Mahabharata

Adi Parva, Adhyaya 108

Containing 18 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Adi Parva, Adhyaya 108, Verse 1

ज्येष्ठानुज्येष्ठतां तेषां नामधेयानि चाभिभो

धृतराष्ट्रस्य पुत्राणामानुपूर्व्येण कीर्तय

Mahabharata

Adi Parva, Adhyaya 108, Verse 2

दुर्योधनो युयुत्सुश्च राजन्दुःशासनस्तथा

दुःसहो दुःशलश्चैव जलसंधः समः सहः

Mahabharata

Adi Parva, Adhyaya 108, Verse 3

विन्दानुविन्दौ दुर्धर्षः सुबाहुर्दुष्प्रधर्षणः

दुर्मर्षणो दुर्मुखश्च दुष्कर्णः कर्ण एव च

Mahabharata

Adi Parva, Adhyaya 108, Verse 4

विविंशतिर्विकर्णश्च जलसंधः सुलोचनः

चित्रोपचित्रौ चित्राक्षश्चारुचित्रः शरासनः

Mahabharata

Adi Parva, Adhyaya 108, Verse 5

दुर्मदो दुष्प्रगाहश्च विवित्सुर्विकटः समः

ऊर्णनाभः सुनाभश्च तथा नन्दोपनन्दकौ

Mahabharata

Adi Parva, Adhyaya 108, Verse 6

सेनापतिः सुषेणश्च कुण्डोदरमहोदरौ

चित्रबाणश्चित्रवर्मा सुवर्मा दुर्विमोचनः

Mahabharata

Adi Parva, Adhyaya 108, Verse 7

अयोबाहुर्महाबाहुश्चित्राङ्गश्चित्रकुण्डलः

भीमवेगो भीमबलो बलाकी बलवर्धनः

Mahabharata

Adi Parva, Adhyaya 108, Verse 8

उग्रायुधो भीमकर्मा कनकायुर्दृढायुधः

दृढवर्मा दृढक्षत्रः सोमकीर्तिरनूदरः

Mahabharata

Adi Parva, Adhyaya 108, Verse 9

दृढसंधो जरासंधः सत्यसंधः सदःसुवाक्

उग्रश्रवा अश्वसेनः सेनानीर्दुष्पराजयः

Mahabharata

Adi Parva, Adhyaya 108, Verse 10

अपराजितः पण्डितको विशालाक्षो दुरावरः

दृढहस्तः सुहस्तश्च वातवेगसुवर्चसौ

Mahabharata

Adi Parva, Adhyaya 108, Verse 11

आदित्यकेतुर्बह्वाशी नागदन्तोग्रयायिनौ

कवची निषङ्गी पाशी च दण्डधारो धनुर्ग्रहः

Mahabharata

Adi Parva, Adhyaya 108, Verse 12

उग्रो भीमरथो वीरो वीरबाहुरलोलुपः

अभयो रौद्रकर्मा च तथा दृढरथस्त्रयः

Mahabharata

Adi Parva, Adhyaya 108, Verse 13

अनाधृष्यः कुण्डभेदी विरावी दीर्घलोचनः

दीर्घबाहुर्महाबाहुर्व्यूढोरुः कनकध्वजः

Mahabharata

Adi Parva, Adhyaya 108, Verse 14

कुण्डाशी विरजाश्चैव दुःशला च शताधिका

एतदेकशतं राजन्कन्या चैका प्रकीर्तिता

Mahabharata

Adi Parva, Adhyaya 108, Verse 15

नामधेयानुपूर्व्येण विद्धि जन्मक्रमं नृप

सर्वे त्वतिरथाः शूराः सर्वे युद्धविशारदाः

Mahabharata

Adi Parva, Adhyaya 108, Verse 16

सर्वे वेदविदश्चैव राजशास्त्रेषु कोविदाः

सर्वे संसर्गविद्यासु विद्याभिजनशोभिनः

Mahabharata

Adi Parva, Adhyaya 108, Verse 17

सर्वेषामनुरूपाश्च कृता दारा महीपते

धृतराष्ट्रेण समये समीक्ष्य विधिवत्तदा

Mahabharata

Adi Parva, Adhyaya 108, Verse 18

दुःशलां समये राजा सिन्धुराजाय भारत

जयद्रथाय प्रददौ सौबलानुमते तदा