Mahabharata

Stri Parva, Adhyaya 22

Containing 18 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Stri Parva, Adhyaya 22, Verse 1

आवन्त्यं भीमसेनेन भक्षयन्ति निपातितम्

गृध्रगोमायवः शूरं बहुबन्धुमबन्धुवत्

Mahabharata

Stri Parva, Adhyaya 22, Verse 2

तं पश्य कदनं कृत्वा शत्रूणां मधुसूदन

शयानं वीरशयने रुधिरेण समुक्षितम्

Mahabharata

Stri Parva, Adhyaya 22, Verse 3

तं सृगालाश्च कङ्काश्च क्रव्यादाश्च पृथग्विधाः

तेन तेन विकर्षन्ति पश्य कालस्य पर्ययम्

Mahabharata

Stri Parva, Adhyaya 22, Verse 4

शयानं वीरशयने वीरमाक्रन्दसारिणम्

आवन्त्यमभितो नार्यो रुदत्यः पर्युपासते

Mahabharata

Stri Parva, Adhyaya 22, Verse 5

प्रातिपीयं महेष्वासं हतं भल्लेन बाह्लिकम्

प्रसुप्तमिव शार्दूलं पश्य कृष्ण मनस्विनम्

Mahabharata

Stri Parva, Adhyaya 22, Verse 6

अतीव मुखवर्णोऽस्य निहतस्यापि शोभते

सोमस्येवाभिपूर्णस्य पौर्णमास्यां समुद्यतः

Mahabharata

Stri Parva, Adhyaya 22, Verse 7

पुत्रशोकाभितप्तेन प्रतिज्ञां परिरक्षता

पाकशासनिना संख्ये वार्द्धक्षत्रिर्निपातितः

Mahabharata

Stri Parva, Adhyaya 22, Verse 8

एकादश चमूर्जित्वा रक्ष्यमाणं महात्मना

सत्यं चिकीर्षता पश्य हतमेनं जयद्रथम्

Mahabharata

Stri Parva, Adhyaya 22, Verse 9

सिन्धुसौवीरभर्तारं दर्पपूर्णं मनस्विनम्

भक्षयन्ति शिवा गृध्रा जनार्दन जयद्रथम्

Mahabharata

Stri Parva, Adhyaya 22, Verse 10

संरक्ष्यमाणं भार्याभिरनुरक्ताभिरच्युत

भषन्तो व्यपकर्षन्ति गहनं निम्नमन्तिकात्

Mahabharata

Stri Parva, Adhyaya 22, Verse 11

तमेताः पर्युपासन्ते रक्षमाणा महाभुजम्

सिन्धुसौवीरगान्धारकाम्बोजयवनस्त्रियः

Mahabharata

Stri Parva, Adhyaya 22, Verse 12

यदा कृष्णामुपादाय प्राद्रवत्केकयैः सह

तदैव वध्यः पाण्डूनां जनार्दन जयद्रथः

Mahabharata

Stri Parva, Adhyaya 22, Verse 13

दुःशलां मानयद्भिस्तु यदा मुक्तो जयद्रथः

कथमद्य न तां कृष्ण मानयन्ति स्म ते पुनः

Mahabharata

Stri Parva, Adhyaya 22, Verse 14

सैषा मम सुता बाला विलपन्ती सुदुःखिता

प्रमापयति चात्मानमाक्रोशति च पाण्डवान्

Mahabharata

Stri Parva, Adhyaya 22, Verse 15

किं नु दुःखतरं कृष्ण परं मम भविष्यति

यत्सुता विधवा बाला स्नुषाश्च निहतेश्वराः

Mahabharata

Stri Parva, Adhyaya 22, Verse 16

अहो धिग्दुःशलां पश्य वीतशोकभयामिव

शिरो भर्तुरनासाद्य धावमानामितस्ततः

Mahabharata

Stri Parva, Adhyaya 22, Verse 17

वारयामास यः सर्वान्पाण्डवान्पुत्रगृद्धिनः

स हत्वा विपुलाः सेनाः स्वयं मृत्युवशं गतः

Mahabharata

Stri Parva, Adhyaya 22, Verse 18

तं मत्तमिव मातङ्गं वीरं परमदुर्जयम्

परिवार्य रुदन्त्येताः स्त्रियश्चन्द्रोपमाननाः