Mahabharata

Stri Parva, Adhyaya 25

Containing 46 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Stri Parva, Adhyaya 25, Verse 1

काम्बोजं पश्य दुर्धर्षं काम्बोजास्तरणोचितम्

शयानमृषभस्कन्धं हतं पांसुशु माधव

Mahabharata

Stri Parva, Adhyaya 25, Verse 2

यस्य क्षतजसंदिग्धौ बाहू चन्दनरूषितौ

अवेक्ष्य कृपणं भार्या विलपत्यतिदुःखिता

Mahabharata

Stri Parva, Adhyaya 25, Verse 3

इमौ तौ परिघप्रख्यौ बाहू शुभतलाङ्गुली

ययोर्विवरमापन्नां न रतिर्मां पुराजहत्

Mahabharata

Stri Parva, Adhyaya 25, Verse 4

कां गतिं नु गमिष्यामि त्वया हीना जनेश्वर

दूरबन्धुरनाथेव अतीव मधुरस्वरा

Mahabharata

Stri Parva, Adhyaya 25, Verse 5

आतपे क्लाम्यमानानां विविधानामिव स्रजाम्

क्लान्तानामपि नारीणां न श्रीर्जहति वै तनुम्

Mahabharata

Stri Parva, Adhyaya 25, Verse 6

शयानमभितः शूरं कालिङ्गं मधुसूदन

पश्य दीप्ताङ्गदयुगप्रतिबद्धमहाभुजम्

Mahabharata

Stri Parva, Adhyaya 25, Verse 7

मागधानामधिपतिं जयत्सेनं जनार्दन

परिवार्य प्ररुदिता मागध्यः पश्य योषितः

Mahabharata

Stri Parva, Adhyaya 25, Verse 8

आसामायतनेत्राणां सुस्वराणां जनार्दन

मनःश्रुतिहरो नादो मनो मोहयतीव मे

Mahabharata

Stri Parva, Adhyaya 25, Verse 9

प्रकीर्णसर्वाभरणा रुदन्त्यः शोककर्शिताः

स्वास्तीर्णशयनोपेता मागध्यः शेरते भुवि

Mahabharata

Stri Parva, Adhyaya 25, Verse 10

कोसलानामधिपतिं राजपुत्रं बृहद्बलम्

भर्तारं परिवार्यैताः पृथक्प्ररुदिताः स्त्रियः

Mahabharata

Stri Parva, Adhyaya 25, Verse 11

अस्य गात्रगतान्बाणान्कार्ष्णिबाहुबलार्पितान्

उद्धरन्त्यसुखाविष्टा मूर्छमानाः पुनः पुनः

Mahabharata

Stri Parva, Adhyaya 25, Verse 12

आसां सर्वानवद्यानामातपेन परिश्रमात्

प्रम्लाननलिनाभानि भान्ति वक्त्राणि माधव

Mahabharata

Stri Parva, Adhyaya 25, Verse 13

द्रोणेन निहताः शूराः शेरते रुचिराङ्गदाः

द्रोणेनाभिमुखाः सर्वे भ्रातरः पञ्च केकयाः

Mahabharata

Stri Parva, Adhyaya 25, Verse 14

तप्तकाञ्चनवर्माणस्ताम्रध्वजरथस्रजः

भासयन्ति महीं भासा ज्वलिता इव पावकाः

Mahabharata

Stri Parva, Adhyaya 25, Verse 15

द्रोणेन द्रुपदं संख्ये पश्य माधव पातितम्

महाद्विपमिवारण्ये सिंहेन महता हतम्

Mahabharata

Stri Parva, Adhyaya 25, Verse 16

पाञ्चालराज्ञो विपुलं पुण्डरीकाक्ष पाण्डुरम्

आतपत्रं समाभाति शरदीव दिवाकरः

Mahabharata

Stri Parva, Adhyaya 25, Verse 17

एतास्तु द्रुपदं वृद्धं स्नुषा भार्याश्च दुःखिताः

दग्ध्वा गच्छन्ति पाञ्चाल्यं राजानमपसव्यतः

Mahabharata

Stri Parva, Adhyaya 25, Verse 18

धृष्टकेतुं महेष्वासं चेदिपुंगवमङ्गनाः

द्रोणेन निहतं शूरं हरन्ति हृतचेतसः

Mahabharata

Stri Parva, Adhyaya 25, Verse 19

द्रोणास्त्रमभिहत्यैष विमर्दे मधुसूदन

महेष्वासो हतः शेते नद्या हृत इव द्रुमः

Mahabharata

Stri Parva, Adhyaya 25, Verse 20

एष चेदिपतिः शूरो धृष्टकेतुर्महारथः

शेते विनिहतः संख्ये हत्वा शत्रून्सहस्रशः

Mahabharata

Stri Parva, Adhyaya 25, Verse 21

वितुद्यमानं विहगैस्तं भार्याः प्रत्युपस्थिताः

चेदिराजं हृषीकेश हतं सबलबान्धवम्

Mahabharata

Stri Parva, Adhyaya 25, Verse 22

दाशार्हीपुत्रजं वीरं शयानं सत्यविक्रमम्

आरोप्याङ्के रुदन्त्येताश्चेदिराजवराङ्गनाः

Mahabharata

Stri Parva, Adhyaya 25, Verse 23

अस्य पुत्रं हृषीकेश सुवक्त्रं चारुकुण्डलम्

द्रोणेन समरे पश्य निकृत्तं बहुधा शरैः

Mahabharata

Stri Parva, Adhyaya 25, Verse 24

पितरं नूनमाजिस्थं युध्यमानं परैः सह

नाजहात्पृष्ठतो वीरमद्यापि मधुसूदन

Mahabharata

Stri Parva, Adhyaya 25, Verse 25

एवं ममापि पुत्रस्य पुत्रः पितरमन्वगात्

दुर्योधनं महाबाहो लक्ष्मणः परवीरहा

Mahabharata

Stri Parva, Adhyaya 25, Verse 26

विन्दानुविन्दावावन्त्यौ पतितौ पश्य माधव

हिमान्ते पुष्पितौ शालौ मरुता गलिताविव

Mahabharata

Stri Parva, Adhyaya 25, Verse 27

काञ्चनाङ्गदवर्माणौ बाणखड्गधनुर्धरौ

ऋषभप्रतिरूपाक्षौ शयानौ विमलस्रजौ

Mahabharata

Stri Parva, Adhyaya 25, Verse 28

अवध्याः पाण्डवाः कृष्ण सर्व एव त्वया सह

ये मुक्ता द्रोणभीष्माभ्यां कर्णाद्वैकर्तनात्कृपात्

Mahabharata

Stri Parva, Adhyaya 25, Verse 29

दुर्योधनाद्द्रोणसुतात्सैन्धवाच्च महारथात्

सोमदत्ताद्विकर्णाच्च शूराच्च कृतवर्मणः

ये हन्युः शस्त्रवेगेन देवानपि नरर्षभाः

Mahabharata

Stri Parva, Adhyaya 25, Verse 30

त इमे निहताः संख्ये पश्य कालस्य पर्ययम्

नातिभारोऽस्ति दैवस्य ध्रुवं माधव कश्चन

यदिमे निहताः शूराः क्षत्रियैः क्षत्रियर्षभाः