Mahabharata

Stri Parva, Adhyaya 26

Containing 44 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Stri Parva, Adhyaya 26, Verse 1

उत्तिष्ठोत्तिष्ठ गान्धारि मा च शोके मनः कृथाः

तवैव ह्यपराधेन कुरवो निधनं गताः

Mahabharata

Stri Parva, Adhyaya 26, Verse 2

या त्वं पुत्रं दुरात्मानमीर्षुमत्यन्तमानिनम्

दुर्योधनं पुरस्कृत्य दुष्कृतं साधु मन्यसे

Mahabharata

Stri Parva, Adhyaya 26, Verse 3

निष्ठुरं वैरपरुषं वृद्धानां शासनातिगम्

कथमात्मकृतं दोषं मय्याधातुमिहेच्छसि

Mahabharata

Stri Parva, Adhyaya 26, Verse 4

मृतं वा यदि वा नष्टं योऽतीतमनुशोचति

दुःखेन लभते दुःखं द्वावनर्थौ प्रपद्यते

Mahabharata

Stri Parva, Adhyaya 26, Verse 5

तपोर्थीयं ब्राह्मणी धत्त गर्भं; गौर्वोढारं धावितारं तुरंगी

शूद्रा दासं पशुपालं तु वैश्या; वधार्थीयं त्वद्विधा राजपुत्री

Mahabharata

Stri Parva, Adhyaya 26, Verse 6

तच्छ्रुत्वा वासुदेवस्य पुनरुक्तं वचोऽप्रियम्

तूष्णीं बभूव गान्धारी शोकव्याकुललोचना

Mahabharata

Stri Parva, Adhyaya 26, Verse 7

धृतराष्ट्रस्तु राजर्षिर्निगृह्याबुद्धिजं तमः

पर्यपृच्छत धर्मात्मा धर्मराजं युधिष्ठिरम्

Mahabharata

Stri Parva, Adhyaya 26, Verse 8

जीवतां परिमाणज्ञः सैन्यानामसि पाण्डव

हतानां यदि जानीषे परिमाणं वदस्व मे

Mahabharata

Stri Parva, Adhyaya 26, Verse 9

दशायुतानामयुतं सहस्राणि च विंशतिः

कोट्यः षष्टिश्च षट्चैव येऽस्मिन्राजमृधे हताः

Mahabharata

Stri Parva, Adhyaya 26, Verse 10

अलक्ष्याणां तु वीराणां सहस्राणि चतुर्दश

दश चान्यानि राजेन्द्र शतं षष्टिश्च पञ्च च

Mahabharata

Stri Parva, Adhyaya 26, Verse 11

युधिष्ठिर गतिं कां ते गताः पुरुषसत्तमाः

आचक्ष्व मे महाबाहो सर्वज्ञो ह्यसि मे मतः

Mahabharata

Stri Parva, Adhyaya 26, Verse 12

यैर्हुतानि शरीराणि हृष्टैः परमसंयुगे

देवराजसमाँल्लोकान्गतास्ते सत्यविक्रमाः

Mahabharata

Stri Parva, Adhyaya 26, Verse 13

ये त्वहृष्टेन मनसा मर्तव्यमिति भारत

युध्यमाना हताः संख्ये ते गन्धर्वैः समागताः

Mahabharata

Stri Parva, Adhyaya 26, Verse 14

ये तु संग्रामभूमिष्ठा याचमानाः पराङ्मुखाः

शस्त्रेण निधनं प्राप्ता गतास्ते गुह्यकान्प्रति

Mahabharata

Stri Parva, Adhyaya 26, Verse 15

पीड्यमानाः परैर्ये तु हीयमाना निरायुधाः

ह्रीनिषेधा महात्मानः परानभिमुखा रणे

Mahabharata

Stri Parva, Adhyaya 26, Verse 16

छिद्यमानाः शितैः शस्त्रैः क्षत्रधर्मपरायणाः

गतास्ते ब्रह्मसदनं हता वीराः सुवर्चसः

Mahabharata

Stri Parva, Adhyaya 26, Verse 17

ये तत्र निहता राजन्नन्तरायोधनं प्रति

यथा कथंचित्ते राजन्संप्राप्ता उत्तरान्कुरून्

Mahabharata

Stri Parva, Adhyaya 26, Verse 18

केन ज्ञानबलेनैवं पुत्र पश्यसि सिद्धवत्

तन्मे वद महाबाहो श्रोतव्यं यदि वै मया

Mahabharata

Stri Parva, Adhyaya 26, Verse 19

निदेशाद्भवतः पूर्वं वने विचरता मया

तीर्थयात्राप्रसङ्गेन संप्राप्तोऽयमनुग्रहः

Mahabharata

Stri Parva, Adhyaya 26, Verse 20

देवर्षिर्लोमशो दृष्टस्ततः प्राप्तोऽस्म्यनुस्मृतिम्

दिव्यं चक्षुरपि प्राप्तं ज्ञानयोगेन वै पुरा

Mahabharata

Stri Parva, Adhyaya 26, Verse 21

येऽत्रानाथा जनस्यास्य सनाथा ये च भारत

कच्चित्तेषां शरीराणि धक्ष्यन्ति विधिपूर्वकम्

Mahabharata

Stri Parva, Adhyaya 26, Verse 22

न येषां सन्ति कर्तारो न च येऽत्राहिताग्नयः

वयं च कस्य कुर्यामो बहुत्वात्तात कर्मणः

Mahabharata

Stri Parva, Adhyaya 26, Verse 23

यान्सुपर्णाश्च गृध्राश्च विकर्षन्ति ततस्ततः

तेषां तु कर्मणा लोका भविष्यन्ति युधिष्ठिर

Mahabharata

Stri Parva, Adhyaya 26, Verse 24

एवमुक्तो महाप्राज्ञः कुन्तीपुत्रो युधिष्ठिरः

आदिदेश सुधर्माणं धौम्यं सूतं च संजयम्

Mahabharata

Stri Parva, Adhyaya 26, Verse 25

विदुरं च महाबुद्धिं युयुत्सुं चैव कौरवम्

इन्द्रसेनमुखांश्चैव भृत्यान्सूतांश्च सर्वशः

Mahabharata

Stri Parva, Adhyaya 26, Verse 26

भवन्तः कारयन्त्वेषां प्रेतकार्याणि सर्वशः

यथा चानाथवत्किंचिच्छरीरं न विनश्यति

Mahabharata

Stri Parva, Adhyaya 26, Verse 27

शासनाद्धर्मराजस्य क्षत्ता सूतश्च संजयः

सुधर्मा धौम्यसहित इन्द्रसेनादयस्तथा

Mahabharata

Stri Parva, Adhyaya 26, Verse 28

चन्दनागुरुकाष्ठानि तथा कालीयकान्युत

घृतं तैलं च गन्धांश्च क्षौमाणि वसनानि च

Mahabharata

Stri Parva, Adhyaya 26, Verse 29

समाहृत्य महार्हाणि दारूणां चैव संचयान्

रथांश्च मृदितांस्तत्र नानाप्रहरणानि च

Mahabharata

Stri Parva, Adhyaya 26, Verse 30

चिताः कृत्वा प्रयत्नेन यथामुख्यान्नराधिपान्

दाहयामासुरव्यग्रा विधिदृष्टेन कर्मणा