Adi Parva, Adhyaya 112, Verse 1
एवमुक्ता महाराज कुन्ती पाण्डुमभाषत
कुरूणामृषभं वीरं तदा भूमिपतिं पतिम्
Containing 34 sacred Sanskrit shlokas with multi-author commentaries and translations.
एवमुक्ता महाराज कुन्ती पाण्डुमभाषत
कुरूणामृषभं वीरं तदा भूमिपतिं पतिम्
न मामर्हसि धर्मज्ञ वक्तुमेवं कथंचन
धर्मपत्नीमभिरतां त्वयि राजीवलोचन
त्वमेव तु महाबाहो मय्यपत्यानि भारत
वीर वीर्योपपन्नानि धर्मतो जनयिष्यसि
स्वर्गं मनुजशार्दूल गच्छेयं सहिता त्वया
अपत्याय च मां गच्छ त्वमेव कुरुनन्दन
न ह्यहं मनसाप्यन्यं गच्छेयं त्वदृते नरम्
त्वत्तः प्रतिविशिष्टश्च कोऽन्योऽस्ति भुवि मानवः
इमां च तावद्धर्म्यां त्वं पौराणीं शृणु मे कथाम्
परिश्रुतां विशालाक्ष कीर्तयिष्यामि यामहम्
व्युषिताश्व इति ख्यातो बभूव किल पार्थिवः
पुरा परमधर्मिष्ठः पूरोर्वंशविवर्धनः
तस्मिंश्च यजमाने वै धर्मात्मनि महात्मनि
उपागमंस्ततो देवाः सेन्द्राः सह महर्षिभिः
अमाद्यदिन्द्रः सोमेन दक्षिणाभिर्द्विजातयः
व्युषिताश्वस्य राजर्षेस्ततो यज्ञे महात्मनः
व्युषिताश्वस्ततो राजन्नति मर्त्यान्व्यरोचत
सर्वभूतान्यति यथा तपनः शिशिरात्यये
स विजित्य गृहीत्वा च नृपतीन्राजसत्तमः
प्राच्यानुदीच्यान्मध्यांश्च दक्षिणात्यानकालयत्
अश्वमेधे महायज्ञे व्युषिताश्वः प्रतापवान्
बभूव स हि राजेन्द्रो दशनागबलान्वितः
अप्यत्र गाथां गायन्ति ये पुराणविदो जनाः
व्युषिताश्वः समुद्रान्तां विजित्येमां वसुंधराम्
अपालयत्सर्ववर्णान्पिता पुत्रानिवौरसान्
यजमानो महायज्ञैर्ब्राह्मणेभ्यो ददौ धनम्
अनन्तरत्नान्यादाय आजहार महाक्रतून्
सुषाव च बहून्सोमान्सोमसंस्थास्ततान च
आसीत्काक्षीवती चास्य भार्या परमसंमता
भद्रा नाम मनुष्येन्द्र रूपेणासदृशी भुवि
कामयामासतुस्तौ तु परस्परमिति श्रुतिः
स तस्यां कामसंमत्तो यक्ष्माणं समपद्यत
तेनाचिरेण कालेन जगामास्तमिवांशुमान्
तस्मिन्प्रेते मनुष्येन्द्रे भार्यास्य भृशदुःखिता
अपुत्रा पुरुषव्याघ्र विललापेति नः श्रुतम्
भद्रा परमदुःखार्ता तन्निबोध नराधिप
नारी परमधर्मज्ञ सर्वा पुत्रविनाकृता
पतिं विना जीवति या न सा जीवति दुःखिता
पतिं विना मृतं श्रेयो नार्याः क्षत्रियपुंगव
त्वद्गतिं गन्तुमिच्छामि प्रसीदस्व नयस्व माम्
त्वया हीना क्षणमपि नाहं जीवितुमुत्सहे
प्रसादं कुरु मे राजन्नितस्तूर्णं नयस्व माम्
पृष्ठतोऽनुगमिष्यामि समेषु विषमेषु च
त्वामहं नरशार्दूल गच्छन्तमनिवर्तिनम्
छायेवानपगा राजन्सततं वशवर्तिनी
भविष्यामि नरव्याघ्र नित्यं प्रियहिते रता
अद्य प्रभृति मां राजन्कष्टा हृदयशोषणाः
आधयोऽभिभविष्यन्ति त्वदृते पुष्करेक्षण
अभाग्यया मया नूनं वियुक्ताः सहचारिणः
संयोगा विप्रयुक्ता वा पूर्वदेहेषु पार्थिव
तदिदं कर्मभिः पापैः पूर्वदेहेषु संचितम्
दुःखं मामनुसंप्राप्तं राजंस्त्वद्विप्रयोगजम्
अद्य प्रभृत्यहं राजन्कुशप्रस्तरशायिनी
भविष्याम्यसुखाविष्टा त्वद्दर्शनपरायणा
दर्शयस्व नरव्याघ्र साधु मामसुखान्विताम्
दीनामनाथां कृपणां विलपन्तीं नरेश्वर
एवं बहुविधं तस्यां विलपन्त्यां पुनः पुनः
तं शवं संपरिष्वज्य वाक्किलान्तर्हिताब्रवीत्
उत्तिष्ठ भद्रे गच्छ त्वं ददानीह वरं तव
जनयिष्याम्यपत्यानि त्वय्यहं चारुहासिनि