Adi Parva, Adhyaya 104, Verse 1
शूरो नाम यदुश्रेष्ठो वसुदेवपिताभवत्
तस्य कन्या पृथा नाम रूपेणासदृशी भुवि
Containing 21 sacred Sanskrit shlokas with multi-author commentaries and translations.
शूरो नाम यदुश्रेष्ठो वसुदेवपिताभवत्
तस्य कन्या पृथा नाम रूपेणासदृशी भुवि
पैतृष्वसेयाय स तामनपत्याय वीर्यवान्
अग्र्यमग्रे प्रतिज्ञाय स्वस्यापत्यस्य वीर्यवान्
अग्रजातेति तां कन्यामग्र्यानुग्रहकाङ्क्षिणे
प्रददौ कुन्तिभोजाय सखा सख्ये महात्मने
सा नियुक्ता पितुर्गेहे देवतातिथिपूजने
उग्रं पर्यचरद्घोरं ब्राह्मणं संशितव्रतम्
निगूढनिश्चयं धर्मे यं तं दुर्वाससं विदुः
तमुग्रं संशितात्मानं सर्वयत्नैरतोषयत्
तस्यै स प्रददौ मन्त्रमापद्धर्मान्ववेक्षया
अभिचाराभिसंयुक्तमब्रवीच्चैव तां मुनिः
यं यं देवं त्वमेतेन मन्त्रेणावाहयिष्यसि
तस्य तस्य प्रसादेन पुत्रस्तव भविष्यति
तथोक्ता सा तु विप्रेण तेन कौतूहलात्तदा
कन्या सती देवमर्कमाजुहाव यशस्विनी
सा ददर्श तमायान्तं भास्करं लोकभावनम्
विस्मिता चानवद्याङ्गी दृष्ट्वा तन्महदद्भुतम्
प्रकाशकर्मा तपनस्तस्यां गर्भं दधौ ततः
अजीजनत्ततो वीरं सर्वशस्त्रभृतां वरम्
आमुक्तकवचः श्रीमान्देवगर्भः श्रियावृतः
सहजं कवचं बिभ्रत्कुण्डलोद्द्योतिताननः
अजायत सुतः कर्णः सर्वलोकेषु विश्रुतः
प्रादाच्च तस्याः कन्यात्वं पुनः स परमद्युतिः
दत्त्वा च ददतां श्रेष्ठो दिवमाचक्रमे ततः
गूहमानापचारं तं बन्धुपक्षभयात्तदा
उत्ससर्ज जले कुन्ती तं कुमारं सलक्षणम्
तमुत्सृष्टं तदा गर्भं राधाभर्ता महायशाः
पुत्रत्वे कल्पयामास सभार्यः सूतनन्दनः
नामधेयं च चक्राते तस्य बालस्य तावुभौ
वसुना सह जातोऽयं वसुषेणो भवत्विति
स वर्धमानो बलवान्सर्वास्त्रेषूद्यतोऽभवत्
आ पृष्ठतापादादित्यमुपतस्थे स वीर्यवान्
यस्मिन्काले जपन्नास्ते स वीरः सत्यसंगरः
नादेयं ब्राह्मणेष्वासीत्तस्मिन्काले महात्मनः
तमिन्द्रो ब्राह्मणो भूत्वा भिक्षार्थं भूतभावनः
कुण्डले प्रार्थयामास कवचं च महाद्युतिः
उत्कृत्य विमनाः स्वाङ्गात्कवचं रुधिरस्रवम्
कर्णस्तु कुण्डले छित्त्वा प्रायच्छत्स कृताञ्जलिः
शक्तिं तस्मै ददौ शक्रः विस्मितो वाक्यमब्रवीत्
देवासुरमनुष्याणां गन्धर्वोरगरक्षसाम्
यस्मै क्षेप्स्यसि रुष्टः सन्सोऽनया न भविष्यति
पुरा नाम तु तस्यासीद्वसुषेण इति श्रुतम्
ततो वैकर्तनः कर्णः कर्मणा तेन सोऽभवत्