Mahabharata

Stri Parva, Adhyaya 24

Containing 28 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Stri Parva, Adhyaya 24, Verse 1

सोमदत्तसुतं पश्य युयुधानेन पातितम्

वितुद्यमानं विहगैर्बहुभिर्माधवान्तिके

Mahabharata

Stri Parva, Adhyaya 24, Verse 2

पुत्रशोकाभिसंतप्तः सोमदत्तो जनार्दन

युयुधानं महेष्वासं गर्हयन्निव दृश्यते

Mahabharata

Stri Parva, Adhyaya 24, Verse 3

असौ तु भूरिश्रवसो माता शोकपरिप्लुता

आश्वासयति भर्तारं सोमदत्तमनिन्दिता

Mahabharata

Stri Parva, Adhyaya 24, Verse 4

दिष्ट्या नेदं महाराज दारुणं भरतक्षयम्

कुरुसंक्रन्दनं घोरं युगान्तमनुपश्यसि

Mahabharata

Stri Parva, Adhyaya 24, Verse 5

दिष्ट्या यूपध्वजं वीरं पुत्रं भूरिसहस्रदम्

अनेकक्रतुयज्वानं निहतं नाद्य पश्यसि

Mahabharata

Stri Parva, Adhyaya 24, Verse 6

दिष्ट्या स्नुषाणामाक्रन्दे घोरं विलपितं बहु

न शृणोषि महाराज सारसीनामिवार्णवे

Mahabharata

Stri Parva, Adhyaya 24, Verse 7

एकवस्त्रानुसंवीताः प्रकीर्णासितमूर्धजाः

स्नुषास्ते परिधावन्ति हतापत्या हतेश्वराः

Mahabharata

Stri Parva, Adhyaya 24, Verse 8

श्वापदैर्भक्ष्यमाणं त्वमहो दिष्ट्या न पश्यसि

छिन्नबाहुं नरव्याघ्रमर्जुनेन निपातितम्

Mahabharata

Stri Parva, Adhyaya 24, Verse 9

शलं विनिहतं संख्ये भूरिश्रवसमेव च

स्नुषाश्च विधवाः सर्वा दिष्ट्या नाद्येह पश्यसि

Mahabharata

Stri Parva, Adhyaya 24, Verse 10

दिष्ट्या तत्काञ्चनं छत्रं यूपकेतोर्महात्मनः

विनिकीर्णं रथोपस्थे सौमदत्तेर्न पश्यसि

Mahabharata

Stri Parva, Adhyaya 24, Verse 11

अमूस्तु भूरिश्रवसो भार्याः सात्यकिना हतम्

परिवार्यानुशोचन्ति भर्तारमसितेक्षणाः

Mahabharata

Stri Parva, Adhyaya 24, Verse 12

एता विलप्य बहुलं भर्तृशोकेन कर्शिताः

पतन्त्यभिमुखा भूमौ कृपणं बत केशव

Mahabharata

Stri Parva, Adhyaya 24, Verse 13

बीभत्सुरतिबीभत्सं कर्मेदमकरोत्कथम्

प्रमत्तस्य यदच्छैत्सीद्बाहुं शूरस्य यज्वनः

Mahabharata

Stri Parva, Adhyaya 24, Verse 14

ततः पापतरं कर्म कृतवानपि सात्यकिः

यस्मात्प्रायोपविष्टस्य प्राहार्षीत्संशितात्मनः

Mahabharata

Stri Parva, Adhyaya 24, Verse 15

एको द्वाभ्यां हतः शेषे त्वमधर्मेण धार्मिकः

इति यूपध्वजस्यैताः स्त्रियः क्रोशन्ति माधव

Mahabharata

Stri Parva, Adhyaya 24, Verse 16

भार्या यूपध्वजस्यैषा करसंमितमध्यमा

कृत्वोत्सङ्गे भुजं भर्तुः कृपणं पर्यदेवयत्

Mahabharata

Stri Parva, Adhyaya 24, Verse 17

अयं स रशनोत्कर्षी पीनस्तनविमर्दनः

नाभ्यूरुजघनस्पर्शी नीवीविस्रंसनः करः

Mahabharata

Stri Parva, Adhyaya 24, Verse 18

वासुदेवस्य सांनिध्ये पार्थेनाक्लिष्टकर्मणा

युध्यतः समरेऽन्येन प्रमत्तस्य निपातितः

Mahabharata

Stri Parva, Adhyaya 24, Verse 19

किं नु वक्ष्यसि संसत्सु कथासु च जनार्दन

अर्जुनस्य महत्कर्म स्वयं वा स किरीटवान्

Mahabharata

Stri Parva, Adhyaya 24, Verse 20

इत्येवं गर्हयित्वैषा तूष्णीमास्ते वराङ्गना

तामेतामनुशोचन्ति सपत्न्यः स्वामिव स्नुषाम्

Mahabharata

Stri Parva, Adhyaya 24, Verse 21

गान्धारराजः शकुनिर्बलवान्सत्यविक्रमः

निहतः सहदेवेन भागिनेयेन मातुलः

Mahabharata

Stri Parva, Adhyaya 24, Verse 22

यः पुरा हेमदण्डाभ्यां व्यजनाभ्यां स्म वीज्यते

स एष पक्षिभिः पक्षैः शयान उपवीज्यते

Mahabharata

Stri Parva, Adhyaya 24, Verse 23

यः स्म रूपाणि कुरुते शतशोऽथ सहस्रशः

तस्य मायाविनो माया दग्धाः पाण्डवतेजसा

Mahabharata

Stri Parva, Adhyaya 24, Verse 24

मायया निकृतिप्रज्ञो जितवान्यो युधिष्ठिरम्

सभायां विपुलं राज्यं स पुनर्जीवितं जितः

Mahabharata

Stri Parva, Adhyaya 24, Verse 25

शकुन्ताः शकुनिं कृष्ण समन्तात्पर्युपासते

कितवं मम पुत्राणां विनाशायोपशिक्षितम्

Mahabharata

Stri Parva, Adhyaya 24, Verse 26

एतेनैतन्महद्वैरं प्रसक्तं पाण्डवैः सह

वधाय मम पुत्राणामात्मनः सगणस्य च

Mahabharata

Stri Parva, Adhyaya 24, Verse 27

यथैव मम पुत्राणां लोकाः शस्त्रजिताः प्रभो

एवमस्यापि दुर्बुद्धेर्लोकाः शस्त्रेण वै जिताः

Mahabharata

Stri Parva, Adhyaya 24, Verse 28

कथं च नायं तत्रापि पुत्रान्मे भ्रातृभिः सह

विरोधयेदृजुप्रज्ञाननृजुर्मधुसूदन