Mahabharata

Adi Parva, Adhyaya 103

Containing 17 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Adi Parva, Adhyaya 103, Verse 1

गुणैः समुदितं सम्यगिदं नः प्रथितं कुलम्

अत्यन्यान्पृथिवीपालान्पृथिव्यामधिराज्यभाक्

Mahabharata

Adi Parva, Adhyaya 103, Verse 2

रक्षितं राजभिः पूर्वैर्धर्मविद्भिर्महात्मभिः

नोत्सादमगमच्चेदं कदाचिदिह नः कुलम्

Mahabharata

Adi Parva, Adhyaya 103, Verse 3

मया च सत्यवत्या च कृष्णेन च महात्मना

समवस्थापितं भूयो युष्मासु कुलतन्तुषु

Mahabharata

Adi Parva, Adhyaya 103, Verse 4

वर्धते तदिदं पुत्र कुलं सागरवद्यथा

तथा मया विधातव्यं त्वया चैव विशेषतः

Mahabharata

Adi Parva, Adhyaya 103, Verse 5

श्रूयते यादवी कन्या अनुरूपा कुलस्य नः

सुबलस्यात्मजा चैव तथा मद्रेश्वरस्य च

Mahabharata

Adi Parva, Adhyaya 103, Verse 6

कुलीना रूपवत्यश्च नाथवत्यश्च सर्वशः

उचिताश्चैव संबन्धे तेऽस्माकं क्षत्रियर्षभाः

Mahabharata

Adi Parva, Adhyaya 103, Verse 7

मन्ये वरयितव्यास्ता इत्यहं धीमतां वर

संतानार्थं कुलस्यास्य यद्वा विदुर मन्यसे

Mahabharata

Adi Parva, Adhyaya 103, Verse 8

भवान्पिता भवान्माता भवान्नः परमो गुरुः

तस्मात्स्वयं कुलस्यास्य विचार्य कुरु यद्धितम्

Mahabharata

Adi Parva, Adhyaya 103, Verse 9

अथ शुश्राव विप्रेभ्यो गान्धारीं सुबलात्मजाम्

आराध्य वरदं देवं भगनेत्रहरं हरम्

गान्धारी किल पुत्राणां शतं लेभे वरं शुभा

Mahabharata

Adi Parva, Adhyaya 103, Verse 10

इति श्रुत्वा च तत्त्वेन भीष्मः कुरुपितामहः

ततो गान्धारराजस्य प्रेषयामास भारत

Mahabharata

Adi Parva, Adhyaya 103, Verse 11

अचक्षुरिति तत्रासीत्सुबलस्य विचारणा

कुलं ख्यातिं च वृत्तं च बुद्ध्या तु प्रसमीक्ष्य सः

ददौ तां धृतराष्ट्राय गान्धारीं धर्मचारिणीम्

Mahabharata

Adi Parva, Adhyaya 103, Verse 12

गान्धारी त्वपि शुश्राव धृतराष्ट्रमचक्षुषम्

आत्मानं दित्सितं चास्मै पित्रा मात्रा च भारत

Mahabharata

Adi Parva, Adhyaya 103, Verse 13

ततः सा पट्टमादाय कृत्वा बहुगुणं शुभा

बबन्ध नेत्रे स्वे राजन्पतिव्रतपरायणा

नात्यश्नीयां पतिमहमित्येवं कृतनिश्चया

Mahabharata

Adi Parva, Adhyaya 103, Verse 14

ततो गान्धारराजस्य पुत्रः शकुनिरभ्ययात्

स्वसारं परया लक्ष्म्या युक्तामादाय कौरवान्

Mahabharata

Adi Parva, Adhyaya 103, Verse 15

दत्त्वा स भगिनीं वीरो यथार्हं च परिच्छदम्

पुनरायात्स्वनगरं भीष्मेण प्रतिपूजितः

Mahabharata

Adi Parva, Adhyaya 103, Verse 16

गान्धार्यपि वरारोहा शीलाचारविचेष्टितैः

तुष्टिं कुरूणां सर्वेषां जनयामास भारत

Mahabharata

Adi Parva, Adhyaya 103, Verse 17

वृत्तेनाराध्य तान्सर्वान्पतिव्रतपरायणा

वाचापि पुरुषानन्यान्सुव्रता नान्वकीर्तयत्