानि सर्वाणि कारणानि समीक्ष्य वै

ममैतद्वचनं धर्म्यं कर्तुमर्हस्यनिन्दिते

Mahabharata

Adi Parva, Adhyaya 113, Verse 25

ऋतावृतौ राजपुत्रि स्त्रिया भर्ता यतव्रते

नातिवर्तव्य इत्येवं धर्मं धर्मविदो विदुः

Mahabharata

Adi Parva, Adhyaya 113, Verse 26

शेषेष्वन्येषु कालेषु स्वातन्त्र्यं स्त्री किलार्हति

धर्ममेतं जनाः सन्तः पुराणं परिचक्षते

Mahabharata

Adi Parva, Adhyaya 113, Verse 27

भर्ता भार्यां राजपुत्रि धर्म्यं वाधर्म्यमेव वा

यद्ब्रूयात्तत्तथा कार्यमिति धर्मविदो विदुः

Mahabharata

Adi Parva, Adhyaya 113, Verse 28

विशेषतः पुत्रगृद्धी हीनः प्रजननात्स्वयम्

यथाहमनवद्याङ्गि पुत्रदर्शनलालसः

Mahabharata

Adi Parva, Adhyaya 113, Verse 29

तथा रक्ताङ्गुलितलः पद्मपत्रनिभः शुभे

प्रसादार्थं मया तेऽयं शिरस्यभ्युद्यतोऽञ्जलिः

Mahabharata

Adi Parva, Adhyaya 113, Verse 30

मन्नियोगात्सुकेशान्ते द्विजातेस्तपसाधिकात्

पुत्रान्गुणसमायुक्तानुत्पादयितुमर्हसि

त्वत्कृतेऽहं पृथुश्रोणि गच्छेयं पुत्रिणां गतिम्