Mahabharata

Stri Parva, Adhyaya 19

Containing 21 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Stri Parva, Adhyaya 19, Verse 1

एष माधव पुत्रो मे विकर्णः प्राज्ञसंमतः

भूमौ विनिहतः शेते भीमेन शतधा कृतः

Mahabharata

Stri Parva, Adhyaya 19, Verse 2

गजमध्यगतः शेते विकर्णो मधुसूदन

नीलमेघपरिक्षिप्तः शरदीव दिवाकरः

Mahabharata

Stri Parva, Adhyaya 19, Verse 3

अस्य चापग्रहेणैष पाणिः कृतकिणो महान्

कथंचिच्छिद्यते गृध्रैरत्तुकामैस्तलत्रवान्

Mahabharata

Stri Parva, Adhyaya 19, Verse 4

अस्य भार्यामिषप्रेप्सून्गृध्रानेतांस्तपस्विनी

वारयत्यनिशं बाला न च शक्नोति माधव

Mahabharata

Stri Parva, Adhyaya 19, Verse 5

युवा वृन्दारकः शूरो विकर्णः पुरुषर्षभ

सुखोचितः सुखार्हश्च शेते पांसुषु माधव

Mahabharata

Stri Parva, Adhyaya 19, Verse 6

कर्णिनालीकनाराचैर्भिन्नमर्माणमाहवे

अद्यापि न जहात्येनं लक्ष्मीर्भरतसत्तमम्

Mahabharata

Stri Parva, Adhyaya 19, Verse 7

एष संग्रामशूरेण प्रतिज्ञां पालयिष्यता

दुर्मुखोऽभिमुखः शेते हतोऽरिगणहा रणे

Mahabharata

Stri Parva, Adhyaya 19, Verse 8

तस्यैतद्वदनं कृष्ण श्वापदैरर्धभक्षितम्

विभात्यभ्यधिकं तात सप्तम्यामिव चन्द्रमाः

Mahabharata

Stri Parva, Adhyaya 19, Verse 9

शूरस्य हि रणे कृष्ण यस्याननमथेदृशम्

स कथं निहतोऽमित्रैः पांसून्ग्रसति मे सुतः

Mahabharata

Stri Parva, Adhyaya 19, Verse 10

यस्याहवमुखे सौम्य स्थाता नैवोपपद्यते

स कथं दुर्मुखोऽमित्रैर्हतो विबुधलोकजित्

Mahabharata

Stri Parva, Adhyaya 19, Verse 11

चित्रसेनं हतं भूमौ शयानं मधुसूदन

धार्तराष्ट्रमिमं पश्य प्रतिमानं दनुष्मताम्

Mahabharata

Stri Parva, Adhyaya 19, Verse 12

तं चित्रमाल्याभरणं युवत्यः शोककर्शिताः

क्रव्यादसंघैः सहिता रुदन्त्यः पर्युपासते

Mahabharata

Stri Parva, Adhyaya 19, Verse 13

स्त्रीणां रुदितनिर्घोषः श्वापदानां च गर्जितम्

चित्ररूपमिदं कृष्ण विचित्रं प्रतिभाति मे

Mahabharata

Stri Parva, Adhyaya 19, Verse 14

युवा वृन्दारको नित्यं प्रवरस्त्रीनिषेवितः

विविंशतिरसौ शेते ध्वस्तः पांसुषु माधव

Mahabharata

Stri Parva, Adhyaya 19, Verse 15

शरसंकृत्तवर्माणं वीरं विशसने हतम्

परिवार्यासते गृध्राः परिविंशा विविंशतिम्

Mahabharata

Stri Parva, Adhyaya 19, Verse 16

प्रविश्य समरे वीरः पाण्डवानामनीकिनीम्

आविश्य शयने शेते पुनः सत्पुरुषोचितम्

Mahabharata

Stri Parva, Adhyaya 19, Verse 17

स्मितोपपन्नं सुनसं सुभ्रु ताराधिपोपमम्

अतीव शुभ्रं वदनं पश्य कृष्ण विविंशतेः

Mahabharata

Stri Parva, Adhyaya 19, Verse 18

यं स्म तं पर्युपासन्ते वसुं वासवयोषितः

क्रीडन्तमिव गन्धर्वं देवकन्याः सहस्रशः

Mahabharata

Stri Parva, Adhyaya 19, Verse 19

हन्तारं वीरसेनानां शूरं समितिशोभनम्

निबर्हणममित्राणां दुःसहं विषहेत कः

Mahabharata

Stri Parva, Adhyaya 19, Verse 20

दुःसहस्यैतदाभाति शरीरं संवृतं शरैः

गिरिरात्मरुहैः फुल्लैः कर्णिकारैरिवावृतः

Mahabharata

Stri Parva, Adhyaya 19, Verse 21

शातकौम्भ्या स्रजा भाति कवचेन च भास्वता

अग्निनेव गिरिः श्वेतो गतासुरपि दुःसहः