Mahabharata

Stri Parva, Adhyaya 20

Containing 32 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Stri Parva, Adhyaya 20, Verse 1

अध्यर्धगुणमाहुर्यं बले शौर्ये च माधव

पित्रा त्वया च दाशार्ह दृप्तं सिंहमिवोत्कटम्

Mahabharata

Stri Parva, Adhyaya 20, Verse 2

यो बिभेद चमूमेको मम पुत्रस्य दुर्भिदाम्

स भूत्वा मृत्युरन्येषां स्वयं मृत्युवशं गतः

Mahabharata

Stri Parva, Adhyaya 20, Verse 3

तस्योपलक्षये कृष्ण कार्ष्णेरमिततेजसः

अभिमन्योर्हतस्यापि प्रभा नैवोपशाम्यति

Mahabharata

Stri Parva, Adhyaya 20, Verse 4

एषा विराटदुहिता स्नुषा गाण्डीवधन्वनः

आर्ता बाला पतिं वीरं शोच्या शोचत्यनिन्दिता

Mahabharata

Stri Parva, Adhyaya 20, Verse 5

तमेषा हि समासाद्य भार्या भर्तारमन्तिके

विराटदुहिता कृष्ण पाणिना परिमार्जति

Mahabharata

Stri Parva, Adhyaya 20, Verse 6

तस्य वक्त्रमुपाघ्राय सौभद्रस्य यशस्विनी

विबुद्धकमलाकारं कम्बुवृत्तशिरोधरम्

Mahabharata

Stri Parva, Adhyaya 20, Verse 7

काम्यरूपवती चैषा परिष्वजति भामिनी

लज्जमाना पुरेवैनं माध्वीकमदमूर्छिता

Mahabharata

Stri Parva, Adhyaya 20, Verse 8

तस्य क्षतजसंदिग्धं जातरूपपरिष्कृतम्

विमुच्य कवचं कृष्ण शरीरमभिवीक्षते

Mahabharata

Stri Parva, Adhyaya 20, Verse 9

अवेक्षमाणा तं बाला कृष्ण त्वामभिभाषते

अयं ते पुण्डरीकाक्ष सदृशाक्षो निपातितः

Mahabharata

Stri Parva, Adhyaya 20, Verse 10

बले वीर्ये च सदृशस्तेजसा चैव तेऽनघ

रूपेण च तवात्यर्थं शेते भुवि निपातितः

Mahabharata

Stri Parva, Adhyaya 20, Verse 11

अत्यन्तसुकुमारस्य राङ्कवाजिनशायिनः

कच्चिदद्य शरीरं ते भूमौ न परितप्यते

Mahabharata

Stri Parva, Adhyaya 20, Verse 12

मातङ्गभुजवर्ष्माणौ ज्याक्षेपकठिनत्वचौ

काञ्चनाङ्गदिनौ शेषे निक्षिप्य विपुलौ भुजौ

Mahabharata

Stri Parva, Adhyaya 20, Verse 13

व्यायम्य बहुधा नूनं सुखसुप्तः श्रमादिव

एवं विलपतीमार्तां न हि मामभिभाषसे

Mahabharata

Stri Parva, Adhyaya 20, Verse 14

आर्यामार्य सुभद्रां त्वमिमांश्च त्रिदशोपमान्

पितॄन्मां चैव दुःखार्तां विहाय क्व गमिष्यसि

Mahabharata

Stri Parva, Adhyaya 20, Verse 15

तस्य शोणितसंदिग्धान्केशानुन्नाम्य पाणिना

उत्सङ्गे वक्त्रमाधाय जीवन्तमिव पृच्छति

स्वस्रीयं वासुदेवस्य पुत्रं गाण्डीवधन्वनः

Mahabharata

Stri Parva, Adhyaya 20, Verse 16

कथं त्वां रणमध्यस्थं जघ्नुरेते महारथाः

धिगस्तु क्रूरकर्तॄंस्तान्कृपकर्णजयद्रथान्

Mahabharata

Stri Parva, Adhyaya 20, Verse 17

द्रोणद्रौणायनी चोभौ यैरसि व्यसनीकृतः

रथर्षभाणां सर्वेषां कथमासीत्तदा मनः

Mahabharata

Stri Parva, Adhyaya 20, Verse 18

बालं त्वां परिवार्यैकं मम दुःखाय जघ्नुषाम्

कथं नु पाण्डवानां च पाञ्चालानां च पश्यताम्

त्वं वीर निधनं प्राप्तो नाथवान्सन्ननाथवत्

Mahabharata

Stri Parva, Adhyaya 20, Verse 19

दृष्ट्वा बहुभिराक्रन्दे निहतं त्वामनाथवत्

वीरः पुरुषशार्दूलः कथं जीवति पाण्डवः

Mahabharata

Stri Parva, Adhyaya 20, Verse 20

न राज्यलाभो विपुलः शत्रूणां वा पराभवः

प्रीतिं दास्यति पार्थानां त्वामृते पुष्करेक्षण

Mahabharata

Stri Parva, Adhyaya 20, Verse 21

तव शस्त्रजिताँल्लोकान्धर्मेण च दमेन च

क्षिप्रमन्वागमिष्यामि तत्र मां प्रतिपालय

Mahabharata

Stri Parva, Adhyaya 20, Verse 22

दुर्मरं पुनरप्राप्ते काले भवति केनचित्

यदहं त्वां रणे दृष्ट्वा हतं जीवामि दुर्भगा

Mahabharata

Stri Parva, Adhyaya 20, Verse 23

कामिदानीं नरव्याघ्र श्लक्ष्णया स्मितया गिरा

पितृलोके समेत्यान्यां मामिवामन्त्रयिष्यसि

Mahabharata

Stri Parva, Adhyaya 20, Verse 24

नूनमप्सरसां स्वर्गे मनांसि प्रमथिष्यसि

परमेण च रूपेण गिरा च स्मितपूर्वया

Mahabharata

Stri Parva, Adhyaya 20, Verse 25

प्राप्य पुण्यकृताँल्लोकानप्सरोभिः समेयिवान्

सौभद्र विहरन्काले स्मरेथाः सुकृतानि मे

Mahabharata

Stri Parva, Adhyaya 20, Verse 26

एतावानिह संवासो विहितस्ते मया सह

षण्मासान्सप्तमे मासि त्वं वीर निधनं गतः

Mahabharata

Stri Parva, Adhyaya 20, Verse 27

इत्युक्तवचनामेतामपकर्षन्ति दुःखिताम्

उत्तरां मोघसंकल्पां मत्स्यराजकुलस्त्रियः

Mahabharata

Stri Parva, Adhyaya 20, Verse 28

उत्तरामपकृष्यैनामार्तामार्ततराः स्वयम्

विराटं निहतं दृष्ट्वा क्रोशन्ति विलपन्ति च

Mahabharata

Stri Parva, Adhyaya 20, Verse 29

द्रोणास्त्रशरसंकृत्तं शयानं रुधिरोक्षितम्

विराटं वितुदन्त्येते गृध्रगोमायुवायसाः

Mahabharata

Stri Parva, Adhyaya 20, Verse 30

वितुद्यमानं विहगैर्विराटमसितेक्षणाः

न शक्नुवन्ति विवशा निवर्तयितुमातुराः