Mahabharata

Adi Parva, Adhyaya 105

Containing 27 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Adi Parva, Adhyaya 105, Verse 1

रूपसत्त्वगुणोपेता धर्मारामा महाव्रता

दुहिता कुन्तिभोजस्य कृते पित्रा स्वयंवरे

Mahabharata

Adi Parva, Adhyaya 105, Verse 2

सिंहदंष्ट्रं गजस्कन्धमृषभाक्षं महाबलम्

भूमिपालसहस्राणां मध्ये पाण्डुमविन्दत

Mahabharata

Adi Parva, Adhyaya 105, Verse 3

स तया कुन्तिभोजस्य दुहित्रा कुरुनन्दनः

युयुजेऽमितसौभाग्यः पौलोम्या मघवानिव

Mahabharata

Adi Parva, Adhyaya 105, Verse 4

यात्वा देवव्रतेनापि मद्राणां पुटभेदनम्

विश्रुता त्रिषु लोकेषु माद्री मद्रपतेः सुता

Mahabharata

Adi Parva, Adhyaya 105, Verse 5

सर्वराजसु विख्याता रूपेणासदृशी भुवि

पाण्डोरर्थे परिक्रीता धनेन महता तदा

विवाहं कारयामास भीष्मः पाण्डोर्महात्मनः

Mahabharata

Adi Parva, Adhyaya 105, Verse 6

सिंहोरस्कं गजस्कन्धमृषभाक्षं मनस्विनम्

पाण्डुं दृष्ट्वा नरव्याघ्रं व्यस्मयन्त नरा भुवि

Mahabharata

Adi Parva, Adhyaya 105, Verse 7

कृतोद्वाहस्ततः पाण्डुर्बलोत्साहसमन्वितः

जिगीषमाणो वसुधां ययौ शत्रूननेकशः

Mahabharata

Adi Parva, Adhyaya 105, Verse 8

पूर्वमागस्कृतो गत्वा दशार्णाः समरे जिताः

पाण्डुना नरसिंहेन कौरवाणां यशोभृता

Mahabharata

Adi Parva, Adhyaya 105, Verse 9

ततः सेनामुपादाय पाण्डुर्नानाविधध्वजाम्

प्रभूतहस्त्यश्वरथां पदातिगणसंकुलाम्

Mahabharata

Adi Parva, Adhyaya 105, Verse 10

आगस्कृत्सर्ववीराणां वैरी सर्वमहीभृताम्

गोप्ता मगधराष्ट्रस्य दार्वो राजगृहे हतः

Mahabharata

Adi Parva, Adhyaya 105, Verse 11

ततः कोशं समादाय वाहनानि बलानि च

पाण्डुना मिथिलां गत्वा विदेहाः समरे जिताः

Mahabharata

Adi Parva, Adhyaya 105, Verse 12

तथा काशिषु सुह्मेषु पुण्ड्रेषु भरतर्षभ

स्वबाहुबलवीर्येण कुरूणामकरोद्यशः

Mahabharata

Adi Parva, Adhyaya 105, Verse 13

तं शरौघमहाज्वालमस्त्रार्चिषमरिंदमम्

पाण्डुपावकमासाद्य व्यदह्यन्त नराधिपाः

Mahabharata

Adi Parva, Adhyaya 105, Verse 14

ते ससेनाः ससेनेन विध्वंसितबला नृपाः

पाण्डुना वशगाः कृत्वा करकर्मसु योजिताः

Mahabharata

Adi Parva, Adhyaya 105, Verse 15

तेन ते निर्जिताः सर्वे पृथिव्यां सर्वपार्थिवाः

तमेकं मेनिरे शूरं देवेष्विव पुरंदरम्

Mahabharata

Adi Parva, Adhyaya 105, Verse 16

तं कृताञ्जलयः सर्वे प्रणता वसुधाधिपाः

उपाजग्मुर्धनं गृह्य रत्नानि विविधानि च

Mahabharata

Adi Parva, Adhyaya 105, Verse 17

मणिमुक्ताप्रवालं च सुवर्णं रजतं तथा

गोरत्नान्यश्वरत्नानि रथरत्नानि कुञ्जरान्

Mahabharata

Adi Parva, Adhyaya 105, Verse 18

खरोष्ट्रमहिषांश्चैव यच्च किंचिदजाविकम्

तत्सर्वं प्रतिजग्राह राजा नागपुराधिपः

Mahabharata

Adi Parva, Adhyaya 105, Verse 19

तदादाय ययौ पाण्डुः पुनर्मुदितवाहनः

हर्षयिष्यन्स्वराष्ट्राणि पुरं च गजसाह्वयम्

Mahabharata

Adi Parva, Adhyaya 105, Verse 20

शंतनो राजसिंहस्य भरतस्य च धीमतः

प्रनष्टः कीर्तिजः शब्दः पाण्डुना पुनरुद्धृतः

Mahabharata

Adi Parva, Adhyaya 105, Verse 21

ये पुरा कुरुराष्ट्राणि जह्रुः कुरुधनानि च

ते नागपुरसिंहेन पाण्डुना करदाः कृताः

Mahabharata

Adi Parva, Adhyaya 105, Verse 22

इत्यभाषन्त राजानो राजामात्याश्च संगताः

प्रतीतमनसो हृष्टाः पौरजानपदैः सह

Mahabharata

Adi Parva, Adhyaya 105, Verse 23

प्रत्युद्ययुस्तं संप्राप्तं सर्वे भीष्मपुरोगमाः

ते नदूरमिवाध्वानं गत्वा नागपुरालयाः

आवृतं ददृशुर्लोकं हृष्टा बहुविधैर्जनैः

Mahabharata

Adi Parva, Adhyaya 105, Verse 24

नानायानसमानीतै रत्नैरुच्चावचैस्तथा

हस्त्यश्वरथरत्नैश्च गोभिरुष्ट्रैरथाविकैः

नान्तं ददृशुरासाद्य भीष्मेण सह कौरवाः

Mahabharata

Adi Parva, Adhyaya 105, Verse 25

सोऽभिवाद्य पितुः पादौ कौसल्यानन्दवर्धनः

यथार्हं मानयामास पौरजानपदानपि

Mahabharata

Adi Parva, Adhyaya 105, Verse 26

प्रमृद्य परराष्ट्राणि कृतार्थं पुनरागतम्

पुत्रमासाद्य भीष्मस्तु हर्षादश्रूण्यवर्तयत्

Mahabharata

Adi Parva, Adhyaya 105, Verse 27

स तूर्यशतसंघानां भेरीणां च महास्वनैः

हर्षयन्सर्वशः पौरान्विवेश गजसाह्वयम्