Mahabharata

Stri Parva, Adhyaya 11

Containing 30 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Stri Parva, Adhyaya 11, Verse 1

हतेषु सर्वसैन्येषु धर्मराजो युधिष्ठिरः

शुश्रुवे पितरं वृद्धं निर्यातं गजसाह्वयात्

Mahabharata

Stri Parva, Adhyaya 11, Verse 2

सोऽभ्ययात्पुत्रशोकार्तः पुत्रशोकपरिप्लुतम्

शोचमानो महाराज भ्रातृभिः सहितस्तदा

Mahabharata

Stri Parva, Adhyaya 11, Verse 3

अन्वीयमानो वीरेण दाशार्हेण महात्मना

युयुधानेन च तथा तथैव च युयुत्सुना

Mahabharata

Stri Parva, Adhyaya 11, Verse 4

तमन्वगात्सुदुःखार्ता द्रौपदी शोककर्शिता

सह पाञ्चालयोषिद्भिर्यास्तत्रासन्समागताः

Mahabharata

Stri Parva, Adhyaya 11, Verse 5

स गङ्गामनु वृन्दानि स्त्रीणां भरतसत्तम

कुररीणामिवार्तानां क्रोशन्तीनां ददर्श ह

Mahabharata

Stri Parva, Adhyaya 11, Verse 6

ताभिः परिवृतो राजा रुदतीभिः सहस्रशः

ऊर्ध्वबाहुभिरार्ताभिर्ब्रुवतीभिः प्रियाप्रिये

Mahabharata

Stri Parva, Adhyaya 11, Verse 7

क्व नु धर्मज्ञता राज्ञः क्व नु साद्यानृशंसता

यदावधीत्पितॄन्भ्रातॄन्गुरून्पुत्रान्सखीनपि

Mahabharata

Stri Parva, Adhyaya 11, Verse 8

घातयित्वा कथं द्रोणं भीष्मं चापि पितामहम्

मनस्तेऽभून्महाबाहो हत्वा चापि जयद्रथम्

Mahabharata

Stri Parva, Adhyaya 11, Verse 9

किं नु राज्येन ते कार्यं पितॄन्भ्रातॄनपश्यतः

अभिमन्युं च दुर्धर्षं द्रौपदेयांश्च भारत

Mahabharata

Stri Parva, Adhyaya 11, Verse 10

अतीत्य ता महाबाहुः क्रोशन्तीः कुररीरिव

ववन्दे पितरं ज्येष्ठं धर्मराजो युधिष्ठिरः

Mahabharata

Stri Parva, Adhyaya 11, Verse 11

ततोऽभिवाद्य पितरं धर्मेणामित्रकर्शनाः

न्यवेदयन्त नामानि पाण्डवास्तेऽपि सर्वशः

Mahabharata

Stri Parva, Adhyaya 11, Verse 12

तमात्मजान्तकरणं पिता पुत्रवधार्दितः

अप्रीयमाणः शोकार्तः पाण्डवं परिषस्वजे

Mahabharata

Stri Parva, Adhyaya 11, Verse 13

धर्मराजं परिष्वज्य सान्त्वयित्वा च भारत

दुष्टात्मा भीममन्वैच्छद्दिधक्षुरिव पावकः

Mahabharata

Stri Parva, Adhyaya 11, Verse 14

स कोपपावकस्तस्य शोकवायुसमीरितः

भीमसेनमयं दावं दिधक्षुरिव दृश्यते

Mahabharata

Stri Parva, Adhyaya 11, Verse 15

तस्य संकल्पमाज्ञाय भीमं प्रत्यशुभं हरिः

भीममाक्षिप्य पाणिभ्यां प्रददौ भीममायसम्

Mahabharata

Stri Parva, Adhyaya 11, Verse 16

प्रागेव तु महाबुद्धिर्बुद्ध्वा तस्येङ्गितं हरिः

संविधानं महाप्राज्ञस्तत्र चक्रे जनार्दनः

Mahabharata

Stri Parva, Adhyaya 11, Verse 17

तं तु गृह्यैव पाणिभ्यां भीमसेनमयस्मयम्

बभञ्ज बलवान्राजा मन्यमानो वृकोदरम्

Mahabharata

Stri Parva, Adhyaya 11, Verse 18

नागायुतबलप्राणः स राजा भीममायसम्

भङ्क्त्वा विमथितोरस्कः सुस्राव रुधिरं मुखात्

Mahabharata

Stri Parva, Adhyaya 11, Verse 19

ततः पपात मेदिन्यां तथैव रुधिरोक्षितः

प्रपुष्पिताग्रशिखरः पारिजात इव द्रुमः

Mahabharata

Stri Parva, Adhyaya 11, Verse 20

पर्यगृह्णत तं विद्वान्सूतो गावल्गणिस्तदा

मैवमित्यब्रवीच्चैनं शमयन्सान्त्वयन्निव

Mahabharata

Stri Parva, Adhyaya 11, Verse 21

स तु कोपं समुत्सृज्य गतमन्युर्महामनाः

हा हा भीमेति चुक्रोश भूयः शोकसमन्वितः

Mahabharata

Stri Parva, Adhyaya 11, Verse 22

तं विदित्वा गतक्रोधं भीमसेनवधार्दितम्

वासुदेवो वरः पुंसामिदं वचनमब्रवीत्

Mahabharata

Stri Parva, Adhyaya 11, Verse 23

मा शुचो धृतराष्ट्र त्वं नैष भीमस्त्वया हतः

आयसी प्रतिमा ह्येषा त्वया राजन्निपातिता

Mahabharata

Stri Parva, Adhyaya 11, Verse 24

त्वां क्रोधवशमापन्नं विदित्वा भरतर्षभ

मयापकृष्टः कौन्तेयो मृत्योर्दंष्ट्रान्तरं गतः

Mahabharata

Stri Parva, Adhyaya 11, Verse 25

न हि ते राजशार्दूल बले तुल्योऽस्ति कश्चन

कः सहेत महाबाहो बाह्वोर्निग्रहणं नरः

Mahabharata

Stri Parva, Adhyaya 11, Verse 26

यथान्तकमनुप्राप्य जीवन्कश्चिन्न मुच्यते

एवं बाह्वन्तरं प्राप्य तव जीवेन्न कश्चन

Mahabharata

Stri Parva, Adhyaya 11, Verse 27

तस्मात्पुत्रेण या सा ते प्रतिमा कारितायसी

भीमस्य सेयं कौरव्य तवैवोपहृता मया

Mahabharata

Stri Parva, Adhyaya 11, Verse 28

पुत्रशोकाभिसंतापाद्धर्मादपहृतं मनः

तव राजेन्द्र तेन त्वं भीमसेनं जिघांससि

Mahabharata

Stri Parva, Adhyaya 11, Verse 29

न च ते तत्क्षमं राजन्हन्यास्त्वं यद्वृकोदरम्

न हि पुत्रा महाराज जीवेयुस्ते कथंचन

Mahabharata

Stri Parva, Adhyaya 11, Verse 30

तस्माद्यत्कृतमस्माभिर्मन्यमानैः क्षमं प्रति

अनुमन्यस्व तत्सर्वं मा च शोके मनः कृथाः