Adi Parva, Adhyaya 107, Verse 1
ततः पुत्रशतं जज्ञे गान्धार्यां जनमेजय
धृतराष्ट्रस्य वैश्यायामेकश्चापि शतात्परः
Containing 37 sacred Sanskrit shlokas with multi-author commentaries and translations.
ततः पुत्रशतं जज्ञे गान्धार्यां जनमेजय
धृतराष्ट्रस्य वैश्यायामेकश्चापि शतात्परः
पाण्डोः कुन्त्यां च माद्र्यां च पञ्च पुत्रा महारथाः
देवेभ्यः समपद्यन्त संतानाय कुलस्य वै
कथं पुत्रशतं जज्ञे गान्धार्यां द्विजसत्तम
कियता चैव कालेन तेषामायुश्च किं परम्
कथं चैकः स वैश्यायां धृतराष्ट्रसुतोऽभवत्
कथं च सदृशीं भार्यां गान्धारीं धर्मचारिणीम्
आनुकूल्ये वर्तमानां धृतराष्ट्रोऽत्यवर्तत
कथं च शप्तस्य सतः पाण्डोस्तेन महात्मना
समुत्पन्ना दैवतेभ्यः पञ्च पुत्रा महारथाः
एतद्विद्वन्यथावृत्तं विस्तरेण तपोधन
कथयस्व न मे तृप्तिः कथ्यमानेषु बन्धुषु
क्षुच्छ्रमाभिपरिग्लानं द्वैपायनमुपस्थितम्
तोषयामास गान्धारी व्यासस्तस्यै वरं ददौ
सा वव्रे सदृशं भर्तुः पुत्राणां शतमात्मनः
ततः कालेन सा गर्भं धृतराष्ट्रादथाग्रहीत्
संवत्सरद्वयं तं तु गान्धारी गर्भमाहितम्
अप्रजा धारयामास ततस्तां दुःखमाविशत्
श्रुत्वा कुन्तीसुतं जातं बालार्कसमतेजसम्
उदरस्यात्मनः स्थैर्यमुपलभ्यान्वचिन्तयत्
अज्ञातं धृतराष्ट्रस्य यत्नेन महता ततः
सोदरं पातयामास गान्धारी दुःखमूर्च्छिता
ततो जज्ञे मांसपेशी लोहाष्ठीलेव संहता
द्विवर्षसंभृतां कुक्षौ तामुत्स्रष्टुं प्रचक्रमे
अथ द्वैपायनो ज्ञात्वा त्वरितः समुपागमत्
तां स मांसमयीं पेशीं ददर्श जपतां वरः
ततोऽब्रवीत्सौबलेयीं किमिदं ते चिकीर्षितम्
सा चात्मनो मतं सत्यं शशंस परमर्षये
ज्येष्ठं कुन्तीसुतं जातं श्रुत्वा रविसमप्रभम्
दुःखेन परमेणेदमुदरं पातितं मया
शतं च किल पुत्राणां वितीर्णं मे त्वया पुरा
इयं च मे मांसपेशी जाता पुत्रशताय वै
एवमेतत्सौबलेयि नैतज्जात्वन्यथा भवेत्
वितथं नोक्तपूर्वं मे स्वैरेष्वपि कुतोऽन्यथा
घृतपूर्णं कुण्डशतं क्षिप्रमेव विधीयताम्
शीताभिरद्भिरष्ठीलामिमां च परिषिञ्चत
सा सिच्यमाना अष्ठीला अभवच्छतधा तदा
अङ्गुष्ठपर्वमात्राणां गर्भाणां पृथगेव तु
एकाधिकशतं पूर्णं यथायोगं विशां पते
मांसपेश्यास्तदा राजन्क्रमशः कालपर्ययात्
ततस्तांस्तेषु कुण्डेषु गर्भानवदधे तदा
स्वनुगुप्तेषु देशेषु रक्षां च व्यदधात्ततः
शशास चैव भगवान्कालेनैतावता पुनः
विघट्टनीयान्येतानि कुण्डानीति स्म सौबलीम्
इत्युक्त्वा भगवान्व्यासस्तथा प्रतिविधाय च
जगाम तपसे धीमान्हिमवन्तं शिलोच्चयम्
जज्ञे क्रमेण चैतेन तेषां दुर्योधनो नृपः
जन्मतस्तु प्रमाणेन ज्येष्ठो राजा युधिष्ठिरः
जातमात्रे सुते तस्मिन्धृतराष्ट्रोऽब्रवीदिदम्
समानीय बहून्विप्रान्भीष्मं विदुरमेव च
युधिष्ठिरो राजपुत्रो ज्येष्ठो नः कुलवर्धनः
प्राप्तः स्वगुणतो राज्यं न तस्मिन्वाच्यमस्ति नः
अयं त्वनन्तरस्तस्मादपि राजा भविष्यति
एतद्धि ब्रूत मे सत्यं यदत्र भविता ध्रुवम्
वाक्यस्यैतस्य निधने दिक्षु सर्वासु भारत
क्रव्यादाः प्राणदन्घोराः शिवाश्चाशिवशंसिनः
लक्षयित्वा निमित्तानि तानि घोराणि सर्वशः
तेऽब्रुवन्ब्राह्मणा राजन्विदुरश्च महामतिः
व्यक्तं कुलान्तकरणो भवितैष सुतस्तव
तस्य शान्तिः परित्यागे पुष्ट्या त्वपनयो महान्