Mahabharata

Adi Parva, Adhyaya 109

Containing 31 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Adi Parva, Adhyaya 109, Verse 1

कथितो धार्तराष्ट्राणामार्षः संभव उत्तमः

अमानुषो मानुषाणां भवता ब्रह्मवित्तम

Mahabharata

Adi Parva, Adhyaya 109, Verse 2

नामधेयानि चाप्येषां कथ्यमानानि भागशः

त्वत्तः श्रुतानि मे ब्रह्मन्पाण्डवानां तु कीर्तय

Mahabharata

Adi Parva, Adhyaya 109, Verse 3

ते हि सर्वे महात्मानो देवराजपराक्रमाः

त्वयैवांशावतरणे देवभागाः प्रकीर्तिताः

Mahabharata

Adi Parva, Adhyaya 109, Verse 4

तस्मादिच्छाम्यहं श्रोतुमतिमानुषकर्मणाम्

तेषामाजननं सर्वं वैशंपायन कीर्तय

Mahabharata

Adi Parva, Adhyaya 109, Verse 5

राजा पाण्डुर्महारण्ये मृगव्यालनिषेविते

वने मैथुनकालस्थं ददर्श मृगयूथपम्

Mahabharata

Adi Parva, Adhyaya 109, Verse 6

ततस्तां च मृगीं तं च रुक्मपुङ्खैः सुपत्रिभिः

निर्बिभेद शरैस्तीक्ष्णैः पाण्डुः पञ्चभिराशुगैः

Mahabharata

Adi Parva, Adhyaya 109, Verse 7

स च राजन्महातेजा ऋषिपुत्रस्तपोधनः

भार्यया सह तेजस्वी मृगरूपेण संगतः

Mahabharata

Adi Parva, Adhyaya 109, Verse 8

संसक्तस्तु तया मृग्या मानुषीमीरयन्गिरम्

क्षणेन पतितो भूमौ विललापाकुलेन्द्रियः

Mahabharata

Adi Parva, Adhyaya 109, Verse 9

काममन्युपरीतापि बुद्ध्यङ्गरहितापि च

वर्जयन्ति नृशंसानि पापेष्वभिरता नराः

Mahabharata

Adi Parva, Adhyaya 109, Verse 10

न विधिं ग्रसते प्रज्ञा प्रज्ञां तु ग्रसते विधिः

विधिपर्यागतानर्थान्प्रज्ञा न प्रतिपद्यते

Mahabharata

Adi Parva, Adhyaya 109, Verse 11

शश्वद्धर्मात्मनां मुख्ये कुले जातस्य भारत

कामलोभाभिभूतस्य कथं ते चलिता मतिः

Mahabharata

Adi Parva, Adhyaya 109, Verse 12

शत्रूणां या वधे वृत्तिः सा मृगाणां वधे स्मृता

राज्ञां मृग न मां मोहात्त्वं गर्हयितुमर्हसि

Mahabharata

Adi Parva, Adhyaya 109, Verse 13

अच्छद्मनामायया च मृगाणां वध इष्यते

स एव धर्मो राज्ञां तु तद्विद्वान्किं नु गर्हसे

Mahabharata

Adi Parva, Adhyaya 109, Verse 14

अगस्त्यः सत्रमासीनश्चचार मृगयामृषिः

आरण्यान्सर्वदैवत्यान्मृगान्प्रोक्ष्य महावने

Mahabharata

Adi Parva, Adhyaya 109, Verse 15

प्रमाणदृष्टधर्मेण कथमस्मान्विगर्हसे

अगस्त्यस्याभिचारेण युष्माकं वै वपा हुता

Mahabharata

Adi Parva, Adhyaya 109, Verse 16

न रिपून्वै समुद्दिश्य विमुञ्चन्ति पुरा शरान्

रन्ध्र एषां विशेषेण वधकालः प्रशस्यते

Mahabharata

Adi Parva, Adhyaya 109, Verse 17

प्रमत्तमप्रमत्तं वा विवृतं घ्नन्ति चौजसा

उपायैरिषुभिस्तीक्ष्णैः कस्मान्मृग विगर्हसे

Mahabharata

Adi Parva, Adhyaya 109, Verse 18

नाहं घ्नन्तं मृगान्राजन्विगर्हे आत्मकारणात्

मैथुनं तु प्रतीक्ष्यं मे स्यात्त्वयेहानृशंसतः

Mahabharata

Adi Parva, Adhyaya 109, Verse 19

सर्वभूतहिते काले सर्वभूतेप्सिते तथा

को हि विद्वान्मृगं हन्याच्चरन्तं मैथुनं वने

पुरुषार्थफलं कान्तं यत्त्वया वितथं कृतम्

Mahabharata

Adi Parva, Adhyaya 109, Verse 20

पौरवाणामृषीणां च तेषामक्लिष्टकर्मणाम्

वंशे जातस्य कौरव्य नानुरूपमिदं तव

Mahabharata

Adi Parva, Adhyaya 109, Verse 21

नृशंसं कर्म सुमहत्सर्वलोकविगर्हितम्

अस्वर्ग्यमयशस्यं च अधर्मिष्ठं च भारत

Mahabharata

Adi Parva, Adhyaya 109, Verse 22

स्त्रीभोगानां विशेषज्ञः शास्त्रधर्मार्थतत्त्ववित्

नार्हस्त्वं सुरसंकाश कर्तुमस्वर्ग्यमीदृशम्

Mahabharata

Adi Parva, Adhyaya 109, Verse 23

त्वया नृशंसकर्तारः पापाचाराश्च मानवाः

निग्राह्याः पार्थिवश्रेष्ठ त्रिवर्गपरिवर्जिताः

Mahabharata

Adi Parva, Adhyaya 109, Verse 24

किं कृतं ते नरश्रेष्ठ निघ्नतो मामनागसम्

मुनिं मूलफलाहारं मृगवेषधरं नृप

वसमानमरण्येषु नित्यं शमपरायणम्

Mahabharata

Adi Parva, Adhyaya 109, Verse 25

त्वयाहं हिंसितो यस्मात्तस्मात्त्वामप्यसंशयम्

द्वयोर्नृशंसकर्तारमवशं काममोहितम्

जीवितान्तकरो भाव एवमेवागमिष्यति

Mahabharata

Adi Parva, Adhyaya 109, Verse 26

अहं हि किंदमो नाम तपसाप्रतिमो मुनिः

व्यपत्रपन्मनुष्याणां मृग्यां मैथुनमाचरम्

Mahabharata

Adi Parva, Adhyaya 109, Verse 27

मृगो भूत्वा मृगैः सार्धं चरामि गहने वने

न तु ते ब्रह्महत्येयं भविष्यत्यविजानतः

मृगरूपधरं हत्वा मामेवं काममोहितम्

Mahabharata

Adi Parva, Adhyaya 109, Verse 28

अस्य तु त्वं फलं मूढ प्राप्स्यसीदृशमेव हि

प्रियया सह संवासं प्राप्य कामविमोहितः

त्वमप्यस्यामवस्थायां प्रेतलोकं गमिष्यसि

Mahabharata

Adi Parva, Adhyaya 109, Verse 29

अन्तकाले च संवासं यया गन्तासि कान्तया

प्रेतराजवशं प्राप्तं सर्वभूतदुरत्ययम्

भक्त्या मतिमतां श्रेष्ठ सैव त्वामनुयास्यति

Mahabharata

Adi Parva, Adhyaya 109, Verse 30

वर्तमानः सुखे दुःखं यथाहं प्रापितस्त्वया

तथा सुखं त्वां संप्राप्तं दुःखमभ्यागमिष्यति