Mahabharata

Adi Parva, Adhyaya 106

Containing 14 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Adi Parva, Adhyaya 106, Verse 1

धृतराष्ट्राभ्यनुज्ञातः स्वबाहुविजितं धनम्

भीष्माय सत्यवत्यै च मात्रे चोपजहार सः

Mahabharata

Adi Parva, Adhyaya 106, Verse 2

विदुराय च वै पाण्डुः प्रेषयामास तद्धनम्

सुहृदश्चापि धर्मात्मा धनेन समतर्पयत्

Mahabharata

Adi Parva, Adhyaya 106, Verse 3

ततः सत्यवतीं भीष्मः कौसल्यां च यशस्विनीम्

शुभैः पाण्डुजितै रत्नैस्तोषयामास भारत

Mahabharata

Adi Parva, Adhyaya 106, Verse 4

ननन्द माता कौसल्या तमप्रतिमतेजसम्

जयन्तमिव पौलोमी परिष्वज्य नरर्षभम्

Mahabharata

Adi Parva, Adhyaya 106, Verse 5

तस्य वीरस्य विक्रान्तैः सहस्रशतदक्षिणैः

अश्वमेधशतैरीजे धृतराष्ट्रो महामखैः

Mahabharata

Adi Parva, Adhyaya 106, Verse 6

संप्रयुक्तश्च कुन्त्या च माद्र्या च भरतर्षभ

जिततन्द्रीस्तदा पाण्डुर्बभूव वनगोचरः

Mahabharata

Adi Parva, Adhyaya 106, Verse 7

हित्वा प्रासादनिलयं शुभानि शयनानि च

अरण्यनित्यः सततं बभूव मृगयापरः

Mahabharata

Adi Parva, Adhyaya 106, Verse 8

स चरन्दक्षिणं पार्श्वं रम्यं हिमवतो गिरेः

उवास गिरिपृष्ठेषु महाशालवनेषु च

Mahabharata

Adi Parva, Adhyaya 106, Verse 9

रराज कुन्त्या माद्र्या च पाण्डुः सह वने वसन्

करेण्वोरिव मध्यस्थः श्रीमान्पौरंदरो गजः

Mahabharata

Adi Parva, Adhyaya 106, Verse 10

भारतं सह भार्याभ्यां बाणखड्गधनुर्धरम्

विचित्रकवचं वीरं परमास्त्रविदं नृपम्

देवोऽयमित्यमन्यन्त चरन्तं वनवासिनः

Mahabharata

Adi Parva, Adhyaya 106, Verse 11

तस्य कामांश्च भोगांश्च नरा नित्यमतन्द्रिताः

उपजह्रुर्वनान्तेषु धृतराष्ट्रेण चोदिताः

Mahabharata

Adi Parva, Adhyaya 106, Verse 12

अथ पारशवीं कन्यां देवकस्य महीपतेः

रूपयौवनसंपन्नां स शुश्रावापगासुतः

Mahabharata

Adi Parva, Adhyaya 106, Verse 13

ततस्तु वरयित्वा तामानाय्य पुरुषर्षभः

विवाहं कारयामास विदुरस्य महामतेः

Mahabharata

Adi Parva, Adhyaya 106, Verse 14

तस्यां चोत्पादयामास विदुरः कुरुनन्दनः

पुत्रान्विनयसंपन्नानात्मनः सदृशान्गुणैः