Mahabharata

Adi Parva, Adhyaya 110

Containing 45 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Adi Parva, Adhyaya 110, Verse 1

तं व्यतीतमतिक्रम्य राजा स्वमिव बान्धवम्

सभार्यः शोकदुःखार्तः पर्यदेवयदातुरः

Mahabharata

Adi Parva, Adhyaya 110, Verse 2

सतामपि कुले जाताः कर्मणा बत दुर्गतिम्

प्राप्नुवन्त्यकृतात्मानः कामजालविमोहिताः

Mahabharata

Adi Parva, Adhyaya 110, Verse 3

शश्वद्धर्मात्मना जातो बाल एव पिता मम

जीवितान्तमनुप्राप्तः कामात्मैवेति नः श्रुतम्

Mahabharata

Adi Parva, Adhyaya 110, Verse 4

तस्य कामात्मनः क्षेत्रे राज्ञः संयतवागृषिः

कृष्णद्वैपायनः साक्षाद्भगवान्मामजीजनत्

Mahabharata

Adi Parva, Adhyaya 110, Verse 5

तस्याद्य व्यसने बुद्धिः संजातेयं ममाधमा

त्यक्तस्य देवैरनयान्मृगयायां दुरात्मनः

Mahabharata

Adi Parva, Adhyaya 110, Verse 6

मोक्षमेव व्यवस्यामि बन्धो हि व्यसनं महत्

सुवृत्तिमनुवर्तिष्ये तामहं पितुरव्ययाम्

अतीव तपसात्मानं योजयिष्याम्यसंशयम्

Mahabharata

Adi Parva, Adhyaya 110, Verse 7

तस्मादेकोऽहमेकाहमेकैकस्मिन्वनस्पतौ

चरन्भैक्षं मुनिर्मुण्डश्चरिष्यामि महीमिमाम्

Mahabharata

Adi Parva, Adhyaya 110, Verse 8

पांसुना समवच्छन्नः शून्यागारप्रतिश्रयः

वृक्षमूलनिकेतो वा त्यक्तसर्वप्रियाप्रियः

Mahabharata

Adi Parva, Adhyaya 110, Verse 9

न शोचन्न प्रहृष्यंश्च तुल्यनिन्दात्मसंस्तुतिः

निराशीर्निर्नमस्कारो निर्द्वन्द्वो निष्परिग्रहः

Mahabharata

Adi Parva, Adhyaya 110, Verse 10

न चाप्यवहसन्कंचिन्न कुर्वन्भ्रुकुटीं क्वचित्

प्रसन्नवदनो नित्यं सर्वभूतहिते रतः

Mahabharata

Adi Parva, Adhyaya 110, Verse 11

जङ्गमाजङ्गमं सर्वमविहिंसंश्चतुर्विधम्

स्वासु प्रजास्विव सदा समः प्राणभृतां प्रति

Mahabharata

Adi Parva, Adhyaya 110, Verse 12

एककालं चरन्भैक्षं कुलानि द्वे च पञ्च च

असंभवे वा भैक्षस्य चरन्ननशनान्यपि

Mahabharata

Adi Parva, Adhyaya 110, Verse 13

अल्पमल्पं यथाभोज्यं पूर्वलाभेन जातु चित्

नित्यं नातिचरँल्लाभे अलाभे सप्त पूरयन्

Mahabharata

Adi Parva, Adhyaya 110, Verse 14

वास्यैकं तक्षतो बाहुं चन्दनेनैकमुक्षतः

नाकल्याणं न कल्याणं प्रध्यायन्नुभयोस्तयोः

Mahabharata

Adi Parva, Adhyaya 110, Verse 15

न जिजीविषुवत्किंचिन्न मुमूर्षुवदाचरन्

मरणं जीवितं चैव नाभिनन्दन्न च द्विषन्

Mahabharata

Adi Parva, Adhyaya 110, Verse 16

याः काश्चिज्जीवता शक्याः कर्तुमभ्युदयक्रियाः

ताः सर्वाः समतिक्रम्य निमेषादिष्ववस्थितः

Mahabharata

Adi Parva, Adhyaya 110, Verse 17

तासु सर्वास्ववस्थासु त्यक्तसर्वेन्द्रियक्रियः

संपरित्यक्तधर्मात्मा सुनिर्णिक्तात्मकल्मषः

Mahabharata

Adi Parva, Adhyaya 110, Verse 18

निर्मुक्तः सर्वपापेभ्यो व्यतीतः सर्ववागुराः

न वशे कस्यचित्तिष्ठन्सधर्मा मातरिश्वनः

Mahabharata

Adi Parva, Adhyaya 110, Verse 19

एतया सततं वृत्त्या चरन्नेवंप्रकारया

देहं संधारयिष्यामि निर्भयं मार्गमास्थितः

Mahabharata

Adi Parva, Adhyaya 110, Verse 20

नाहं श्वाचरिते मार्गे अवीर्यकृपणोचिते

स्वधर्मात्सततापेते रमेयं वीर्यवर्जितः

Mahabharata

Adi Parva, Adhyaya 110, Verse 21

सत्कृतोऽसक्तृतो वापि योऽन्यां कृपणचक्षुषा

उपैति वृत्तिं कामात्मा स शुनां वर्तते पथि

Mahabharata

Adi Parva, Adhyaya 110, Verse 22

एवमुक्त्वा सुदुःखार्तो निःश्वासपरमो नृपः

अवेक्षमाणः कुन्तीं च माद्रीं च समभाषत

Mahabharata

Adi Parva, Adhyaya 110, Verse 23

कौसल्या विदुरः क्षत्ता राजा च सह बन्धुभिः

आर्या सत्यवती भीष्मस्ते च राजपुरोहिताः

Mahabharata

Adi Parva, Adhyaya 110, Verse 24

ब्राह्मणाश्च महात्मानः सोमपाः संशितव्रताः

पौरवृद्धाश्च ये तत्र निवसन्त्यस्मदाश्रयाः

प्रसाद्य सर्वे वक्तव्याः पाण्डुः प्रव्रजितो वनम्

Mahabharata

Adi Parva, Adhyaya 110, Verse 25

निशम्य वचनं भर्तुर्वनवासे धृतात्मनः

तत्समं वचनं कुन्ती माद्री च समभाषताम्

Mahabharata

Adi Parva, Adhyaya 110, Verse 26

अन्येऽपि ह्याश्रमाः सन्ति ये शक्या भरतर्षभ

आवाभ्यां धर्मपत्नीभ्यां सह तप्त्वा तपो महत्

त्वमेव भविता सार्थः स्वर्गस्यापि न संशयः

Mahabharata

Adi Parva, Adhyaya 110, Verse 27

प्रणिधायेन्द्रियग्रामं भर्तृलोकपरायणे

त्यक्तकामसुखे ह्यावां तप्स्यावो विपुलं तपः

Mahabharata

Adi Parva, Adhyaya 110, Verse 28

यदि आवां महाप्राज्ञ त्यक्ष्यसि त्वं विशां पते

अद्यैवावां प्रहास्यावो जीतिवं नात्र संशयः

Mahabharata

Adi Parva, Adhyaya 110, Verse 29

यदि व्यवसितं ह्येतद्युवयोर्धर्मसंहितम्

स्ववृत्तिमनुवर्तिष्ये तामहं पितुरव्ययाम्

Mahabharata

Adi Parva, Adhyaya 110, Verse 30

त्यक्तग्राम्यसुखाचारस्तप्यमानो महत्तपः

वल्कली फलमूलाशी चरिष्यामि महावने