Mahabharata

Adi Parva, Adhyaya 102

Containing 23 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Adi Parva, Adhyaya 102, Verse 1

तेषु त्रिषु कुमारेषु जातेषु कुरुजाङ्गलम्

कुरवोऽथ कुरुक्षेत्रं त्रयमेतदवर्धत

Mahabharata

Adi Parva, Adhyaya 102, Verse 2

ऊर्ध्वसस्याभवद्भूमिः सस्यानि फलवन्ति च

यथर्तुवर्षी पर्जन्यो बहुपुष्पफला द्रुमाः

Mahabharata

Adi Parva, Adhyaya 102, Verse 3

वाहनानि प्रहृष्टानि मुदिता मृगपक्षिणः

गन्धवन्ति च माल्यानि रसवन्ति फलानि च

Mahabharata

Adi Parva, Adhyaya 102, Verse 4

वणिग्भिश्चावकीर्यन्त नगराण्यथ शिल्पिभिः

शूराश्च कृतविद्याश्च सन्तश्च सुखिनोऽभवन्

Mahabharata

Adi Parva, Adhyaya 102, Verse 5

नाभवन्दस्यवः केचिन्नाधर्मरुचयो जनाः

प्रदेशेष्वपि राष्ट्राणां कृतं युगमवर्तत

Mahabharata

Adi Parva, Adhyaya 102, Verse 6

दानक्रियाधर्मशीला यज्ञव्रतपरायणाः

अन्योन्यप्रीतिसंयुक्ता व्यवर्धन्त प्रजास्तदा

Mahabharata

Adi Parva, Adhyaya 102, Verse 7

मानक्रोधविहीनाश्च जना लोभविवर्जिताः

अन्योन्यमभ्यवर्धन्त धर्मोत्तरमवर्तत

Mahabharata

Adi Parva, Adhyaya 102, Verse 8

तन्महोदधिवत्पूर्णं नगरं वै व्यरोचत

द्वारतोरणनिर्यूहैर्युक्तमभ्रचयोपमैः

प्रासादशतसंबाधं महेन्द्रपुरसंनिभम्

Mahabharata

Adi Parva, Adhyaya 102, Verse 9

नदीषु वनखण्डेषु वापीपल्वलसानुषु

काननेषु च रम्येषु विजह्रुर्मुदिता जनाः

Mahabharata

Adi Parva, Adhyaya 102, Verse 10

उत्तरैः कुरुभिः सार्धं दक्षिणाः कुरवस्तदा

विस्पर्धमाना व्यचरंस्तथा सिद्धर्षिचारणैः

नाभवत्कृपणः कश्चिन्नाभवन्विधवाः स्त्रियः

Mahabharata

Adi Parva, Adhyaya 102, Verse 11

तस्मिञ्जनपदे रम्ये बहवः कुरुभिः कृताः

कूपारामसभावाप्यो ब्राह्मणावसथास्तथा

भीष्मेण शास्त्रतो राजन्सर्वतः परिरक्षिते

Mahabharata

Adi Parva, Adhyaya 102, Verse 12

बभूव रमणीयश्च चैत्ययूपशताङ्कितः

स देशः परराष्ट्राणि प्रतिगृह्याभिवर्धितः

भीष्मेण विहितं राष्ट्रे धर्मचक्रमवर्तत

Mahabharata

Adi Parva, Adhyaya 102, Verse 13

क्रियमाणेषु कृत्येषु कुमाराणां महात्मनाम्

पौरजानपदाः सर्वे बभूवुः सततोत्सवाः

Mahabharata

Adi Parva, Adhyaya 102, Verse 14

गृहेषु कुरुमुख्यानां पौराणां च नराधिप

दीयतां भुज्यतां चेति वाचोऽश्रूयन्त सर्वशः

Mahabharata

Adi Parva, Adhyaya 102, Verse 15

धृतराष्ट्रश्च पाण्डुश्च विदुरश्च महामतिः

जन्मप्रभृति भीष्मेण पुत्रवत्परिपालिताः

Mahabharata

Adi Parva, Adhyaya 102, Verse 16

संस्कारैः संस्कृतास्ते तु व्रताध्ययनसंयुताः

श्रमव्यायामकुशलाः समपद्यन्त यौवनम्

Mahabharata

Adi Parva, Adhyaya 102, Verse 17

धनुर्वेदेऽश्वपृष्ठे च गदायुद्धेऽसिचर्मणि

तथैव गजशिक्षायां नीतिशास्त्रे च पारगाः

Mahabharata

Adi Parva, Adhyaya 102, Verse 18

इतिहासपुराणेषु नानाशिक्षासु चाभिभो

वेदवेदाङ्गतत्त्वज्ञाः सर्वत्र कृतनिश्रमाः

Mahabharata

Adi Parva, Adhyaya 102, Verse 19

पाण्डुर्धनुषि विक्रान्तो नरेभ्योऽभ्यधिकोऽभवत्

अत्यन्यान्बलवानासीद्धृतराष्ट्रो महीपतिः

Mahabharata

Adi Parva, Adhyaya 102, Verse 20

त्रिषु लोकेषु न त्वासीत्कश्चिद्विदुरसंमितः

धर्मनित्यस्ततो राजन्धर्मे च परमं गतः

Mahabharata

Adi Parva, Adhyaya 102, Verse 21

प्रनष्टं शंतनोर्वंशं समीक्ष्य पुनरुद्धृतम्

ततो निर्वचनं लोके सर्वराष्ट्रेष्ववर्तत

Mahabharata

Adi Parva, Adhyaya 102, Verse 22

वीरसूनां काशिसुते देशानां कुरुजाङ्गलम्

सर्वधर्मविदां भीष्मः पुराणां गजसाह्वयम्

Mahabharata

Adi Parva, Adhyaya 102, Verse 23

धृतराष्ट्रस्त्वचक्षुष्ट्वाद्राज्यं न प्रत्यपद्यत

करणत्वाच्च विदुरः पाण्डुरासीन्महीपतिः