Stri Parva, Adhyaya 13, Verse 1
धृतराष्ट्राभ्यनुज्ञातास्ततस्ते कुरुपुंगवाः
अभ्ययुर्भ्रातरः सर्वे गान्धारीं सहकेशवाः
Containing 19 sacred Sanskrit shlokas with multi-author commentaries and translations.
धृतराष्ट्राभ्यनुज्ञातास्ततस्ते कुरुपुंगवाः
अभ्ययुर्भ्रातरः सर्वे गान्धारीं सहकेशवाः
ततो ज्ञात्वा हतामित्रं धर्मराजं युधिष्ठिरम्
गान्धारी पुत्रशोकार्ता शप्तुमैच्छदनिन्दिता
तस्याः पापमभिप्रायं विदित्वा पाण्डवान्प्रति
ऋषिः सत्यवतीपुत्रः प्रागेव समबुध्यत
स गङ्गायामुपस्पृश्य पुण्यगन्धं पयः शुचि
तं देशमुपसंपेदे परमर्षिर्मनोजवः
दिव्येन चक्षुषा पश्यन्मनसानुद्धतेन च
सर्वप्राणभृतां भावं स तत्र समबुध्यत
स स्नुषामब्रवीत्काले कल्यवादी महातपाः
शापकालमवाक्षिप्य शमकालमुदीरयन्
न कोपः पाण्डवे कार्यो गान्धारि शममाप्नुहि
रजो निगृह्यतामेतच्छृणु चेदं वचो मम
उक्तास्यष्टादशाहानि पुत्रेण जयमिच्छता
शिवमाशास्स्व मे मातर्युध्यमानस्य शत्रुभिः
सा तथा याच्यमाना त्वं काले काले जयैषिणा
उक्तवत्यसि गान्धारि यतो धर्मस्ततो जयः
न चाप्यतीतां गान्धारि वाचं ते वितथामहम्
स्मरामि भाषमाणायास्तथा प्रणिहिता ह्यसि
सा त्वं धर्मं परिस्मृत्य वाचा चोक्त्वा मनस्विनि
कोपं संयच्छ गान्धारि मैवं भूः सत्यवादिनि
भगवन्नाभ्यसूयामि नैतानिच्छामि नश्यतः
पुत्रशोकेन तु बलान्मनो विह्वलतीव मे
यथैव कुन्त्या कौन्तेया रक्षितव्यास्तथा मया
यथैव धृतराष्ट्रेण रक्षितव्यास्तथा मया
दुर्योधनापराधेन शकुनेः सौबलस्य च
कर्णदुःशासनाभ्यां च वृत्तोऽयं कुरुसंक्षयः
नापराध्यति बीभत्सुर्न च पार्थो वृकोदरः
नकुलः सहदेवो वा नैव जातु युधिष्ठिरः
युध्यमाना हि कौरव्याः कृन्तमानाः परस्परम्
निहताः सहिताश्चान्यैस्तत्र नास्त्यप्रियं मम
यत्तु कर्माकरोद्भीमो वासुदेवस्य पश्यतः
दुर्योधनं समाहूय गदायुद्धे महामनाः
शिक्षयाभ्यधिकं ज्ञात्वा चरन्तं बहुधा रणे
अधो नाभ्यां प्रहृतवांस्तन्मे कोपमवर्धयत्
कथं नु धर्मं धर्मज्ञैः समुद्दिष्टं महात्मभिः
त्यजेयुराहवे शूराः प्राणहेतोः कथंचन